________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 201 न्यायकन्दली अयमस्य स्वभावो यत् संयुक्तप्रतिषेधे संयुक्तवत् प्रतिभाति, समवेतप्रतिषेधे समवेतवत् प्रतिभाति / विशेषणमपीत्थमेव, न पुनरस्य संयोगसमवायौ, तयोर्भावधर्मत्वात् / तदेवं सिद्धोऽभावो भावविरोधी 'नास्तीति बुद्धिवेद्योऽर्थः, यत्कृतो दहनतुहिनयोरपि विरोधः / वहनाभावस्तुहिने तुहिनाभावश्च दहने इत्यनयोविरोधो न स्वरूपेण विधैविध्यन्तर [टि०] सर्व कृतकं वस्तुरूपं विनश्वरं दृष्टं, तथा कथमभावो न तथेत्याह प्रमाणाधिगतस्य इति / ननु घटोत्पत्तिव्यतिरिक्तकारणजन्यस्वे कारणभेदात्तस्य घटाद् भिन्नत्वे तदुत्पत्तो घटनाश 'इत्यादि पूर्वमुक्तं तत्क्रमेण परिहरति अन्योत्पादे इति / "विशेषणत्वमपि इति :-अघटं भूतलमिति / नास्ति इति :-नास्ति घट इत्युल्लेखेन या बुद्धिस्तया वेद्यः / दहनाभावस्तुहिन इति :- यद्भावो भावलक्षणमिति सप्तमी तत्र सतीत्यर्थः / आधारसप्तम्यां चेतरेतराभावोऽपि व्याख्येयः / सवितुरुदयेति :-सवितुरुदयास्तमयौ ध्रुव भाविनी क्रमेण च भवत: अन्यथा 'त्वेकहेलयवोदयास्तप्रसङ्गः / एतच्च क्षणभङ्गासिद्धौ लोकव्यवहारापेक्षयोक्तं, क्षणिकाङ्गीकारे तु यः सूर्यक्षण उदेति "[स उदेत्येवेति / ए"कसामग्रीप्रतिबन्धेऽपि इति :-यद् येषां ध्रुवभावि तत्तेषां का"रणान्तरापेक्षमित्यत्र कारणान्तरापेक्षानिषेधे साध्येऽनकान्तिकतायां [पं०] श्रीधरः प्राह- इदमेव दृश्यते तावदित्यादि इदमेवाभावाख्यम् / तस्याभावादिति घटस्याभावात् / कथं तहीत्यादि प्रश्नः / उत्तरं तु प्रतियोगिनियमादिति प्रतियोगी घटस्तत्रैव नियतत्वादभावोऽपि नियतदेश[शे] प्रतीयते इत्यर्थः / अयमस्य स्वभाव इति अत्रास्याभावस्य / संयुक्तप्रतिषेधे संयुक्तवत प्रतिभातीति यथाऽत्र भूतले घटो नास्ति / समवेतवप्रतिभातीति यथा नेह तन्तुषु पटः / विशेषणमपीत्थमेवेति घटरूपविशेषणप्रतिषेधेऽभावो विशेषणवत्प्रतिभाति यथाऽघटं भूतलमित्यर्थः / नास्ति बुद्धिवेद्योऽर्थ इति नास्तिरूपायाः बद्धर्वेद्यः / कर्तरि षष्ठीयम् / यत्कृत इति येन भाव'विरोधिनाऽभावेन कृतः / विविध्यन्तरविरोधाभावादिति एतेन पूर्वापरक्षणयोविधि[रूपत्वान्न विरोधो मे इति [कु.] नन्वाभावावस्थानं भावस्य न स्थितिरिति न युक्तमतादात्म्यादिविपर्ययशङ्कामुपसंहारव्याजेन निरस्यति तदेवमिति (कं. 79.24) / दहनाभाव इति (कं. 79.25) दहनत्वाभाव इत्यर्थः / ततश्च धर्मयोः परस्पराभाववद्देशनियमेन धर्मिणो विरोध इति भावः / ये यस्य हेत्वन्तरसापेक्षा न ते तस्य ध्रुवभाविन इत्यस्य प्रसङ्गस्य द्वेधा विपर्ययः सम्भवति / ध्रुवभावित्वाद्विनाशोऽपि हेत्वन्तरनिरपेक्ष इति निषेधमुखेन वा? तेन सहैकसामग्रीप्रतिबद्ध इति विधिमुखेन वा? तत्राद्यमनूद्य व्यभिचारेण दूषयति [य]च्चेति (कं. 79.26) / कालभेदः (कला) पञ्चदशकालमुहूर्तात्मकः / 1 नास्ति - कं. 1, कं. 2 / 2 तदभावाश्च -जे. 1, जे. 2 / 3 इति-अ,ब; 4 विशेषणमपि म. विशेषणत्वमपि-ब; 5 प्रतीकमिदं भ्रष्टं डपुस्तके। 6 भाविनो-अ, ब; 7 त्वेकाह-अ; 8 भङ्गसिद्धौ-अ, ब; 9 भूयः-अ, ब, क; 10 [ ] एतच्चिह्नान्तर्गतः पाठः अबपुस्तकयो स्ति। 11 एका - अ; 12 कारणांनपेक्ष्य -ड;