________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 191 न्यायकन्दली नुपपत्तेः, कल्पनामात्रारोपितस्य पक्षादिभावस्य सर्वत्र सुलभत्वात् तस्मावनुमानाद्वास्तवीमर्थगतिमिच्छता लिङ्गस्य त्रैरूप्यविनिश्चयार्थं धूमानुमानवत् सर्वत्र प्रमाणसिद्धः पक्षादिभावो दर्शयितव्यो न कल्पनामात्रेण, न चाक्षणिकस्तथाभूतोऽस्तीति व्यतिरेकासिद्धिः / तदसिद्धावन्वयस्याप्यसिद्धिस्तस्यास्तत्पूर्वकत्वादित्यसाधारणत्वं हेतोः / अपि च बाधकेनाक्षणिकात् सत्त्वव्यतिरेकः प्रसाधितः, क्षणिकत्वसत्वयोरन्वयः कुतः सिद्धयति ? न च तत्र विपक्षव्यावृत्तिमात्रेण हेतुत्वमसाधारणस्यापि हेतुत्वप्रसङ्गात् / केवलव्यतिरेक्यनुमानञ्च 'स्वयमनिष्टम् / अक्षणिके सत्त्वं न भवतीत्यवस्थापितेऽर्थात् क्षणिकाश्रयं सत्त्वमित्यन्वयसिद्धिरिति चेत् ? न तावदर्थादिति सत्त्वस्य हेतोः परामर्शः, असिद्धान्वयस्य तस्याद्यापि हेतुत्वाभावात् / बाधकमेव तूभयव्यापार प्रमाणान्तरं व्याप्ति [टि०] हेतुहेत्वाभासेति :- पक्षमात्रवृत्तित्वेऽपि कल्पनासमारोपितसपक्ष विपक्षवृत्त्यवृत्तिभ्यां हेतुः स्यात् / तस्यास्तपूर्वकत्वाद् इति पक्षमा प्रवृत्तित्वात् बौद्धमतेऽसाधारणोऽनकान्तिक: सत्त्वाद् इति हेतुः स्वमते त्वनध्यवसित इति / व्यतिरेकव्याप्त्यभ्युपगमेन आह अपि च बाधकेन इति / ननु नैयायिकेन केवलविपक्षव्यावृत्तो हेतुः केवलव्यतिरेकीत्युच्यते इत्यत आह केवलेति :-स्वयमिति बौद्धैः / न तावद इति :-अर्थादित्यस्य न सत्त्वादित्ययमर्थः / नन क्रमयोगपद्य रहितत्वलक्षणाद् बाधकादनमानादेव समर्थात् द्वयमपि भविष्यति "व्यतिरेकसिद्धि रन्वयसिद्धिश्च / अथवाऽन्यस्मात्कस्माच्चिदप्यनुमानाद् भविष्यतीत्याह बाधकमेव तु इति / सत्त्ववैयर्थ्यम् इति :- 'सत्त्वाद्' इति हेतुना हि यत्साभ्यं तस्य व्याप्तिसाधकप्रमाणान्तराद् "बाधकाद् वा प्रमाणात सिद्धिः / पक्षे सामान्येन इति:हादशायतनरूप एव पक्षे तद्रूपाविवक्षया सामान्येन व्याप्तिग्रहणम्, आयतनेषु तु विशेषरूपतया विवक्षितेषु सत्वात् [पं०] तत्रेत्यादि / केवलव्यतिरेक्यनुमानं च स्वयमनिष्टमिति अन्वयव्यतिरेकप्रियत्वाद बौद्धस्येति भावः / बाधकमेवेति अक्षणिकत्वसत्त्वनिषेधकमेव प्रमाणम्। उभयव्यापारमिति-अन्वयव्यतिरेकव्यापारम्। सम्बन्धिप्रतीतिनान्तरीयकत्वादिति द्वादशायतनेषु याऽन्वयप्रतीतिः सा सम्बन्धिप्रतीतिस्तदविनाभावित्वात् / संबन्धप्रतीतेरिति क्षणिकत्वसम्बन्धप्रतीतेः / पक्षे इति द्वादशायतन इति रूपे / सामान्येन व्याप्तिग्रहणमिति बाधकानमानेनेति शेष: / विशेषे इति द्वादशानामन्यतरस्मिन् / व्यावाभेदेन कल्पितभेदयोरिति-अक्षणिकत्वमसत्त्वमित्याकारेण / तादात्म्यं चानुमानाङ्गमुक्तमिति रकत्वप्रसक्तिरिति भावः / अत्रापि किमेवमिति (कं. 75.24) किं शब्द आक्षेपे, वास्तवो न दर्शित एक" कल्पनासमारोपितश्च न समर्थित एवेति भावः / कथमित्यत आह-न तावदिति (कं. 75.25) / बुद्धचारूढेन कल्पितेन सौगतनये धर्ममिभावस्यैवाव [स्तु] त्वादिति भावः / अन्वयस्य व्याप्तिः कल्पिताद्विपक्षाद्वयतिरेकसिद्धावपि केव[ल] व्यतिरेकिणमनङ्गीकुर्वतां सपक्षे सत्त्वं विना न व्याप्तिरित्यभ्युपगमेन दूषयति अपि चेति (कं. 76.1) / विपक्षे 1 स्वयमेवानिष्टम् - जे. 3 / 2 अक्षणि केऽपि- कं. 1, कं. 2; अक्षणिकसत्वं - जे. 3 / 3 प्रतीकमिदं म. पुस्तके नास्ति किन्तु -जे. 1, 3 इत्यत्रास्ति / 4 सकल्पना-ड; 5 विपक्षवृत्तिभ्यां-अ; 6 पक्षमाण-अ, ब; 7 सत्त्वादि-अ, ब, क; 8 स्वयमते-अ, ब; 9 सदित्ययमर्थ:-अ; 10 रहितलक्षणाद् -अ, ब, क; 11 व्यतिव्यतिरेक-अ, ब, 12 बाधकात्प्रमाणात्-अ; 13 तथापि-कं. 1. कं. 2 /