________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 197 त्या न्यायकन्दली यदप्युक्तं 'कृतकानां भावानामवश्यम्भावी विनाशः, तेनापि शक्यं क्षणिकत्वमनमातुम्, तथाहि यद्येषां ध्रुवभावी तत्र तेषां कारणान्तरापेक्षा नास्ति यथा शरकृपाणादीनां लोहमयत्वे, ध्रुवभावी च कृतकानां विनाश इत्यनुमानं विनाशस्य हेत्वन्तरायत्ततां प्रतिक्षिपति / 'ये हि हेत्वन्तरसापेक्षा न ते ध्रुवभाविनः, यथा वाससि रागादयः, तथा यदि भावा अपि स्वहेतुभ्यो विनाशं प्रति हेत्वन्तरमपेक्षन्ते तदा हेत्वन्तरस्य प्रतिवन्धवैकल्ययोरपि 'सम्भवात् / कश्चित्कृतकोऽपि न विनश्येत् ? 'स्वहेतोस्तु विनश्वरस्वभावा जायमाना उत्पत्त्यनन्तरमेव विनश्यन्तीति सिद्धं क्षणिकत्वम् / / अपि च भावस्याविनश्वरस्वभावत्वे विनाशोऽशक्यकरणो वह्नरिव शीतिमा, विनश्वर स्वभावत्वे नार्थों हेतुभिः, न च भावादभिन्नस्य विनाशस्य हेत्वन्सरजन्यता, कारणभेदस्य भेदहेतुत्वात् / भिन्नस्य हेत्वन्तरादुत्पादे च भावस्योपलब्ध्यादिप्रसङ्गः, 'अन्योत्पादादन्यस्वरूप प्रच्युतेरभावात् / घटो नष्ट इति च भावकर्तृको व्यपदेशो न स्यात्, किन्त्वभावो जात इति व्यपदिश्येत, तथा च सति घटः किमभूदिति वार्ताप्रश्ने तस्य निवृत्तौ प्रस्तुतायामप्रस्तुतमेव कथितं स्यात् / तस्माद् भावस्वभाव एव विनाश इति / [टि०] तवा हेत्वन्तरस्य इति :-वस्तूत्पादककारणेभ्योऽन्यस्य "विनाशहेतोरुत्पा"देऽपि व्यापारतिरोधानं प्रतिबन्धः / वैकल्यम"नुत्पाद एव / स्व"हेतोरित्युत्पादकादेव हेतोः / घटो नष्ट इति :-घटलक्षणो हि भावो नाशक्रियाकर्तेति / अभावो जात "इति व्यपदेशे सति किं स्यादित्याह "तथा सति च इति:-विनष्टे घटे केनापि अजानता कोऽपि पृष्टो घट: किमभूदिति घटस्वरूपविषये प्रश्ने घटो निवृत्त इत्युत्तरे दातुं युक्ते 'अभावो "जात' इति घटाद् व्यतिरिक्तस्योत्पादस्वरूपकथनमसम्बद्धमेव यथा मृते गृहपतौ ग्रामा (दा) गतेन गृहपतिः किमभूदिति प्रश्ने कृते गृहमिदं नवमुत्पन्नमित्युत्तरमिति / [पं०] भावहेतुजन्यतैव घटते इत्यर्थः / भावस्येति घटादेः / उपलब्ध्यादिप्रसङ्गा इति नाशस्य भिन्नत्वात् अन्योत्पादेति विनाशोत्पादे / भावकर्तृक इति भावो घटादि: कर्ता यस्यासौ भावकर्तृकः / तस्य निवृत्तौ प्रस्तुतायान (म) प्रस्तुतमेव कथितं (कथं) स्यादिति-घट: किमभूदिति पृष्टे घटो नष्ट इत्यप्रस्तुतम् / अभावो जात इति तु प्रस्तुतम् / [Fo] ध्रुवभावित्वेन विनाशस्य प्रसङ्गतद्विपर्ययाभ्यां निर्हेतुकत्वं प्रसाध्य ततः क्षणभङ्गं साधयति स्व हेतोस्त्विति (कं. 78.14) / अत्रापेक्षणीयाभावादिति दोषः / अपि चेति (कं. 78.15) / निर्हेतुकत्वेऽपि प्रमाणान्तरमाह न चेति (कं. 78.17) / ("तर्कमाह न चेति (कं. 78.10) / "तर्कमाह "कारणाभावस्येति (कं. 78.18) हेत्वसिद्धिमाशङ्कय परिहरति विनाशस्व भिन्नस्येति (कं. 78.17) / अनिष्टान्त [ र] माह "अन्योत्पादेन चेति (कं. 78.19) / 1 कृतकानामवश्य - कं. 1, कं. 2 / 2 ये हेत्वन्तर- कं. 1, कं. 2, जे. 2 / 3 सम्भवे - कं. 1, कं. 2 / 4 स्वहेतुतश्च - कं. 1, कं. 2 / 5 स्वभावत्वे वा-कं. 1, कं. 2 / 6 अन्योत्पादेन-जे. 1; अन्योत्पादे-जे. 3 / 7 प्रच्युत्त्यभावात्-जे. 1, जे. 2, जे. 3 / 8 चोपदिश्येत-जे. 2 / 9 कथं-कं. 1; कं. 2 / 10 विनाशे-अ, ब; 11 त्पादे व्यापार: -ड; 12 तिरोधानप्रतिबन्धः-अ; 13 मनुत्पादक एव-अ,43; 14 हेतोरुत्पादकादेवअ, ब, क; 15 इति च-अ, ब, क; 16 तथा च सति-म; 17 जातु-अ, 4; 18 स्वहेतुतः-कं. 1, कं 2 / 19 तर्कमाह न चेति पुनरावृत्तं भाति / 20 तर्कमाह कारणाभावस्य इति यथार्थः पाठः / 21 कारणभेदस्यकं. 1, कं. 2 / 22 अभिन्नस्य विनाशस्य - कं. 1. कं. 2 / 23 अन्योत्पादन्य - कं. 1 कं. 2 /