________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 183 न्यायकन्दली सोऽस्माकमात्मेति / अथ नापेक्षते करणान्तरम्, तदा रूपरसादिष्विन्द्रियसम्बद्धेषु युगपदालोचनानि प्रसज्यन्ते, कारणयौगपद्यात् / 'करणान्तरापेक्षायां तु तस्याणुत्वे सर्वेन्द्रियेषु सान्निध्याभावाद्युगपदालोचनानुत्पत्तिः / तथान्तःकरणाभावे युगपत्स्मरणानि स्यरपेक्षणीयाभावात् करणापेक्षायां तु तत्संयोगस्य युगपदसामर्थ्यात् क्रमेण स्मृत्युत्पत्तिः / यत्तूक्तं केनचिदेकस्य नित्यस्य क्रमयोगपद्याभ्यामकरणमिति / तदयुक्तम्, युग'पत्करणासम्भवात्, उत्तरकालमकरणञ्च कर्तव्याभावात् / 'न चैतावता तस्या सत्त्वम्, अर्थक्रियाकारित्वव्यतिरिक्तस्य सत्त्वस्येष्टत्वात् / ____ इतोऽपि मनोगुणो ज्ञानं न भवति, मनसः स्वयं करणत्वादित्याह-स्वयं करणभावाच्चेति / मनश्चेतनं न भवति करणत्वाद् 'घ्राणादिवदिति / असिद्धं मनसः करणत्वम्, कर्तृत्वाभ्युपगमादिति चेत् ? मनसः कर्तत्वे रूपादि प्रतीतौ चक्षुरादिवत् सुखादिप्रतीतौ करणान्तरं मृग्यं क्रियायाः करणमन्तरेणानुपजननात् / तथा सति च सज्ञाभेदमात्रम्, कर्तुः करणस्य चोभयोरपि सिद्धत्वात् / [टि०] मानान्मनसोऽपि चेतनाश्रयत्वेन व्यापक [त्व] सिद्धौ युगपदालोचनप्रसङ्गः / कारणान्त रानपेक्षत्वे दोषमुक्तवा सापेक्षत्वे तदभावमाह-करणान्तरापेक्षायां तु इति / [पं०] पेक्षायाम। यत्तुक्तं केनचिदिति बौद्धापेक्षः / तथा सतीति करणान्तराभ्युपगमेपि सति / संज्ञाभेवमात्रमिति पंचेन्द्रियाणि], एक मनो ह्यात्मेति / अपरं तु करणमित्यर्थः / मर्तत्वादिति-नियतद्रव्यपरिमाणं मूर्तिः, सा अस्यास्तीति मूर्तः / अभ्रादित्वादप्रत्ययस्तस्य भावो मूर्तत्वम् / तस्मात् = मूर्तत्वात् / अन्येषामिति-गुणादीनां पञ्चानाम् / अथ [कु.] हेतुरिति स्मृतियोगपद्यप्रसङ्गादिति प्रशिथिलस्तर्कः; तथाप्यनुभूतसहचरितादिविषयोपलम्भक्रमात् संस्कारोद्बोधक [म] इति मना[नसो] स्मृतिक्रमे कारणत्वमित्यभिप्रायेणाह तदेति (कं. 73.2) / "यदुक्तं केनचिदिति (कं. 73.6) [इ]च्छापि न यस्य? स्थायिनयस्य? सम्बन्ध (द्ध )न्द्रियैः संयोगवशायुगपदालोचनानि भवेयुरित्ययं तर्कस्तद्विपर्ययः क्रमवति निरूपणादिज्ञानानि कर्मवत्सहकारिकार्याणि क्रमेण जायमानत्वात्, घटशरावोदञ्चनादिवदित्यनुमानं च / एकस्य स्थायिनः क्रमेण वा युगपद्वा करणे सति सङ्गच्छेयातां, तदेव तु न सम्भवतीति चोदयितुर्भावः / युगपत्करणसम्भवात् (कं. 73.7) सहकारियोगपद्ये सतीति शेषः / उपलक्षणं चैतत सहकारिक्रमेणव क्रमकारित्वस्यापि सम्भवात् / "क्रमाभावादिति सहकार्यभावादित्यर्थः / 1 कारणान्तरा-कं. 1, कं. 2 / 2 अथान्तःकरणाभावो-कं. 1; कं. 2 / 3 करणमसम्भवात्-जे. 1; जे. 2; जे.३। 4 न च तावता-कं. 1, कं. 2 / 5 तस्य सत्त्वम्-कं.१; कं.२। 6 घटादिवदिति-कं. 1; कं. 2 / 7 प्रतिपत्तौ-जे. 2 / 8 कारणान्तरापेक्षत्वे तदभावमाह-अ, ब, 9 कारणा - मु. करण जे. 1, जे. 3; 1. यत्तुक्तं-कं. 1, कं.२। 11 प्रतीकमिदं कन्दल्यां नोपलभ्यते /