________________ 194 म्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली न च सहकारिसापेक्षित्वे सति तत्कृतादेवातिशयात् कार्योत्पत्ते वो न कारक इति युक्तम्, भावस्वरूपानुगमेन कार्योत्पाददर्शनात् / अकारकत्वे हि 'यवबीजस्य क्षित्युवकसंनिधौ शालिबीजा धवाङ्करोऽपि स्यात्, नियमकारणाभावात् / नापि सहकारिणो भावस्य स्वरूपातिशयमादधति किन्तु सहकारिण एव ते, अतिशयः पुनरेतस्य सहकारिसाहित्यम्, अनतिशयोऽपि 'तदभाव एव, तस्मिन् सति ततः कार्य्यस्य भावादसत्यभावात्, जनकाजनकक्षणभेदाभ्युपगमस्तु सर्वदावस्थानग्राहिप्रत्यक्षबाधितः, सुसदृशक्षणानामव्यवधानोत्पादेनान्तराग्रहणादवस्थानभ्रमोऽयमिति चेत् ? स्थिते क्षणिकत्वे प्रत्यक्षस्य भ्रान्तता, तभ्रान्तत्वे च क्षणिकत्वस्थितिरित्यन्योन्यापेक्षता / न च यद्यस्योत्पत्तिकारणं विनाशकारणञ्चान्वयव्यतिरेकाभ्यामवगतं तयोरभावे तस्योत्पत्तिविनाशकल्पना युक्ता, निर्हेतुको विनाशो, बीजमपि बीजस्य कारणमिति चासिद्धम् / अङकुरजनकं बीजं बीजकृतं [टि०] नन्वेको बीजक्षणो जनक एकश्चाङ्कुराजनक इति विरुद्धधर्माध्यासाद् द्वयोरपि बीजक्षणयो)दे इत्याह जनकाजनकेति / बीजं प्रति 'ह्यकुरादिक्रमोत्पन्नो वनस्पतिविशेष: कारणं दृष्टं तन्नाशं प्रति च 'पाषाणपेषणादिकं दण्टम्, ततस्तयोरभावे कथं बीजस्योत्पादवि नाशौ घटेते इत्येतद् दर्शयति न च यद्यस्य इति / ननु विनाशस्तुच्छत्वादहेतुक एव भविष्यति बीजाच्च बीजमुत्पत्स्यते इत्यत आह निर्हेतुको विनाश इति / नम्वेकरूपस्यैव वस्तुनः "कारकाकारकल्पद्वयं "कथं घटते इत्याशङ्कयाह "परिहरति "निर्भागं वस्तु इति / यत्किञ्चिन्न [पं०] अत्र सहकारिणः कर्तृभूताः। तदभाव एवेति सहकारिणामभाव एव / तत इति तस्माद्वीजात् / कार्यस्येतिअंकुरस्य / अथ निर्हेतुको विनाशो बीजस्य कारणमित्युक्तं त्वयोक्तम् / तत्राह निर्हेतुको विनाशो बीजमपि बीजस्य कारणमिति चासिद्धमिति / अत्रैव साधनमाह-अंकुरजनकं बीजमित्यादि / बीजकृतं न भवतीति / कोऽर्थः ? किन्त्वङकुरकृतमेव बीजं भवतीत्यर्थः / [कु०] सहकारिण एव त (कं. 77.3) इत्यनेन संहत्य कार्य कुर्वन्ति न त्वतिशयमादधतीत्य (रि) धिगम्यते / ततश्चातिशयेनाप्यतिशयः कर्तव्यः / आशादिनातिशयरतिशयः कर्तव्य इति चान[वस्था परिहता बोद्धव्या / ननु यदि स्वरूपान्तर्गतो वा सहकारिजनितोऽतिशयः कोऽपि नाङ्गीक्रियते तहि कारणेषु सातिशयनिरतिशयप्रसिद्धिल्लौकिकी कुत इत्यत आह सहकारिसाहित्यमे "वेति (कं. 77.4) / जनकाजनकक्षणस्थितिसहावस्थानग्रहणाजनकत्वयोर्देशभेदे मैकस्मिन् क्षण इव कालभेदेन स्थिरेऽप्येकस्मिन् न विरोध इति भावः / 1 बीजस्य - जे. 1; जे. 2; जे. 3 / 2 द्यङ्कुरो-कं. 1; कं. 2 / 3 तदभावः- जे. 1 / 4 भ्युपगमः - कं. 1, कं. 2 / 5 क्षणिकत्वसिद्धिः-कं. 1; कं. 2 / 6 घन्तुरोविक्रमोत्पन्नो-अ, ब; 7 पाषणापषणा - अ%; 8 विनाशो घटते - अ; 9 प्रतीकमिदम् 'अ' पुस्तके नास्ति / 1. कारकारक- अ, ब, 11 ...द्वयं घटते - अ, ब, क; 12 आह परिहरति-अ, ब, क 13 निर्भाग-अ, ब; 14 एष-कं.१६. 2 पुस्तकयो स्ति /