________________ 204 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली तस्मादेकमेवेदं विज्ञानमिति प्रतीतिसामर्थ्यादुभयविषयमास्थेयम् / प्रतीयमानकार्योत्पत्तये चाप्रतीयमानमपि कारणं कल्पयन्ति विद्वांसो न तु कारणाप्रतीत्या विशदमपि कार्यमपह्नवते जगवैचित्र्यस्याप्यपह्नवप्रसङ्गात् / तेन यद्यपि प्रत्येकमिन्द्रियसंस्कारावसमर्थों तथापि संहताभ्यामिदमेकं कायं प्रत्यभिज्ञास्वभावं प्रभावयिष्यते, भविष्यति चैतदुभयकारणसामर्थ्यादुभयविषयम्, प्राप्स्यति च प्रत्यक्षतां विषयेन्द्रियसामर्थ्यानु विधानात् / न च यत्रैकैकमसमथं तत्र मिलितानामपि तेषामसामर्थ्यम् ? प्रत्येकमकुर्वतामपि क्षित्युदक'बीजादीनामन्योन्यसन्निधिभाजामडाकुरादिजननोपलब्धेः। यत्र विलक्षणा सामग्री तत्र कार्यमपि विलक्षणमेव स्यादिति सुप्रतीतम्, तेनास्य सन्निहितासन्निहितविषयतालक्षणे प्रत्यक्षतापरोक्षते न विरोत्स्यते / अत एव चेन्द्रियसन्निकर्षाभावेऽपि पूर्वकाल [वि०] प्रस्तुते हि संस्कारस्य पूर्वकालावच्छिन्नं ग्राह्यं प्रत्यक्षस्य तु सम्प्रतिकालावच्छिन्नमित्यवच्छेदभेदान्न द्वयोरेको विषयः / ननु शिलाशकलानामिव येवो प्रत्येकमसामर्थ्य तेषां मिलितानामप्यसामर्थ्यमेव तत्कथं संस्कारप्रत्यक्षादीनां प्रत्येकम'सामर्थ्य मिलितानामपि सामर्थ्यमत आह यत्रैकैकम् इति:- द्विविधं हि भावानां सामर्थ्यम्, स्वरूपसारूप्यं सहकारिसामथ्यं च / तत्र प्रत्येकं स्वरूपसामर्थ्य मिलितानां च सहकारिसामर्थ्यमपि इति सामर्थ्य यसद्भावे कार्योत्पत्तिरिति भावः / स्वभावभेदं निराचष्टे यत्र विलक्षणेति / [पं०] प्रत्यक्षतापरोक्षतालक्षणं विषयद्वयमालम्बेते। एकमेवेदं विज्ञानमिति-इदमंशतदंशग्राहकम् / उभयविषयमास्थेयमिति उभयस्य ग्रहणस्मरणरूपस्य सम्बन्धी विषयो यस्य तत्तथा / न पुनरुभयं विषयो यस्य / तस्यकविषयत्वेनोक्तत्वात् / प्रतीयमानकार्योत्पत्तये इति प्रतीयमानं यत्कार्य प्रत्यभिज्ञालक्षणं तस्योपपत्तये / अप्रतीयमाममपि कारणमिति इन्द्रियसंस्कारलक्षणम् / जगद्वैचित्र्यस्याप्यपह्नवप्रसंगाविति न खलु जगतः सकलानि कारणानि ज्ञायते / सन्निहितासन्निहितविषयतालक्षणे इति सन्निहित इदमंशः, असन्निहितस्तदंशः / तन्मात्रानुबन्धित्वादिति इन्द्रियजज्ञानमात्रानुबन्धित्वात् / न चैकस्योभयकालतायां कदाचिक्नुपपत्ति [रि त्यत्र एकस्येत्येकस्य वस्तुनः / . [कु०] प्रसङ्गानिरालम्बनवादस्य चामे [ग्रे]निराकरिष्यमाणत्वादिति भावः / ननु प्रत्यभिज्ञाभेदेन विषयस्याभेदसाधनमुपक्रम्य कारणाभेदात् स्वभावभेदाच्च प्रत्यभिज्ञाने दूषिते विषयाभेदात्तदभेदसाधने स्पष्टमितरेतराश्रयत्वमित्यत आह ग्रहणस्मरणे चेति (कं. 80.16) / अयं भावः इह भवतां तत्तांशस्मरमिदंतांशे ग्रहणमिति द्वे एते संवित्ती अभ्युपगम्यते / तयोश्च तत्तेदन्तावच्छिन्नवस्तुमात्रनियतयोस्तदेवेदमिति सामानाधिकरण्येनाभेदावधारणं विदश्चम [मिति / प्रतीतिसाम ादिति (कं. 80.17) ग्रहणस्मरणाभ्यां विलक्षणतयाऽनुव्यवसीयमानत्वादित्यर्थः / उभयविषयमिति (कं. 80.17) उभयविशेषणविशिष्टविषयमित्यर्थः। तदेवमनुव्यवसायबलाद् ग्रहणस्मरणाभ्यामन्यत्वमेकत्वं च प्रत्यभिज्ञानस्य प्रसाध्य 1 बीजाना-कं. 1, कं. 2 / 2 प्रत्यक्षाभ्यां -ड; 3 मसामथ्र्यम् - अ, ब, क; 4 न च यत्रकैक -ड;