________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपैतम् न्यायकन्दली विनष्टेष्वपोन्द्रियेषु पूर्वानुभूतोऽर्थः स्मर्य्यते, न चानुभवितरि विनष्टे स्मरणं युक्तम्, तस्मान्नेन्द्रियगुणो ज्ञानम् / न च विषयस्य पूर्वानुभूतस्या सान्निध्येऽपि स्मृतिर्दृष्टा, 'बाह्येन्द्रियाणां प्राप्यकारित्वात् / तस्मात् स्मृतिस्तावन्नेन्द्रियाणाम् / तदभावादनुभवोऽपि न स्यादन्यस्यानुभवेऽन्यस्यास्मरणादित्यर्थः / अत एव विषयस्यापि न चैतन्यम्, नष्टे विषये तत्स्मरणायोगात् / इतोऽपि न तस्य चैतन्यम्, 'तद्देशेज्ञानस्य तज्जन्यस्य च [टि०] णापि जायमानत्वात् यद् यद् व्यतिरेकेणापि ['जायते न तत् तत्कर्तृकम् यथा कुम्भकारव्यतिरेकेणापि] जायमानः पट: / किञ्च विषय स्य इति विनष्टघटस्मतिः इन्द्रियकर्तृका न भवति तदप्राप्तावपि ["जायमानत्वात्, यद् यद् प्राप्तावपि] जायते न तत् तत्कर्तृकम्, यथा कुभ्मकाराप्राप्तो पट:] ['अत एव विषयस्यापि इति विवादाध्यासिता घटस्मृतिः घटाश्रिता न भवति तद् व्यतिरेकेणापि जायमानत्वात्, यथा मृत्पिण्डव्यतिरेकेण पटः / ] इतोऽपि न तस्य इति :-चैतन्यं विषयाश्रितं न भवति / तदेशेऽजायमानत्वात् तद्गतरूपवत् / यदि ज्ञानं तद्देशं स्यात्तहि "सुखमपि तद्देशं संवेद्यते इति तर्कः। तर्कान्तरं चाह-बुद्धिपूर्वकचेष्टेति-चेष्टाविशेषो हि बुद्धिपूर्वक एवोच्यते इति द्वयोरुपादानं स्पष्टार्थम् / इदं त्वनुमानं न स्यात, विषयश्चेतनो न भवति, बुद्धिपूर्वकचेष्टाविरहादिति सपक्षविपक्षाभावेनासाधारणानैकान्तिकत्वात, सर्वेषां पक्षीकृतत्वादात्मनश्वासिद्धेः, सिद्धौ च चेष्टासद्भावाभावात शरीरस्य चेतनासमवायाभावान्न "व्यतिरेकितेति / [पं०] त्रयं ते मम पत्रिण इत्यत्र स्वातंत्र्यम् / औपचारिकमिदम्, नतु तात्त्विकं वाक्यम् / तस्मात्स्मृतिस्तावन्नेन्द्रियाणामिति यदीन्द्रियाणां स्मृतिः स्यात्, तदा तेषां प्राप्य कारित्वात्स्मृतिकाले विषयसनिकर्षः स्यात् / न च तदा विषयसन्निकर्षोऽस्ति / अततत्वादिति भावः / अन्यस्यानुभवेनान्यस्यास्मरणादिति / न हि चैत्रानुभूतं मैत्रः स्मरति। किन्तु येनैवानु - भूतं स एव स्मरति / यदा च सर्वथा स्मरणस्य सतोऽपि इन्द्रियकार्यत्वेन प्रतिषेधः कृत एवेति भावः / तद्देशेति = विषयदेशे / रूपमहमद्राक्षमित्यादि शब्दस्तु नोक्तः / तत्र कि कारणम् / श्रोत्रस्याकाशत्वेनात्मसंबंधाभावादित्युक्तं प्रागिति संभावयामः / . . . [कु०हेत्वन्तरं चेति (कं.७२.१६) अ[त्र] प्रयोगः, 'स्मृतिनेन्द्रियकार्या तदभावेऽपि ज्ञायमानत्वात्, यथा व्रीहिबीजाभावेऽपि जायमानोपः मङ्कुरो न व्रीहिबीज़ा (ज) कार्य इति / किञ्चेति (कं. 72.18) अत्रापि प्राच्येव प्रतिज्ञा, हेतुस्तु इन्द्रियाप्राप्तविषयत्वात् लैङ्गिकज्ञानवदिति / तदभावादिति (कं. 72.20) तत्प्रतिपन्नस्यानुभवस्येन्द्रियं न कर्तृ विषयस्यास्मर्तकत्वात् / यथा देवदत्तानुभवस्य यज्ञदत्तः। तद्विषयस्यास्मर्ता तदकर्ता। अत एवेति (कं. 72.20) असान्निध्येप्यनुस्मृतिदर्शनादेव / नतु विषयस्यैव स्मर्तृत्वे सन्निधिमपेक्ष्यवेत्यत आह नष्ट इति (कं. 72.21) / एवं नाशहेतुमसन्निधिं व्याख्याय सम्प्रति कार्यापेक्षया देशभेदहेतुकमप्यसन्निधिं व्याचष्टे इतोऽपीति / (कं. 72.21) / 1 असान्निध्ये स्मृतिर्दृष्टा - जे. 1; जे. 2; जे. 3 / 2 बाह्येन्द्रियाणामप्राप्यकारित्वं - जे. 1; जे. 2; जे. 3 / 3 तद्देशज्ञानस्य-कं. 1; कं. 2 / 4 [ ] एतच्चिह नान्तर्गतः पाठः ड पुस्तके नास्ति / 5 विशेषयस्य-अ, ब; 6 भवन्ति-अ; 7 [ ] एतच्चिह्नान्तर्गतः पाठः-ड पुस्तके नास्ति / 8 घट:-अ, ब, क; 9 [ ] एतच्चिान्तर्गतः पाठः- अब पुस्तकयो स्ति / 10 'न' अब पुस्तकयो स्ति / 11 मुख्यमपि -अ, ब; 12 चेष्टिति-अ,ब; 13 दात्ममथा-अ, ब; 14 व्यतिरेकतेति-अ, ब, क; 15 निषेधः-ब;