________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् 202 न्यायकन्दली विरोधाभावात् / यच्च ध्रुवमावित्वादभावस्य हेत्वन्तरामपेक्षेत्युक्तम्, तदपि सवितुरुक्यास्तमयाभ्यामनैकान्तिकम्, तयोरनपेक्षत्वे हि कालभेदो न स्यात् / एकसामग्रीप्रतिबन्धेऽपि स एव दोषः / नियतो हि वाससि रागहेतुनियतकालश्च तस्य तत्कालासन्निधिमात्रेण रागस्यानुत्पादः सिद्धयति, अनन्तास्तु विनाशहेतवोऽनियतकालाश्च सेषां सर्वदा सर्वेषां प्रतिबन्धस्याशक्यत्वात् कश्चिदेको निपतत्येव / कालान्तरे स च निपतितः क्षणेनैव भावं विनाशयतीत्युपपद्यते कृतकत्वेऽपि ध्रुवो विनाशः। [टि०] यद् येषां ध्रुवभावि तत्तेषां सामग्रीप्रतिवद्धतुल्यकारणजन्यमित्यत्र विधिरूपतायामपि साध्यायां स एवानकान्तिकतादोषः, इति व्याख्यायां तात्पर्यतो द्वयोः साध्ययोविशेषो नास्ति / नियतो हीत्यादिवाक्यानां चाकाश पतितत्वं स्यात् तस्मादन्यथा व्याख्येयम्, पूर्व हि यद् येषां ध्रुवभावि तत्र तेषां कारणान्तरापेक्षा नास्तीत्यन्वयेऽनैकान्तिकतादोषो दत्तः, इदानीं तु विनाशे हेत्वन्तरस्य प्रतिबन्धे व्यापार वारणे कश्चित्कृतकोऽपि न विनश्येत, तस्माद ये हेत्वन्तरसापेक्षा न ते ध्रुवभाविनो यथा वाससि रागदय इत्येकस्याः कस्याश्चिद् विनाशसामग्र्याः प्रतिबन्धेऽपि यस्त्वया व्यतिरेको दय॑ते तत्राप्यनैकान्तिक तादोष इत्यर्थः / उदयास्तयोर्हेत्वन्तरसापेक्षत्वेऽपि ध्रुवभावित्वात् / [पं०] -सूचितम् / सवितुरुदयास्तमयाभ्यामनेकान्तिकमिति सवितुरुदयास्तमयो ध्रुवभाविनी क्रमेण च भवतः / अन्यथा त्वेकहेलयैवोदयास्तसमयप्रसङ्गः। एतावता सवितुरुदयास्तमयो कालभेदरूपसामग्र्यपेक्षणात्ध्रुवभाविनावपि हेत्वन्तरसापेक्षावित्युक्तम् / इदमेव दर्शयति - तयोरनपेक्षत्वे हि कालभेदो न स्यादिति कोऽर्थः ? तयोरुदयास्तमययोः कारणानपेक्षत्वे स्वीक्रियमाणकालपार्थक्यं न स्यात् / किन्तु युगपदेव द्वावपि स्याताम् / न च स्याताम् / तस्मादुदयस्य पृथक्सामग्री / अस्तमयस्य च पृथगित्यायातमित्यर्थः / एकसामग्रीप्रतिबन्धेऽपि स एव दोष इति अनन्तासु विनाशसामग्रीषु सर्वासां सामग्रीणां प्रतिबन्धाभावादुदयास्तमयाभ्यामनैकान्तिकमेव दोषः / ननूक्तम् - ये हेत्वन्तरसापेक्षा न ते ध्रुवभाविनो यथा वाससि रागादयः, तत्राह नियतो[हिवाससीत्यादि / तस्येति रागहेतोः / [कु.] द्वितीये व्यभिचारमतिदिशति-एकसामग्रीप्रतिबन्धेपोति (कं. 80.2) / प्रसङ्गे नियतहेतुत्वं नियतकालत्वं चोपाधिमाह नियतो होति (कं. 80.3) / ततश्चानुकूलतर्कस्य प्रशिथिलमूलत्वं द्रष्टव्यमित्यर्थः / कश्चिदेक इति (कं. 80.5) / अन्ततः कालविशेषाऽपीति शेषः / ध्रुवो "नाश इति (कं. 80..) हेत्वन्तरसापेक्षोंपीति शेषः / प्र"त्यक्षेणे णन] यत्सत्तत्क्षणिकमित्यादिव्याप्तिग्रहणस्य प्रत्यभिज्ञानरूपस्योपजीव्यत्वादिति भावः / 1 हेतवो नियत-कं. 1, कं. 2 / 2 कालान्तरे च-कं. 1, कं. 2 / 3 रूपतयामपि-अ; 4 चाकाशे पतितं -अ, चाकाशपतित्वं-ब, क; 5 स्यादन्यथा-ड; 6 वारणा-अ, ब 7 ऽपि विनश्येत -अ, ब; 8 इत्येकस्याश्चिद् -अ, ब; ९कत्व-ड; 10 विनाश-कं. 1. कं. 2 / 11 अत्र प्रत्यक्षेण यत्सत्तत्क्षणिकम् इति पाठोऽर्थदृष्ट्या सङ्गच्छते-सं।