________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् 189 न्यायकन्दली संसर्गप्रतिषेधः, किन्तु तादात्म्यप्रतिषेधोऽयम्, स च स्तम्भात्मतया प्रसञ्जितस्य पिशाचस्य दृश्यत्वाभ्यनुज्ञानात् प्रवर्तते नान्यथा, यथोक्तम्-"तादात्म्येन यावानिषेधः स 'सर्वोऽप्युपलब्धिलक्षणप्राप्तत्वाभ्युपगमेन क्रियते” इति / तत्र स्तम्भस्वरूपैकनियता स्तम्भप्रतीतिस्तदनात्मव्यवच्छेदकारणम्, यदि स्तम्भः पिशाचो भवेत् तेनाप्यात्मना ज्ञातः स्यात् / न च ज्ञानं 'स्तम्भत्ववत्पिशाचात्मकत्वमपि गृह्णाति, तस्मादयं पिशाचो न भवतीति / / ___ अथ मतं न मीलादिव्यतिरिक्तोऽक्षणिकः क्षणिको वा कश्चिदस्ति, किन्तु प्राक्तनबुद्धिवेद्यो नीलादिक्षणोऽधुनातनबुद्धिवेद्यानीलक्षणादभेदेनारोप्यमाणोऽक्षणिक इत्युच्यते / भेदेने व्यवस्थाप्य'मानस्तु क्षणिक इति / तत्र नीलादिष्वेवेयं क्रमाक्रम [टि०] प्रतियोग्युपलब्धीति:-प्रतियोगिनः पिशाचादेरुपलम्भमन्तरेण तद्विधकस्य दुर्विज्ञानत्वात / नायं संसर्गतिः-संसर्गप्रतिषेधो हि व्यधिकरण इदमत्र नास्तीति इदमस्माद् व्यावर्तत इत्युल्लेखेन भवति, स च प्रतिषेध्यप्रतिषेधाधारयोर्द्वयोरप्यपलम्भे भवति; तादात्म्यनिषेधस्त्वयमयं न भवतीत्युल्लेखेन / स च निषेधाधारप्रतीतो सत्यां निषेध्यस्य दृश्यत्वाङ्गीकारेऽपि भवति / ततश्चाक्षणिकात् सत्त्व "ग्यावर्तनेऽत्र संसर्गप्रतिषेधः / स च निषेधाधारनिषेध्ययोयोरपि "प्रथने एव भवति, मैकतरस्याप्य"प्रथने इति नायं निषेधः 'स्तम्भः पिशाचो न भवतीत्यनेन तादात्म्यमिषेधेन समान इति भावः / ननु सत्त्वक्षणिकत्वयोस्तादात्म्यं ततश्चाक्षणिकत्वसत्त्वयोरपि तादात्म्यप्रतिषेध एव वाच्यः तत्कथं पिशाचो न भवतीत्यस्माद [ पंथाब्यावृत्तिप्रतीतिसंभव इति पिशाचतः स्तंभब्यावृत्तिप्रतीतिसंभवः। नायं संसर्गप्रतिषेध इति-यथाऽघटं भूतलमित्यत्र संसर्गप्रतिषेधस्तद्वदत्र नेत्यर्थः / स चेति तादात्म्यप्रतिषेधः / यथोक्तमिति उक्तं चेत्यर्थः / तदनात्मव्यवच्छेदकारणमिति स्तंभस्य योऽसौऽनात्मा--अस्वरूपभूतः पिशाचस्तस्य यो व्यवच्छेदस्तदत्र कारणम् / तेनाप्यात्मनेति तेनापि स्वरूपेण स्वभावप्रतीतिरिति / अर्थक्रियाकारित्वादभावप्रतीतिः / अयमुपलभ्यत इति वर्तमानत्वेनोपलभ्यत इत्यर्थः / श्रीधरः प्राह अत्रापि किमवेमित्यादि। अत्रापीति कोऽर्थः? नीलादिक्षणेषु / विपक्ष इति-अक्षणिकोऽर्थः / "येन च स्वरूपेणेति कु० पद्वार्थक्रियां करोति सर्वधाप्यहेतुत्वात्प्रमाणसिद्ध एव कुत्रचित्कस्यचिनिषेधः प्रत्येतव्य इत्यभिप्रायेण परिहरति नेति (कं. 75.4) / न चाक्षणिको नामेति (कं. 75.6) वाजिविषाणं च न प्रमाणसिद्धमिति भावः / यथा अदृश्यप्रतियोगिकोऽभावो (व:) प्रतीयते एवमदृश्याधिकरणकोऽपीत्यभिप्रायेणाशङ्कते यथा अप्रतीयमाने पिशाच इति (कं. 75.6) / साध्यविकलो दृष्टान्त इति समाधत्ते न व्यावृत्तरिति (कं. 75.8) / इदं च पराभिप्रायेणोक्तम् / एवमनुपलब्धस्तद्विविक्ते पक्षेतरपदार्थोपलब्धिलक्षणत्वमपि / अस्मन्मते अभावः प्रतियोगिग्राहकप्रमाणगोचर एव / अनुपलब्धिश्च नास्तीत्युपलब्धिरेवेति / प्रतियोग्युपलब्धिमिति (कं. 75.9) प्रतियोगिन उपलब्धियोग्यतामिति / पृच्छति कथं तीति 1 स सर्व-कं. 1, कं. 2 / 2 तदनात्म्य -जे.१, जे. 2 / 3 आत्मना = स्वरूपेण / 4 स्तम्भवत् -जे. 2 / 5 पिशाचात्मताम्- कं. 1, कं. 2; जे. 3 / 6 °मानश्च - कं. 1, कं. 2; मानश्चाक्षणिक-जे. 2; मान:- जे. 3 / 7 ध्वेव-कं. 1; कं. 2 / 8 भवत-ड; 9 धारयोरप्युपलम्भे - अ, ब, क; 10 तत्स्वाक्षणिकत्वात् - अ, ब; ततश्चाक्षणिकत्वात् -क; 11 व्यावर्तमोऽत्र-अ, ब, 12-13 प्रथमे-ड; 14 इदं प्रतीकं कपुस्तके नास्ति / 15 प्रतीयमानेऽपि पिशाच-कं.१.कं.२।