________________ 195 टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् न्यायकन्दली न भवति बीजत्वाच्छालिस्तम्भमूर्द्धस्थितबीजवत् / निर्भागं वस्तु तस्य कारकत्वमकारकत्वञ्चेत्यंशावनुपपन्ना विति चेत् / यत्किञ्चिदेतत् / यथा वह्नहिं प्रति कारकत्वमकारकत्वञ्च स्नानं प्रति, न च ताभ्यामस्य स्वरूपभेदः, तथैकस्यैव भावस्य सहकारिभावात्कारकत्वमकारकत्वञ्च तदभावात्, कथमन्यस्य सन्निधावन्यस्य कारकत्वं कारकत्वेऽपि कथं कस्यचिदेव 'न सर्वस्येति चेत् ? अत्र वस्तुस्वभावाः पर्य्यनुयोक्तव्याः। वयन्तु यत्र येषामन्वयव्यतिरेकाभ्यां सामर्थ्यमवगच्छामः, तत्र तेषामेव सामग्रीभावमभ्युपगच्छन्तो नोपालम्भमर्हामः / त्वत्पक्षेऽपि क्षित्युवकबीजानामेवाङकुरोत्पत्तो सहकारिता नापरेषाम्, 'तत्रापि वस्तुस्वभावादपरः को हेतुः ? प्रत्येकमेव बीजादयः समर्था न परस्परसहकारिण इति चेत् ? किमर्थं तहि कृषीबल: 'परिकर्षितायां भूमौ बीजमावपति उदकञ्चासिञ्चति ? परस्पराधिपत्येन तेभ्यः प्रत्येकमङकुरजननयोग्य [fro] किचिदित्यर्थः / अत्र युक्तिमाह यथा वह्नः इति / अन्यस्य 'सन्निधावन्यस्य कारकाभ्युपगमेन बौद्धमाशते * कारकरवेऽपि कथम् इति / यदि क्षितिसलिलसन्निधावन्यस्य कारकत्वं भवति तहि कथं बीजस्यैव कारकत्वं न शिलाशकलस्येति परस्पराधिपत्येन इति :- इयमेव हि सहकारिणां सहकारिता 'यत्परस्परोपष्टम्भेन प्रत्येकमकु रजननसमर्थबीजोत्पादनम् / परिहरति य"बकुरेति -अङ्कुरजननसमर्थ"बीजक्षणस्योपादामभूतो यो बीजक्षणः, स यदि स्वकारणेभ्योऽकुरजमनसमर्थबीजक्षणोत्पादनसमर्थ उत्पन्नस्तहि कि क्षितिसलिलाभ्याम् ? यदि त्वसमर्थस्तथापि [0] बौद्धः प्राह निर्भागं वस्त्वित्यादि / वैशेषिक: प्राह यत्किश्चिदेतदित्यादि। "परस्परोपकारित्वेनेति / तयोरिति = अवनिस लिलयोः / स्वभावस्येति-असमर्थस्वस्य / भावस्यापीति-अङ्कुरोत्पत्तिसामर्थ्यरूपस्य / उत्पादानन्तरमेवेति यदा तद्बीजं प्रथममेवोत्पन्नं ततोऽनन्तरक्षण एवेत्यर्थः / "क्रुध्यति भवानिति प्रत्येकमेव बीजादयः समस (समर्था) [कु0] स्थित इति (कं. 77.7) प्रमाणान्तरेण क्षणिकत्वसिद्धौ सत्त्वस्य वैययं प्रागुफ्तमनुसन्धेयमिति भावः / तदेवं सत्त्वस्य हेतोरन्यथासिद्धिमभिधाय स्थायित्वे सतर्क प्रमाणमाहन चेति (कं. 77.8) / तत्र यदि भावः क्षणिक: .स्याग्निर्हेतुकाबुत्पतिविनाशौ स्यातामिति तर्कः। विप्रतिपन्नमरजनक बीजं सस्यकार्य बीजत्वात् सस्यमु स्थित बीमवदिति प्रमाणं द्रष्टव्यम् / अन्यथोपन्यासस्तु परकीयरीतिमद्य निषेधायेति / यथा वह्नरिति (कं. 77.12) . विषयभेदेनापि कुर्वत्वाकुर्वत्वयोरुपपत्तिरित्यर्थः / 1 विति-कं. 1, कं. 2 / 2 न तु - कं. 1 / 3 तवापि - कं.१; कं.२। 4 परिकमितायां-कं.१। 5 सन्निधानस्य - अ, ब; 6 इयमेव सहकारिणां-ड; 7 वत्-ब; 8 परोप्यपरोपष्टम्भेन-भ, ब%3; 9 मङकुरबीजोत्पादनं-अ, ब 10 प्रतीकमिदं-अबपुस्तकयो स्ति; 11 बीजक्षणस्योत्पादो न भूतो-अ, ब, क; 12 तदापि-भ, ब; 13 राधिपत्येन-कं, अ। 14 भ्राम्यति-अ%; कं।