________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली व्यावृत्त्या सत्त्वाभावप्रतीतिः / यदि पूर्वोप'लब्धः क्षण एवायमुपलभ्यते तदा सम्प्रतितनीमर्थक्रियां प्रागेव कुर्यात, प्राक्तनी वा सम्प्रत्येव, न पुनः क्रमेण कुर्यात्, एकस्य कारकत्वाकारकस्वविरोधात् / नापि सर्व पूर्वमेव 'करोति, सम्प्रत्यर्थक्रियारहितस्यासत्त्वप्रसङ्गादिति / 'अत्रापि किमेवं सत्त्वस्य हेतोर्वास्तवो विपक्षो दशितः? कल्पनासमारोपितो वा सथितः ? न तावद्वास्तवो विपक्षो नीलादीनामक्षणिकस्यावास्तवत्वात् "येन च रूपेण ते वस्तुमन्तस्तेन चार्थक्रियाकारिण एवेति न विपक्षता। कल्पनासमारोपितस्तु विपक्षो न वस्तुसाधनस्यानुमानस्याङ्ग, तस्यालीकत्वात् सर्व एवायमनुमा ना]नुमेयव्यवहारो बुद्धचारूढेन धर्मधादिभावेनेति चेत्, न, हेतुहेत्वाभासव्यवस्था [टि०] भेद: ? सत्यम्, 'अक्षणिकात्तावत्सत्त्वं व्यावर्तते ततो वैयधिकरण्ये संसर्गप्रतिषेध एव भवतीति सिद्धान्तः / अत्र यद्यपि तादात्म्यप्रतिषेधे निषेधाधाराप्रथनेऽपि निषेधो भवति, संसर्गप्रतिषेधे तु निषेधा धारप्रथनमन्तरेण निषेधो न भवतीति दर्शयितुमुचितं येन स्तम्भः पिशाचो न भवतीत्यतस्तादात्म्यप्रतिषेधादक्षणिकात् सत्त्वं व्यावर्तते, इत्यस्य संसर्गप्रतिषेधस्य भेदो दर्शितः स्यात, परं तथा सम्भावाभावात तादात्म्यप्रतिषेधो निषेधाधारनिषेध्ययोरेकतरोपलम्भे सति इतरस्योपलभ्यताङ्गीकारेऽपि भवति / संसर्गप्रतिषेधस्तु वयोरप्युपलम्भ एव भवतीत्येतदेव दर्शितम् / [पं०] क्षणिकलक्षणेन / “ते इति = नीलादिक्षणाः / 'वस्तुसन्त इति परमार्थसन्तः / न विपक्षतेति तेषां सत्त्वात् / न चाक्षणिकस्तथाभूतोऽस्तीति-धूमानुमाने हि प्रमाणसिद्धे एव जलाशयो विपक्षः / अक्षणिकस्तु प्रमाणसिद्धो नास्तीत्यर्थः / असाधारणत्वमिति साध्यासाधक: केवलपक्षवृत्तिरसाधारणोऽनध्यवसितसंज्ञकः / यथा शब्दानित्यत्वे साध्ये, 'श्रावणत्वादि'त्यसाधारणः / श्रावणत्वं हि शब्दं धर्मिणं विहाय न सपक्षे वर्तते, नापि विपक्षेऽतोऽसाधारणत्वं हेतोरिति / सत्त्वादित्यस्य, अन्वय इति व्याप्तिः / क्षणिकस्वसिद्धौ विपक्षव्यावृत्तिमात्रेणैव हेतुत्वं सत्त्वस्य भविष्यतीत्याशंक्याह न च [कु०] (कं. 75.10) / अक्षणिकात्सत्त्वव्यावृत्तिः न संसर्गप्रतिषेधः / अत्रैव चायं नियम इति समाधत्ते नायमिति (कं. 75.11) / "स्तम्भात्मकतयेति (फं. 75.12) पिशाचस्य दृश्यतानभ्युपगमे दृश्यस्तम्भात्मकतया प्रसङ्गाना(नी) नुपपत्तिरिति भावः / स्तम्भग्राहकस्यैव प्रमाणस्य दृश्यतया (सा) भ्युपगतपिशाचात्मतानिषेधग्रहणेऽनुकूले तर्कमाह तत्रेति (कं 75.14) / एवं वाजिविषाणविषयस्य विपक्षतायां विवक्षान्तरमाशङ्कते अथ मतमिति (कं. 75.17) / एवमध्यारोपितस्थायित्वात्पक्षादेव विपक्षभूतात् सत्त्वव्यापकयोः क्रमाक्रमयोावृत्ति दर्शयति यदीति (कं. 75.21) / एकस्येति (कं. 75.22) सम्प्रतितनी (य) मर्थक्रियां प्रति कारकत्वं प्रोक्तानां प्रत्यकारकत्वमिति क्रमकरणे एकस्यैव कारकत्वा 1 पलब्धक्षण-कं. 1, कं. 2 / 2 कुर्यात्-कं. 1, कं. 2 / 3 तत्रापि-कं. 1, कं. 2 / 4 [ ] एतचिह्नान्तर्गतः पाठः- कं. 1, कं. 2 पुस्तकयो स्ति। 5 अक्षणिकत्वात् तत्सत्त्वं - अ, ब, क; 6 निषेधाधारे-अ, ब, क; 7 प्रतिषेध्यस्य-अ, ब, क; 8-9 इमे प्रतीके क पुस्तके न स्तः। 10 स्तम्भात्मतया-कं. 1, कं. 2 /