________________ 206 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली घस्तुतत्वमध्यवसन्ती प्रत्यभिज्ञा भावानां प्रतिक्षणमुत्पादविनाशौ तिरयतीति / भ्रान्तेयं प्रतीतिरिति चेन्न, बाधकाभावात् / क्षणभङ्गसाधन'मेव बाधकमिति चेत् ? प्रत्यक्षबाधे सत्यबाधितविषयत्वादनुमानोदयः, उदिते च तस्मिन् प्रत्यक्षबाध इत्यन्योन्याश्रयत्वम् / प्रत्यक्षे तु नायं विधिस्तस्यानपेक्षत्वात्, ज्वालादिषु सामान्यविषयं प्रत्यक्षं विशेषविषयञ्चानुमानमित्यविरोधान्न प्रत्यक्षेणानुमानोत्पत्तिनिषेध इत्यलम् / [टि०] ननु यदि प्रत्यक्षबाधितं दृढमप्यनुमानं नोदेति तर्हि कथं ज्वालादौ प्रत्यक्षबाधितस्य भेदप्रतिपादकानुमानस्योदय . इत्याह ज्वालादिषु इति :-ज्वालादौ हि भिन्नव्यक्तिसमवेतैकसामान्यालम्बनत्वेन प्रत्यभिज्ञानमन्यथासिद्धं भेदानुमानं तु भिन्नपरिमाणाश्रयत्वादिति 'दृढव्याप्तिकमिति / ननु घटक्षणविषयप्रत्यभिज्ञानेऽपि समानमिदम्? नवम्, बौद्धसिद्धान्ते सामान्यान'भ्युपगमात् / ज्वालादौ तु सामान्याभ्युपगमोऽस्ति घटशरावादौ च भिन्नपरिमाणाश्रयत्वभिन्नत्वयोर्दृढव्याप्तिग्राहकेण प्रत्यक्षेणाबाधितेन प्रत्यभिज्ञाप्रत्यक्षमन्यथासिद्ध बाधितं, न त्वेवं घटक्षणे इति / . [पं०] ज्ञायाम्। प्रत्यक्षे इति-अस्मदीये प्रत्यभिज्ञानाख्ये। अनुमानोदय इति त्वत्प्रयुक्तस्यानुमानस्योदयः / प्रत्यक्षे तु नायं विधिरिति प्रत्यक्षे तु नान्योन्याश्रयदोषोपपत्तिरित्यर्थः / ननु प्रत्यक्षबाधितं दृढमप्यनुमानं नोदेति, कथं तहि ज्वालादौ प्रत्यक्षबाधितस्य, 'इयं ज्वालाभिन्नपरिमाणाश्रयत्वात्, वस्तुद्वयवत्'-इत्यनुमानस्योदय इत्याह ज्वालादिग्वित्यादि / सामान्यविषयमिति ज्वालात्वसामान्यविषयम् / इत्यविरोधादिति समानविषययोहि विरोधः / [कु०] ननु बीजादीनां नित्याद्यसहकृतानां कार्यान्तरानुपलम्भादकुरादिकमुत्सर्गकार्यमेव; इह तु वर्तमानावच्छिन्नाग्रहणमन्यदेवोत्सर्गकायमिन्द्रियस्येति कथं तयिदतिपातः संस्कारसचिवस्य स्यात् ! न हि स[१] कारिसहनलाभेऽपि वह्नरोपसगिकदाहादिकार्यातिपातेन सेचनादौ सामर्थ्यमुपलब्धमित्यत आह यत्रेति (कं. 80.24) / सेषां किञ्चित्सहकारिलाभे औत्सर्गिककार्यमतिपत्य कार्यान्तरजनकत्वं दृश्यते; यथा दावानलदग्धस्य चैत्रबीनस्य कवलीकाण्डजनकत्वमिति भावः। भ्राम्तेयमिति (कं. 81.8) या या प्रत्यभिशा सा सा भ्रान्ता यथा ज्वालाप्रत्यभिज्ञा, इयं च प्रत्यभिशेत्यनुमानादिति / उपाधिमाह नेति (कं. 81.8) / साधनव्यापकत्वमाशङ्कते क्षणभङ्गेति (कं. 81.8) / ननु यद्य (व) नपेक्षत्वात्प्रत्यक्षमनुमानेन बाध्यते कथं तहि प्रत्यभिज्ञानमनुमानेन बाध्यत इत्यत आह ज्वालादिष्विति (कं. 81.10) / सत्र विरुद्धपंसर्गेण भेदानुमानादनेककालसम्बधिसामान्यविषयतया प्रत्यभिज्ञानमन्यथासिद्धिः प्रत्यभिज्ञाया इति भावः / 1 मेतस्या-कं. 1, कं. 2 / 2 दृष्ट-अ, ब, 3 भ्युपगमात्-अ,ब;