________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली 'क्षणोपजननायेति चेत् ? यद्यङकुरजननयोग्यक्षणोपजननाय बीजं स्वहेतुभ्यः समर्थमुपजातं किमवनिसलिलाभ्याम् ? अथासमर्थम् ? तथापि तयोरकिञ्चित्करः सन्निधिः, स्वभावस्यापरित्यागात् / क्षित्युदकाभ्यां बीजस्य स्वसन्तानवत्तिन्यसमर्थक्षणान्तरारम्भणशक्तिनिरुद्धयते इति चेत् ? अस्तु तस्मादसमर्थक्षणानुत्पत्तिः, समर्थक्षणोत्पतिस्तु दुर्लभा, कारणाभावात् / न च स्वभावभूतायाश्शक्तेरस्ति निरोधो भावस्यापि निरोधप्रसङ्गात् / 'सहेतुकश्च विनाशः प्राप्नोति, विशिष्टक्षणोत्पादनशक्त्याधानञ्च बीजस्याशक्यं क्षणिकत्वात्, स्वभावव्यतिरिक्तशक्त्युत्पादने चोत्पन्नोत्पादनप्रसङ्गात् / तस्मादसमर्थस्योत्पादयतो न 'कदाचित् क्रिया, समर्थस्योत्पादानन्तरमेव करणमिति यी गतिः / न त्वर्थान्तरसाहित्ये सति करणम्, तस्यानुपयोगात् / अथ मतम् एकस्मात्कार्यानुत्पत्तेबहुभ्यश्च तदुत्पत्तिदर्शनात सहितानामेव सामर्थ्यमिति ? किमित्येवं वदद्भयोऽस्मभ्यं 'क्रुध्यति भवान् ? तदेवमक्षणिकस्याप्यर्थक्रियोपपत्तेरनैकान्तिको हेतुः। . [टि०] किं ताभ्याम् ? स्वभावस्यासमर्थस्य क्षित्यादिसान्निध्येप्यनपगतत्वात् / शक्तिनिरोधमभ्युपगम्य सिद्धान्तवाद्याह अस्तु तस्माद् इति :- निरोधो विनाशः / भावस्यापि इति :- शक्तिशक्तिमतोरभेदात् क्षितिसलिलाभ्यां बीजादिशक्तिविनाशाभ्युपगमे निर्हेतुको विनाश इति सिद्धान्तस्य क्षतिमापादयति "सहेतुकच इति :-अथ यथा क्षितिसलिलाभ्यामशक्ति श्यते तथा समर्थोत्पादनशक्तिर्जन्यते, इत्येतदाशङ्कयाह विशिष्टक्षणेति :-किञ्चैवमभ्युपगमे उपादानीभूत"बीजक्षणसामर्थ्यासामर्थ्ययोरनुपयोगात् क्षितिसलिलाभ्यां शिला"शकलादप्यकुरोत्पादनसमर्थो बीजक्षण उत्पाद्येत / असमर्थस्योत्पादवतः इति:-असमर्थश्चेदुत्पन्नतहि नास्य काचिदर्थक्रियेत्यर्थः / तेनापि इति:-अवश्यंभाविविनाशेनेत्यर्थः / [पं०] न परस्परसहकारिण इति वदन् / अनैकान्तिको हेतुरिति-अत्र हेतुः सत्त्वारब्धः / तेनापीति कृतकत्वेनापि / कृतमिति लगुडाद्यायतत्ताम् / हेत्वन्तरमिति लगुडादिकम् / प्रतिबन्धवैकल्ययोरिति प्रतिबन्धो मंत्रादिकृतः शक्तिघातः / वैकल्यं प्रकृत्या असमर्थत्वम् / न च भावादभिन्नस्य नाशस्य हेत्वन्तरजन्यतेति / भावादभिन्नस्य नाशस्य [कु०] यन्मते स्वकारणादुपजनिता भावा एव नियमेन स्वकार्यनिवर्तने समर्थाः तन्मते कथमन्यसे [स्ये ]त्यादि वाय[क्य] स्व को वस (श) इति शङ्कते प्रत्येकमेवेति (कं. 77.19) / आगन्तुकसामग्रथा तु प्रदेशाद्विसदृशारम्भणं भवद्भि रङ्गीकर्तव्यम्, इतरथा लौकिकप्रवृत्तिविरोध: स्यात् / तत्र च सहकारिनियमेन कार्य नियमे च स्वभाव एव शरणमित्याशयवान् समाधत्ते किमर्थमिति (कं. 77.20) / कार्यजननायापेक्ष्यमाण एव सहकारी / न चास्माकं मते तथेति शङ्कते परस्पराधिपत्येनेति (कं. 77.21) / कार्याय वा "तद्योगक्षणोपजननाय वा कश्चिद्विशेष इत्याशये/न] विकल्प्य दूषयति यदिति (कं. 77.22) / 1 क्षणजननाय-कं. 1, कं. 2 / 2 शक्तेनिरोधः-जे. 1 / 3 सहेतुश्च-पा. 1 पु.। 4 काचित-कं.१, कं.२। 5 भ्राम्यति - कं. 1, कं. 2 / 6 मक्षणिकस्य -कं. 1, कं. 2 / 7 शक्तिमतोरभेदात्-अ; 8 वीजशक्ति-ड; 9 क्षिति-अ.4; 1. सहेतुश्च म -(1) पादटिप्पणे 11 शतिरुत्पादनशक्ति-अ; 12 इति तदाशङ्कयाह-ड; 13 बीजलक्षण-अ, ब, क; 14 शलाशकला-अ, ब, क; 15 तरायततामिति-अ; के। 16 तद्योस / Ms 17 यदि-कं.१; कं.२।