________________ 192 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली प्रसाधयद् द्वादशायतनेष्वेव प्रसाधयेन्निविषयाया व्याप्तेः प्रत्येतुमशक्यत्वात्, द्वादशायतनव्यतिरिक्तस्य चार्थस्याभावात् / तेषु चान्वयप्रतीतौ क्षणिकत्वस्यापि प्रतीतिः, सम्बन्धिप्रतीतिनान्तरीयकत्वात् सम्बन्धप्रतीतेरिति सत्त्ववैयर्थ्यम् / पक्षे सामान्येन व्याप्तिग्रहणं विशेषे सत्त्वस्य हेतुत्वमिति चेन्न, निविशेषस्य सामान्यस्य प्रतीतेरभावात् / विशेषपरिनिष्ठयोश्च क्षणिकत्वसत्त्वसामान्ययोः प्रतीयमानयोर्नीलादिगतं क्षणिकत्वं प्रतीतमिति सूक्तं सत्त्ववैयर्यमिति / बाधकादक्षणिकत्वव्यावृत्त्यसत्त्वव्यावृत्त्योाप्तिग्रहणम्, 'सत्त्वात्तु वस्त्वात्मकक्षणिकत्वप्रतीतिरिति चेन्न, व्यावर्त्यभेदेन कल्पितभेदयोावृत्त्योस्तादात्म्याभावात् / तादात्म्यञ्चानुमानाङ्गमुक्तम् वस्त्वात्मनोः क्षणिकत्वसत्त्वयोस्तादात्म्यात् / तदात्मकत्वेनाध्यवसितयोरपि व्यावृत्त्योस्तादात्म्यमिति चेत् ? न, [टि०] क्षणिकत्वं साध्यसे इत्यर्थः / ननु द्वादशायतनान्येव पक्षः, तत्र सामान्येन व्याप्तिर्गृहीता तत्रैव च सत्त्वस्य हेतुत्वम् / तत्किमिदं सामान्यविशेषयोरन्तरम् ? सत्यम् / यच्छब्दोपनिबन्धनोच्यमानानि तान्येव सामान्यव्यपदेशं लभन्ते, इदं शब्देन तु विशेषव्यपदेशमिति / नीलादिगतं द्वादशायतनगतमित्यर्थः / बाधकप्र'माणस्य सत्त्वहेतोश्च भिन्नविषयत्वेन चरितार्थत्वमाशङ्कते बाधकादक्षणिकत्वेति :-बाधकानुमानाद् यदसव्यावृत्तं तदक्षणिकव्यावृत्तमिति प्रतीतम्, सत्त्वात्तु यत्सत्सत्क्षणिकमिति प्रतीतमित्यर्थः / असत्त्वव्यावृत्त्यक्षणिकत्वव्यावृत्त्योस्तादात्म्याभावेन सम्बन्धाभावाद सत्त्वव्यावृत्तेः प्रमाणानां निराचिकीर्षुराह न 'व्यावर्त्यभेदेन इति :-क्षणिकसतोर्भेदेन व्यावृत्योरपि भेदः कल्प्यते, ततो न तयोस्तादात्म्यं स्वरूपेणावस्तुत्वात् / न वस्तुनोः इति य देव सत्तदेव क्षणिकमिति तादात्म्यं वस्तुभूतयोः परमार्थरूपयोः सत्त्वक्षणिकत्वयोरन्यतःप्रमाणान्तरान्न तावत्प्रतीतम् / अथ प्रतीतं तहि यत्क्रमयोगपद्य रहितं तदसदिति बाधकप्रमाणस्य [पं०] -परेण हि सर्व क्षणिक सत्त्वादित्ययं हेतुः स्वभावहेतुरुक्तः / स्वभावहेतौ च प्रयुज्यमाने तादात्म्यमुपयुज्यते; तच्च प्रकृते नास्तीति हृदयम् / वस्तुनोस्तादात्म्यस्यान्यतोऽप्रसिद्धेरिति वस्तुभूतयोः क्षणिकत्वसत्त्वयोरपि हि तादात्म्यसिद्धि र्बाध कानुमानादेव, नत्वन्यस्मात्कुतश्चिदिति भावः / बाधकस्यापि वैयर्थ्यमिति न केवलं पूर्वोक्तं सत्त्वस्यैव वैयर्थ्यम, [कु.] बाधकप्रवृत्त्या पक्ष एवान्वयो निश्चेक्षत इति शङ्कते अ"क्षणिकत्व इति (कं. 76.4) / अर्थात् परि[शे]. षादित्यर्थः / अत्र विकल्यः परिशेषो नाम लिङ्गविशेषः .. स कि सत्त्वबाधकं वा ततोऽन्यद्वा? नाद्य इत्याह न तावदिति (कं. 76.5) / नोत्तरावित्याह-उभयव्यापार मिति (कं. 76.6) / अक्षणिकात्सत्त्वस्य व्यावर्तनं क्षणिकेऽवस्थानं चौभौ व्यापारौ। न निविशेषस्येति (कं. 76.10) नास्माकमिव सौगतानामनुगतं सामान्यमस्ति यत्क्रोडीकारेण विशेषात् परिहृत्य व्याप्तिगुह्यतेति भावः / स्वरूपं सामान्यं नास्ति सौगतनये तथाप्यपोहरूपमस्त्येवेत्याशङ्कते बाधकादिति (कं. 76.13) / इह (व्या)त्वा? प्तिस्तादात्म्यमभिप्रेतं, तादात्म्यं च भिन्नयोरभेदः शिशपावृक्षयोरिव वक्तव्यम्। व्याप्तिसाधकत्वमङ्गीकृत्य सत्त्वस्य वैयर्थ्यमुक्तम्। 1 सत्त्वत्तो-जे. 1; जे. 3, सत्त्वांशे-जे. 2 / 2 दात्म्य - कं. 1, कं. 2 / 3 प्रमाणश्च-अ, ब; 4 सत्त्वव्यावृत्तिक्षणिकत्वव्यावृत्यो- अ, ब, क, 5 यदसत्त्वव्यावृत्त्योस्तादात्म्याभावेन सम्बन्धाभावादसत्त्वव्यावृत्तेः-क; 6 व्यावर्तभेदेन-अ, ब, क; व्यावृत्त्यभेदेन मु. पादटिप्पण? व्यावाभेदेन मु. पा. टि. 2. 7 न च-अ, ड; 8 यदेवासत्तदेवाक्षणिकमिति-अ, ब, क; 9 रन्यत्-अ, ब; 10 तहि कमायोगाद्य-अ; तहि क्रमयोगपद्य-ब, क; 11 भक्षणिके-कं. 1, क.२।