________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 193 न्यायकन्दली वस्तुनोस्तादात्म्यस्याम्यतोऽप्रसिद्धः, प्रसिद्धौ वा बाधकस्यापि वैयर्थ्यम् / न च व्यावृत्त्योः प्रतिबन्धनिश्चये वस्तुसिद्धिरस्ति वस्त्ववस्तुनो:दादसम्बन्धाच्च / [86] यदप्क्तयुम्-धर्मोत्तरेण घटे बाधकेन व्याप्ति प्रसाध्य शब्दे सत्त्वात् क्षणिकत्वप्रसाधनमित्युभयोरपि सार्थकत्वं विषयभेदादिति / तत्रापीदमुत्तरम् / घट इव शब्देऽपि बाधकस्य प्रवृत्त्यविरोधात् प्रमाणान्तरानुसरणमफलमिति / न चाक्षणिकस्यार्थक्रियानुपपत्तिः, सहकारि'साहित्ये सति कार्यकरणस्वभावो हि भावो नानपेक्षकारकस्वरूपः, तस्य यथान्वयव्यतिरेकावगतसामर्थ्याः सहकारिणः सन्निपतन्ति तथा कार्योत्पत्तिरित्युपपद्यते स्थिरस्यापि क्रमेण करणम् / अनेककारणाधीनस्य कार्य्यस्यैकस्मादुत्पत्त्यभावात् / [टि०] वैयर्थ्यम्, तस्मादेव प्रमाणान्तरात् यत्सत्तत्क्षणिकमिति व्याप्तिप्रतीतेः / एतावता ग्रन्थेन असत्त्वव्यावृत्त्यक्षणिकत्वव्यावृत्योः ['प्रतिबन्धाभावेन सत्त्वक्षणिकत्वयोरपि व्याप्यभावो दर्शितः / सम्प्रति व्यावृत्योः] प्रतिबन्धमभ्युपगम्याह 'न च घ्यावृत्त्योः इति / 'व्यावृत्त्योः प्रतिबन्धसिद्धौ सत्वक्षणिकत्वयोः किमायातम् ? अक्षणिकव्यावृत्तिक्षणिकत्वयोरसत्त्वव्यावृत्तिसत्त्वयोश्च वस्त्ववस्तुनोस्तादात्म्याभावात् / ननु तादात्म्याभावेऽपि सम्बन्धान्तरं किञ्चिद् * भविष्यतीत्याह असम्बन्धाच्च इति / [86] अर्थक्रियाकारो च' भविष्यत्यक्षणिकश्चेति दर्शयन् सत्त्वहेतोः सन्दिग्धानकान्तिकत्वं प्राह न चाक्षणिकस्यार्थक्रिया इति / ननु सहकारिणो यदि भावस्यातिशय न जनयन्ति किमित्यपेक्ष्यन्ते ? जनयति चेत् तस्मादेवातिशयात् कार्योत्पत्तौ भावोऽकिञ्चित्कर इति यदुक्तं तत्परिहरति न च सहकारी इति / [पं०] किन्तु बाधकस्यापि वैयर्थ्यमित्यपेरर्थः / न च व्यावृत्योः प्रतिबन्धनिश्चये वस्तुसिद्धिरस्ति वस्त्ववस्तुनो:दादसम्बन्धाच्चेति यदि व्यावृत्त्योरवस्तुभूतयोस्तादात्म्यं, तदा क्षणिकस्य वस्तुनः किमायातं, येन ततः सिद्धिः स्यात् / 'यतः परस्परं वस्त्ववस्तुनोभेद: असम्बन्धश्च इत्यर्थः / [86] घटबाधकेन व्याप्ति प्रसाध्येत्यादि 'यत्क्रमयोगपद्यरहितं तदसदिति बाधकप्रवृत्तिः / प्रमाणान्तरानुसरणमिति सत्त्वारब्धप्रमाणान्तरानुसरणम् / नानपेक्ष्यकारकस्वरूप इति-अपेक्षामकृत्वा कारकस्वभावो न, किन्तु सापेक्ष एव कारकस्वरूपः / भावो न कारक इति-अत्र भावशब्देन नित्यपदार्थः / नापि सहकारिणो भावस्येति .[कु०] [86] इदानीमक्षणिकेऽपि क्रमस्योपपत्तेर्बाधकस्यासिद्धिमाह-न चाक्षणिकस्येति / (कं. 76.21) भावस्यान्यप्रयुक्तसन्निधितया वा, अवर्जनीयसनिधितया वाऽन्वये सत्यप्यकारणत्वाशय [त्वमाशङ्कयाह-अकारकत्वे हीति (कं. 77.1) / कार्यजातिनियमे करणजातिरेव प्रयोजिका इतरथा कार्यकारणभावस्यैव दुर्वचनापत्तेरित्यर्थः / किन्तु 1 साहित्ये हि-कं. 1, कं. 2 / 2 प्रतीति:-अ, ब, क; 3 [ ] एतचिह्नान्तर्गतः पाठः अपुस्तके नास्ति / 4 न व्या० - अ, ब, क ; जे. 1, जे.३। 5 'व्यावृत्त्योः' इति अबकपुस्तकेषु नास्ति। 6 क्षणिकत्वयोः रसत्त्व - ब, ड; 7 'च' अपुस्तके नास्ति। 8 'न' अबपुस्तकयो स्ति / 9 कार्योत्पत्तेर्भावो-ड; 10 यथा घट:इति व्याप्ति कृत्वा यद्यत्सत् तत्क्षणिकं यथा शब्द इति विषयभेदेन क्षणिकत्वप्रसाधनं तस्माद्बाधकसत्त्वयोरुभयोरपि सार्थकमित्यर्थः बाधकस्य प्रवृत्याविरोधादिति यत्क्रमयोगपद्यरहितं 25