________________ 184 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् ___ न्यायकन्दली इतोऽप्यचेतनं मनो मूर्त्तत्वाल्लोष्टवत् / यदि शरीरेन्द्रियमनसां गुणो ज्ञानं न भवति, तथाप्यात्मसिद्धौ किमायातं तत्राह-परिशेषादिति / ज्ञानं तावत् कार्यत्वात् कस्यचित् समवायिकारणस्य कार्यम्, शरीरेन्द्रियमनसाञ्च तदाश्रयत्वं प्रतिषिद्धम् / 'न चान्येषां वक्ष्यमाणेन न्यायेन ज्ञानका रणत्वप्रसक्तिरस्ति, अतः परिशेषादात्मकायं ज्ञानम् / 'आत्मकार्यत्वाच्च तेन ज्ञानेनात्मा समधिगम्यत इत्युपसंहारः / ननु सर्वमेतदसम्बद्धम, क्षणिकत्वेनाश्रयाश्रयिभावाभावात् / तथा हि-सत्त्वमर्थक्रियाकारित्वम्, तच्च क्रमयोगपद्याभ्यां व्याप्तम्, क्रमाक्रमानात्मकस्य प्रकारान्तरस्यासम्भवात् / अनेकार्थक्रियाणामनेककालता हि क्रमः, योगपद्यं चैककालता, न चैकानेकाभ्यामन्यः प्रकारोऽस्ति, परस्परविरुद्धयोरेकप्रतिषेधस्यतरविधिनान्तरीयकत्वात् / अक्षणिकत्वे तु न क्रमसम्भवः, समर्थस्य 'क्षेपायोगात् / असमर्थस्य कालान्तरेऽप्यजनकत्वं स्वभावस्या निवृत्तेः। क्रमवत्सहकारिलाभात्क्रमेण करणं तस्येति चेत् ? [40] बौद्धः प्राह-नन सर्वमेतदित्यादि / क्रमाक्रमात्मकस्य प्रकारान्तरस्याभावादिति-क्रमाक्रमव्यतिरिक्तस्य प्रकारान्तरस्याभावादिति द्वौ पाठौ / अर्थः सुगमम् / इतरविधिनान्तरीयकत्वादिति-इतरविध्यविनाभावित्वादित्यर्थः / समर्थस्य क्षेपायोगादिति कार्याणि हि विलम्बन्ते कारणासन्निधानतः। समर्थहेतुसद्भावे क्षेपस्तेषां तु किं ततः / / इति वचनात् / क्रमत्वसहकारिलाभादिति क्रमवन्तो ये सहकारिणस्तल्लाभात् / [कु०] आत्मकार्य ज्ञानमिति (कं. 73.17) पृथिन्याद्यष्टद्रव्याद्यतिरिक्तद्रव्यकार्य ज्ञानं तदनाश्रितत्वे सति कार्यत्वात, न यदेवं न च[त] देवं यथा गन्ध इति व्यतिरेकी / ___ नन्विति (कं. 73.18) ज्ञानाश्रयत्वेनात्मसाध[न]मिदमयुक्तम् / आश्रयाभावो हि स्थैर्ये सति वक्तव्यः / अस्थिरस्थाश्रयत्वानुपपत्तेरित्यर्थः / सामान्यरूपस्य वासत्वस्य स्थैर्येऽप्युपपद्यमानतया न क्षणिकत्वेन व्याप्तिरित्यत आह तयाहीति (कं. 73.19) / परस्परविरुद्धयोरिति (कं. 73.22) एकानेकयोर्भावाभावरूपतया परस्परविरोधी द्रष्टव्यः / एवं सत्त्वस्य व्याप्तिपदस्पर्शत (न) योरक्षणिकाद्वयावृत्ति दर्शयति अक्षणिकत्व इति (कं. 73.23) / वर्तमानार्थक्रियाकरणकाले अतीतानागतयोरर्थक्रिययोर्भावः समर्थो च नेष्य (ष्ट?) इत्याह समर्थस्येति (कं. 73.23) / न द्वितीय इत्याह-असमर्थस्यति (कं. 73.23) / 1 न चान्येषु - कं. 1; कं. 2 / 2 ज्ञानकारणत्वं प्रति शक्तिरस्ति-कं. 1; कं. 2 / 3 आत्मकार्यत्वात्तेन -कं. 1; कं. 2; आत्मकार्यत्वादेव-जे. 2 / 4 स्यापर-जे. 2; जे. 3 / 5 क्रमायोगात्-पा. 1 पु. 6 प्यजनकत्वस्व-कं. 1, कं. 2 / 7 स्यानतिवृत्तेः-कं. 1; कं. 2 /