________________ 198 न्यायकन्दलीसंवलितप्रशस्तपावभाष्यम् न्यायकन्दली [87] अत्रोच्यते-उत्पन्नो भावः किमेकक्षणावस्थायी ? किं वा क्षणान्तरेऽप्यवतिष्ठते ? क्षणान्तरावस्थितिपक्षे तावत्क्षणिकत्वव्याहतिरनेककालावस्थानात्, एकक्षणावस्थायित्वे 'तु तस्य क्षणान्तरे स्थित्यभाव इति न भावाभावयोरेकत्वम्, कालभेदात् / अथ मतं न बमो भावः स्वस्यैवाभावः, किन्तु द्वितीयक्षणः पूर्वक्षणस्याभाव इति, तदप्यसारम्, पूर्वापरक्षणयोर्व्यक्तिभेदेऽपि स्वरूपविरोधस्याभावात् / यथा घटो भिन्नसन्ततित्तिना घटान्तरेण सह तिष्ठति, एवमेकसन्ततित्तिनाऽपि सह तिष्ठेत, द्वितीयक्षणग्राहिप्रमाणान्तरस्य तत्स्वरूप विधिचरितार्थस्य प्रथमक्षणे निषेधे प्रमाणत्वाभावात् / अभावस्तु [टि०] [87] एकक्षणावस्थायित्वे तु' इति :-यत्र हि क्षणे भावो न तत्रैवाभावोऽपि, यत्र चाभावो न तत्र भावोऽपीति / 'पूर्वापरेति यद्यपि पूर्वापरक्षणौ स्वरूपेण भिन्नौ तथापि न तयोविरोधः, यथा भिन्नसन्तानवलिनोर्घटक्षणयोरिति, तथा च दूषणमाह यथा घट इति / ननु यथा त्वन्मते अभावोपलम्भे घटावस्थानं नोपलभ्यते तथा मन्मतेऽप्युक्तरक्षणस्यैव 'पूर्वक्षणाभावरूपत्वाद् उत्तरक्षणोपलम्भे कथं पूर्वक्षणावस्थानमुपलभ्यते इति 'बौद्धमतमाशङ्कयाह द्वितीयक्षणग्राही इति। द्वितीयक्षणग्राहकं यत्प्रमाणान्तरं प्रत्यक्षलक्षणं तत् द्वितीयक्षणस्वरूपप्रतिपादने एव शक्तं [ पूर्वक्षणं न 'गहणात्येव न तु] "पूर्वक्षणो नास्तीति निश्चेतुमलंभृष्ण / यदि "ह्यस्मन्मत इव च त्वन्मतेऽपि भावविरोधिनः पदार्थान्तरस्याभावरूपस्य ग्रहणं स्यात् तदा तदुपलम्भ एव भावावस्थाननिषेधे [पं०] [87] अत्रोच्यते श्रीधरेण तस्य क्षणान्तरे स्थित्यभाव इति काक्वा व्याख्येयम् / न भावाभावयोरेकत्वं कालभेवादिति-कोऽर्थः / न भावस्वभाव एवाभावः / परस्परविरोधात् / क्षणान्तरे च कालभेदादित्यर्थः / न बमो भावः स्वस्यैवाभाव इति-न ब्रूमो भावः स्वभावस्यैवाभाव इति द्वौ पाठौ / अर्थस्तूल्य एव / एकसन्ततितिनापीति घटान्तरेण / ' तस्योत्पत्तिरिति-अभावस्योत्पत्तिः / तस्यावस्थानमिति-अभावस्यावस्थानम् / तस्योपलम्भ इति-अभावस्योपलम्भः / एवं च सतीति भावाभावयोविरोधे सतीत्यर्थः / तवभावस्येति घटाद्यभावस्य / हेत्वन्तरसापेक्षस्येति लगुडावायत्तस्य / [कु०] [87] अत्रोच्यत इति (कं. 78.22) प्रत्यासन्ने द्वितीयेऽनुमाने (दूणा) दूषणादूषणमुच्यत इत्यर्थः / "अप न बम इति (कं. 78.25) यद्यपि भावः सो स्वोत्पतिक्षणेऽभावा[द] भिद्यते तथापि द्वितीये क्षणे स्वाभावात्मैवेति भावाभावयोरेकत्वं क्षणिकत्वं च न विरुध्यत इत्यर्थः / परिहरति तदप्यसारमिति (कं. 79.1) / द्वितीयक्षणात्पूर्वक्षणस्य विरोधोऽविरोधो वा? नाद्य इत्याह पूर्वापरेति (कं. 79.2) / व्यक्तिभेदेङ्गीक्रियमाणेऽपीति शेषः / सह तिष्ठेदिति (कं. 79.3) [त] तश्च क्षणिकत्वव्याघातः सहग्रहणप्रसङ्गश्चेति द्वयमनिष्टम् / न द्वितीय इत्याह द्वितीय 1 तु क्षणान्तरे-कं. 1, कं. 2 / 2 विधेश्चरि-कं. 1, कं. 2 / 3 तु म. (5) पा. टिप्पणे नास्ति / 4 तत्रेसावो -ड; 5 पूर्वापरेऽपि-अ, ब, क; 6 पूर्वाक्षणा-अ, ब, क; 7 बोधमाशङ्कयाह-ड; 8[ ] एतच्चिह्नान्तर्गतः पाठः अ पुस्तके नास्ति / 9 गृह णात्येतदनु-ब; 10 पूर्वः क्षणो - ड; 11 निश्चितमलंभूष्णु-अ, ब, 12 हस्मिन्-अ, ब, क; 13 अप मतं न बम-कं. 1, कं. 2 /