________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 199 न्यायकन्दली भावप्रतिषेधात्मैव, घटो नास्तीति प्रतीत्युदयात् / ततस्तस्योत्पत्तिर्भावस्य निवृत्तिः, तस्यावस्थानं भावस्यानवस्थितिः, तस्योपलम्भो भावस्यानुपलम्भ इति युक्तम्, परस्परविरोधात्। एवञ्च सति न भावस्य क्षणिकत्वं पश्चाभाविनस्तदभावस्य हेत्वन्तरसापेक्षस्य भावानन्तर्यनियमाभावात्, तथा च दृश्यते घटस्योत्पन्नस्य चिरेणैव विनाशो मुद्गराभिघातात् / भावात्मको घटविनाशो मुद्गराभिघातात् तु कपालसन्तानोत्पादः स्यादित्यसङ्गतम् / स्वसन्तानप्रतिबद्धायाः सदशारम्भणशक्तेरप्रतिघाते विलक्षणसन्तानोत्पत्त्यसम्भवात् / मुद्गराघातेन तस्याः प्रतिहतौ च भावप्रतिघाते कः प्रद्वेषः ? न च कारणकार्य्यत्वे भाववदभावस्यापि वस्तुत्वप्रसक्तिस्तस्य 'प्रतिषेधस्वभावस्य प्रत्यक्षादिसिद्धत्वात् / [टि०] शक्त: स्यात्, किन्तु भवन्मते भावरूप एवोत्तरक्षणस्तस्य च पूर्वक्षणेन विरोधाभावात्तदुपलम्भेन कथमुत्तरभणावस्थानभावाभावः प्रतिपाद्यते ? यथा भिन्नसन्ततिवतिघटक्षणोपलम्भेनेति भावः / ननु यथाऽस्मन्मते पूर्वक्षणाभावरूपस्योत्तरक्षणस्य ग्राहकं प्रत्यक्षमुत्तरक्षणग्रहणे एष चरितार्थं न पूर्वक्षणनिषेधे समर्थ तथा त्वन्मतेऽपि भावव्यतिरिक्तकारणजनितत्वाद् भावादिन्नस्याभावस्य ग्राहक प्रत्यक्षं तद्ग्रहणेनैव चरितार्थ कथं भावनिषेधे समथं यथा घटान्तरविषयं प्रत्यक्षमिति 'बौद्धमतमाशङ्कयाह अभावस्तु भावप्रतिषेधेति / [पं०] बौदवाक्यं भावात्मको घटविनाश इति वैशेषिकवाक्यं- इत्यसंगतमित्यादि / विलक्षणसन्तानोत्पत्त्यसंभवादिति विलक्षणः सन्तानः कपालसन्तानः / तस्या इति सदशारंभणशक्तेः / भावप्रतिघाते कः प्रद्वेष इति भावस्य शक्तेरव्यतिरिक्तत्वादिस्याशयः / कारणकार्यत्वे इति कारणोत्पाद्यत्वे / वस्तुत्वप्रसक्तिरिति विधिरूपवत्त्वप्रसक्तिः / अपेक्षितपरव्यापारो हि भावः / स्वभावनिष्पत्तौ कृतक इत्युच्यते / हेत्वन्तरजन्यत्वे स्वविनाशस्य कृतकत्वादनित्यत्वं प्राप्नोतीत्याशंक्याह-ईदृशं चास्य स्वरूपमित्यादि / नष्टस्यानुपलम्भादिति नष्टस्य वस्तुनोऽदर्शनात् / नाशोऽपि हि [कु.] क्षणेति (कं. 79.4) / तस्माद्वितीयपक्षस्यान्य एव भावः स्वीकर्तव्यः / ततश्च न च भावाभिन्नस्येति हेतुरसिद्ध इत्याह अभावस्त्विति (कं. 79.5) / . एवं रूपस्या [स्य] विनाशस्य हेत्वन्तरनरपेक्ष्यप्रसाधने वर्षवाह [दोषं चाह] तथा चेति (कं. 79.9) / मुद्गराभिघातस्य घटविनाशकत्वान्नाङ्गीकारान्न बाध इति शङ्कते भावात्मक इति (कं. 79.10) / यद्यद् घटेन सह भिन्नं कारणं तत्सर्वं भावरूपं यथा पट: / एवं घटविनाशोऽपि पटेन सह भिन्न कारणश्चेद्भावरूप: स्यादित्याशय परिहरति 1 निषेधात्मत्व -जे. 3 / 2 सन्तान- कं. 1 / 3 वस्तुप्रतिषेधस्वभावस्य - कं. 1; क. 2 / 4 क्षणे तस्य - अ, ब, क; 5 भबोद्भिन्नस्य -अ; 6 बौद्धमाशङ्कयाह - डा 7 प्रतिप्रतिषेधेति - अ, ब, क; 8 दोषं चाह इति शुद्धः पाठो भाति-सं।