________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 185 न्यायकन्दली [84] अत्र वदन्ति-यदि सहकारिणो भावातिशयं न जनयन्ति नापेक्षणीयाः, अकिञ्चिकरत्वात् / 'जनयन्ति चेत् ? स किं भावव्यतिरिक्तः ? अव्यतिरिक्तो वा ? 'व्यतिरिक्तपक्षे तावदतिशयादेवागन्तुकादन्वयव्यतिरेकाभ्यां कार्योत्पत्तिरित्यक्षणिकस्य न हेतुत्वम्, सत्यपि तस्मिन्नभावात् / सहकारिकृताशयसहितस्य तस्य जनकत्वमिति चेत् ? अतिशयस्यातिशयानारम्भ कीदृशी सहायता ? आरम्भे चानवस्थायाः का प्रतिक्रिया ? सहकारिजन्योऽतिशयः स चाक्षणिकस्येत्यपि सुभाषितम्, अनुपकार्यानुपकारकयोः सम्बन्धाभावात् / भावादभिन्नोऽतिशयः सहकारिभिः क्रियत इत्यपि न 'पेशलम्, भावस्य पूर्वोत्पन्नस्य पुनरुत्पत्त्यभावात् / प्राक्तनो हि भावोऽनतिशयात्मा निवर्तते, अन्यश्चातिशयात्मा जायत इति चेत् ? क्षणिकत्वसिद्धिः / ननु क्षणिकस्यापि सहकारिभिः किं क्रियते ? न किञ्चित्, किमर्थं तहि तेन ते अपेक्ष्यन्ते ? को वै ब्रूते अपेक्ष्यन्ते इति, प्रत्येकमेव हि कार्यजननाय समर्था अन्त्या [टि०] [84] अनुपकार्यानुपकारकयोः इतिः-कार्यकारणभावाभावाद् अनुपकायतेति भावः / अन्त्यावस्थाभाविनः इति समर्थक्षणोत्पादकपूर्वज्ञानक्षणावस्थापेक्षया समर्थक्षणावस्थाया 'अन्त्यत्वम् / अत्राप्यमीषाम् इति-अमीषां क्षितिबीजादिक्षणानां कारणानि उपादानक्षणादीनि प्रष्टव्यानि / यैः कारणरूपादानक्षणादिकैः कर्तभूतैरमनि समर्थबीजक्षण [पं०] [84] अत्र वदन्तीति = बौद्धाः / सहकारिण इति कर्तारः / भावस्यातिशयं न जनयन्तीति-अस्मात्पुरस्तादेत्यध्याहार्यम् / स कि तावद् व्यतिरिक्त इत्यत्र सोऽतिशयः / सत्यपि तस्मिन्नित्यत्र तस्मिन्नक्षणिके / अतिशयस्यातिशयान्तरानारभे कोदशी सहायतेति / कोऽर्थः / अतिशयेनाप्यतिशयान्तरमक्षणिकवस्तुनो यदि नारभ्यते तहि कथमेतदक्षिक (क्षणिक ) वस्त्वतिशयसाहाय्यमपेक्षते / अन्यथाऽतिप्रसंगादित्यर्थः / सहकारिजन्योऽतिशयः। स चाक्षणिकस्येति सुभाषितमिति / व्यतिरिक्तपक्षे इति द्रष्टव्यम् / उपहासवाक्यं चेदम् / न सुभाषितमिति भावः / अनुपकार्यानुपकारकयोः संबंधाभावादिति-नित्यत्वादनुपकार्य, अक्षणिक वस्तु, व्यतिरिक्तत्वादनुपकारकः / सहकारिजन्योऽतिशयस्तयोः सम्बन्धो [कु०] [84] अत्र वदन्तीति (कं. 73.25) भावाः सहकारिणः किमर्थमपेक्ष[-]न्ते ? स्वात्मसिद्धथं वा कार्याथं वा उपकारार्थं वा? नाद्यः स्वात्मनः स्वकारणादेव सिद्धत्वान्नित्यत्वाद्वा / नापि द्वितीयः, समर्थस्य स्वयमेव कार्यकर्तत्वात, - असमर्थस्य सहकारिसम्पत्तावप्यजनकत्वादिति / तृतीयः परिशिष्यत इत्याह यदीति (कं. 73.25) / उपकारं जनयन्तो भावाः किमुपकृता जनयन्ति अनुपकृता वा? / अनुपकृतानामुपकारकत्वे भावस्यानुपकृतस्य कार्यकरत्वप्रसङ्गः / 1 'जनयन्ति चेत' जे. 2 पुस्तके भ्रष्टम / 2 तावव्यति°- कं.१; कं. 2 / 3 व्यतिरेक - कं. 1; कं. 2 / 4 तिशयान्तरानारम्भे-कं. 1; कं. 2 / 5 स्येति-कं. 1; कं. 2 / 6 सुपेशलम्-कं. 1; कं. 2 / 7 जायते चेत -जे. 1, जे. 2, जे. 3 / 8 तहि तेनापेक्ष्यन्ते-कं. 1, ते चापेक्ष्यन्ते-पा. 2 पु.। 9 मावादनु-अB 1. कार्येणेति -ब; कार्यतिति - क; 11 अन्त्यं रूपम् -अ%; 24