________________ टिप्पणपञ्जिकाकुसुमोद्गमाविटीकात्रयोपेतम् 203 203 न्यायकन्दली [88] सर्वञ्चैतत्क्षणभङ्गसाधनं कालात्ययापदिष्टम्, प्रत्यभिज्ञाप्रत्यक्षेण प्रतीतस्य पुनः प्रतीतेः। नन्वेष प्रत्ययो न भावस्य पूर्वापरकालावस्थानं शक्नोति प्रतिपादयितुम्, न घेतदेकं विज्ञानम्, कारणाभावात् / इन्द्रियं सन्निहितविषयं न पूर्वकालत्वमवगाहते, संस्कारोऽपि पूर्वानुभवजन्मा तद्विषये नियतो नापरकालतां परिस्पृशति, न च ताभ्यामन्यदुभयविषयं किञ्चिदेकमस्ति यदेतद् विज्ञानं प्रसुवीत / इतोऽपि नैतदेकं विज्ञानं स्वभावभेदात्, इदमिति हि प्रत्यक्षता तदिति हि 'परोक्षत्वम्, प्रत्यक्षतापरोक्षत्वे च परस्परविरोधिनी नैकस्य युज्यते, तस्माद् ग्रहणस्मरणात्मके द्वे इमे संवित्ती भिन्नविषये। अत्र ब्रूमः-प्रतीयते तावदेतस्माद् विज्ञानात् पूर्वापरकालावच्छिन्नमेकं वस्तुतत्त्वम्, 'तदस्य विषयो न भवतीति 'संवित्तिविरुद्धम् / ग्रहणस्मरणे च नकं विषयमालम्बेते, [टि०] [88] ननु 'वाससि रागादीनां हेत्वन्तरसापेक्षत्वध्रुवभावित्वाभावयोरविनाभावो दृष्टः / तत्र नियतहेतुसापेक्षत्वमुपाधिमाह नियतो हि इत्यादिः / स एवायमिति प्रत्यभिज्ञाने 'हि स इति पूर्वकालतापरामर्श: अयमिति प्रत्यक्षांश इति / तत्र संस्कारेन्द्रियाभ्यां भिन्नविषयाभ्यां भिन्नमेवात्र ज्ञानविषयं जनितं न चेक संस्कारेन्द्रियव्यतिरिक्तं किञ्चित् पूर्वापरावस्थाद्वयकारणमिति येन द्वयात्मकमेकं प्रत्यभिज्ञानमुत्पाद्यते इति ग्राह्यभेदात् कारण भेदाच्च ज्ञानभेदमापाद्य स्वभावभेदादपि भेदमापादयति इतोऽपि नेतद् इति / ग्रहणस्मरणे च इति / ] यदा हि वाराणस्यां "घटं गृहीत्वा पाटलीपुत्रस्थः स्मरति तदा ग्रहणस्मरणे एक "विषयमालम्बेते, परमत्र प्रस्तुताभिप्रायेणोक्तम् / [पं०] [88] कालात्ययापदिष्टमिति प्रत्यक्षविरुद्ध पक्षे प्रयुज्यमानो हेतुः कालात्यपापदिष्टः / यथाऽनुष्णोऽग्निः, द्रव्यत्वात्, जलवदित्यादिवत् / प्रत्यभिज्ञाप्रत्यक्षेण प्रतीतस्य पुनः प्रतीतेरिति प्राक् प्रत्यक्षेण प्रतीतस्य वस्तुनः प्र[त्य] भिज्ञाप्रत्यक्षेण पुनः प्रतीतेः / अक्षणिकत्वं सिद्धमत एव प्रत्यक्षविरुद्धः / क्षणभंगवादव्यवस्थापनाय हेतप्रयोगः, फल्गुरिति भावः / बौद्ध: प्राह- नन्वेष प्रत्यय इत्यादि एष प्रत्ययः प्रत्यभिज्ञालक्षणः / अपरकालतामिति वर्तमानकालताम् / उभयविषयमिति ग्रहणस्मरणविषयम् / वस्तुतत्त्वमिति घटादिः / ग्रहणस्मरणे च नकं विषयमालम्बेते इति किन्त [कु०] [88] परकीयं प्रत्यभिज्ञानदूषणमाशङ्कते नन्वेष इति (कं. 80.8) / सिद्धान्तिमतानुसारेणैकवचनं द्रष्टव्यम् / नन्विन्द्रियव्यापारानन्तरं जायमानस्येन्द्रियमेव कारणं न भविष्यतीत्यत आह इन्द्रियमिति (कं. 80.9) / अस्तु तीसन्निहितविषयः संस्कारः कारणमित्यत आह संस्कारोऽपीति (कं. 80.10) / - प्रतीयते तावदिति (कं. 8..15) तदेवेदमित्यभेदावधारणेन सामानाधिकरण्यस्याप्यन्यथानुपपत्तेरित्यर्थः / तदस्येति (कं. ८०.१५)तदभिन्नं ज्ञानेऽवभासमानमप्यस्य / अविषय इति संवित्तिविरुद्धं सर्वासामपि वित्तीनां विषयविलोप 1 पारोक्षम् - जे. 1, परोक्षम् - जे. 2, जे. 3 / 2 नैके - कं. 1, कं. 2 / 3 तदप्यस्य - कं. 1, कं. 2 / 4 संविद्-कं. 1, कं. 2 / 5 दषसि-अ, वससि-ब; 6 हि अबकपुस्तकेषु नास्ति / 7 भेदत्वे ज्ञाने भेद-ड; 8 स्वाभव - अ, ब; 9 [ ] एतच्चिान्तर्गतः पाउ:- अब पुस्तकयोभंष्टः। 10 घट-अ, 11 मालम्बते -अ, ब, 12 तदप्यस्य-कं 1. कं. 2 /