________________ 200 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली ईदशञ्चास्य स्वरूपं यदयं कृतकोऽपि भाववन्न विनश्यति, नष्टस्यानुपलम्भात् / प्रमाणाधिगतस्य वस्तुस्वभावस्य परसाधर्म्यण निराकरणे जगद्वैचित्र्यस्यापि निराकरणम् / अन्योत्पादे कथमन्यस्य स्वरूपप्रच्युतिरित्यपर्यनुयोज्यम्, वस्तुस्वाभाव्याद् / घटो विनष्ट इति च व्यपदेशस्तववयव क्रियाविन्यायेनाभावोत्पत्त्यैव / अत एवायं तस्यैवाभावो न सर्वस्य / न चास्य समवायिकारणं किञ्चित्, तदभावानासमवायिकारणम्। 'क्व कार्यमनाधारं दृष्टम् ? इदमेव दृश्यते तावत्, न ह्ययं घटे समवैति तस्याभावात्, नापि भूतले अन्यधर्मत्वात् / कथं तहि नियतदेशः प्रतीयते ? प्रतियोगिनियमात् / [fro] ननु 'नायं मुद्गरो घटविनाशकारी किन्तु कपालसन्तानकारी घटविनाशस्तु घटात्मक एवेत्याशङ्कयाह भावास्मको घटेति / * मुद्गराभिघातेनेति :- यथा शक्तिमतोऽभिन्नायाः शक्तेर्मुद्गराद्विनाशः तथा घटविनाशोऽप्यङ्गीक्रियतामिति / ननु 'यत्कार्यं तद् घटवद् वस्तुरूपं दृष्टम्, ततोऽभावोऽपि वस्तुरूपः स्यादित्याह न च कारणेति / यद्यपि जन्यं कारणैरेव जन्यत इति कारणपदं व्यर्थ तथापि बौद्धरुपचारेण कल्पितं जन्यत्वं तस्मादङ्गीक्रियत इति कारणपदो पादानम / तथापि कृतकवात घटवदभावस्थानित्यत्वं स्यादित्याह ईदशं चास्य इति / 'भावरूपं कृतकत्वं समवायकारणा वा 'विनाशित्वे प्रयोजकमिति भावः / यदि हि प्रध्वंसो विनश्येत घट उपलभ्यतेति विप"क्षे बाधकम् / ननु [पं0 नश्यच्चेत, तदाभावोन्मज्जनप्रसंग: स्यादित्यर्थः / वस्तुस्वभावस्येति वस्त्वत्राभावलक्षणं तस्य योऽसौ स्वभावो यित्वाख्यस्तस्य वस्तुस्वभावस्य / परसाधम्र्येणेति-घटादिसाधम्र्येण। अन्योत्पादे इति-अभावोत्पादे। अन्योन्यस्येति घटस्य / तदवयवक्रियाविभागादिन्यायनेति तस्य घटस्थावयवानां कपालादीनां प्रथमं क्रियासलनवलनादिका, क्रिमातो विभागः, विभागात्पूर्वसंयोगविनाशः, उत्तरसंयोगोत्पत्तिरिति क्रमः / तस्यैवाभाव इति घटस्यैवाभावः / पर: कार्यमनाधारं न दृष्टमिति तन्तुषु पटवदिति गमनिका / [कु०] न चेति (कं. 79.13) / ननु यदि नाशः सहेतुकः स्याद् भाववदेव विनश्येदित्यत आह-ईदृशं चेसि (कं. 79.14) / भावात्म[क]ज्ञानप्रसक्तिप्रतिकूलतर्कपराहतत्वादप्रयोजकमिति भावः / तदवयवेति (कं. 79.18) भेदेऽपि न कारणविशेष्यतया तद्धर्मव्यपदेश इति भावः / एतदेवाह अत एवेति (कं. 79.18) / यदि विनाशः सहेतुको भवेत् भावबत्कारणत्रयजन्यो भवेदित्यत आह न चेति (कं. 79.19) / कारणत्रयजन्यत्वे भावत्वे सति कार्यत्वमुपाधिरित्यर्थः / अन्यधर्मत्वा (द्) अन्यकार्यत्वाद् / विशेषणत्वमपीति (कं. 79.23) संयोगसमवा [य]योर्भावेऽपि प्रतियोग्युपश्लेषणस्वभावतया चोपश्लिष्टत्वादित्यर्थः / 1 करणत्वे - कं. 1; कं.२। 2 क्रियाविभागादि-जे. 3 / 3 मनाधारं न-जे. 1; जे. 2 / 4 नार्य - अ, ब, 5 कपालकारी-ड; * मद्गराघातेनेति मूलपाठः / 6 यत्कार्य-अ; यत्कार्य-ब; 7 पदानम् - अ, ब; 8 भावरूपं-ड; 9 विनाशत्वे - अ, ब, 10 निनश्येत् - अ, ब, 11 पक्षे - अ, ब; 12 विशेषणमपीति-कं. 1. कं. 2 /