________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् 205 न्यायकन्दली 'प्रत्यक्षतैव, इन्द्रियजज्ञानविषयत्वात् तन्मात्रानुबन्धित्वाच्च प्रत्यक्षतायाः। असन्निहितमपि परिच्छिन्दविन्द्रियं पूर्वकालतामेव परिच्छिनत्ति न भविष्यत्कालताम्, तत्र संस्कारस्य सहकारिगोऽभावात् / न चैकस्योभयकालतया कविक्षनुपातिः, यतस्योपकारला सङ्कलयतः कल्पनात्वम्, दृष्टो टेकस्यानेकेन विशेषणेन सम्बन्धो यथा 'चैत्रस्य छत्रपुस्तकाभ्याम् / युगपच्छत्रपुस्तकसम्बन्धे क्रमेण कालद्वयसम्बन्धे च न कश्चिद् विशेषः, एकस्योभयविशेषणावच्छेदप्रतीतेरुभयत्राविशेषात् / तदेवं देशकालावस्थाभेदानगतमेकं [टि.] इन्द्रियज'ज्ञानेति :- ननु प्राप्यकारित्वाद् इन्द्रियाणामप्राप्यापूर्वावस्था कथमिन्द्रियगोचरः ? सत्यम्, संयुक्तविशेषणतया गोचरत्वम् / यद्यविद्यमानमपि तदानीमिन्द्रियग्राह्यं तहि भविष्यत्कालता कथं नेन्द्रियग्राह्येत्याह असन्निहितमपि इति / ननु गोभावो वर्तमानकालसन्निहितो नासावतीतकालसम्बन्धः, तस्मात्कालद्वय विशिष्टं भावमेकदैव गृह्णत् प्रत्यक्षं 'काल्पनिकमेवेत्याह-न चैकस्योभयेति :- एकस्य ग्राह्यस्य विषयस्यानेककाल सम्बन्धे यद्यनुपपत्तिः स्यात्, तदैककालसम्बद्धस्य वस्तुनः सम्बन्धिनीमनेककालता गृहणतोऽस्य प्रत्यभिज्ञानस्य काल्पनिकरवं स्यात् न त्वेवमस्ति एकस्याप्यनेकेन सह सम्बन्धाभ्युपगमात् / नन्वेकस्य चैत्रस्य युगपवयेन सम्बन्धः पूर्वापर कालाभ्यां तु क्रमेणेति कुतो दृष्टान्तेन साम्यमित्याह युगपच्छत्रेति :- एतावांस्तु विशेषो यदेकत्र साक्षाद् विशेषणतया [अन्यत्र संयुक्तविशेषणतया प्रतीतिरिति। "तदेवंदेशेतिः-देशभेदेन यदेव वाराणस्यां दृष्टं तदेव पाटलिपुत्रे। "कालभेदेन यदेव कल्पे दृष्टं तदेवाय / अवस्थाभेदेन यदेव नवं दृष्टं तदेव पुराणमिति / [पं०] मनु प्रत्यक्षतापरोक्षते तावत्स्यू: (स्तः?), विरोधाभावस्य तयोः सत्योरेव भणितुमर्हत्वात्तत्कथं प्रत्यक्षतव ज्ञानस्य / उच्यते - यथा नीलपीताद्याकारवत्त्वेऽपि ज्ञानस्यैका चित्रता तथाऽत्रापि प्रत्यक्षतवैका, नाकारद्वयव्यपदेशः। येनास्योभयकालतामिति-अवास्येति प्रत्यभिज्ञानस्य / युगपच्छत्रपुस्तकसंबन्ध इति चैत्रस्य / क्रमेणकालद्वयसम्बन्ध इति प्रत्यभि [कु०] कारणानुपपत्ति परिहरति प्रतीयमानेति (कं. 80.17) / जगद्वैचित्र्यस्याऽपह्नवप्रसङ्गात् तदनुकूलस्य विचित्रस्यादृष्टस्य 'कारणस्य व [क]ल्पत इति शेषः / तर्हि कल्पयतु भवानित्यत आह तेनेति (कं. 80.19) / प्रत्यक्षतापरोक्षतारूपस्वभावभेदान्नैतदेकं विज्ञानमिति यदुक्तं तत्राह प्राप्स्यति चेति (कं. 80.22) / यद्यपि पूर्वकालता संस्कारस्यैव विषयः, तथापि विषयस्येन्द्रियसन्निकर्षादिन्द्रियस्यैव प्राधान्यम् / यथा सुरभि चन्दनमिति प्राणकविषयत्वेऽपि विशेष्यग्राहिप्राधान्येन विशिष्टज्ञानस्य चाक्षुषत्वमनुव्यवसायेन निश्चीयते; न तद्वदिहापीति भावः / 1 प्रत्यक्षव-जे. 1, जे. 2, जे. 3 / 2 पाण्डुदासस्य -- जे. 3 / 3 ज्ञातति - अ, ब; 4 यद्यमान -म; 5 तत्काल - अ, ब; 6 कात्य - अ, ब; 7 सम्बन्धि-ड; 8 कालयोभ्यांस्तु-अ, ब, क; [ ] - एतच्चिह्नान्तर्गतः पाठः ड पुस्तके नास्ति / 10 तदेशेति -अ, तद्देशेति -ब; 11 कालभेदे-अ, ब, क; 12 कारणस्य कल्पना इत्यर्थदृष्ट्या सङ्गच्छते- सं /