________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली सम्वद्धयते / शरीरेन्द्रियमनसां चैतन्यं न भवति, कुतस्तत्राह-अज्ञत्वादिति / ज्ञानं प्रति समवायिकारणत्वाभावादित्यर्थः / नन्वेतदपि साध्याविशिष्टमित्याशङ्कयाह-न शरीरस्येति। चैतन्यं शरीरस्य न भवति घटादिवच्छरीरस्य भूतकार्यत्वात्, यद्भ तकार्य 'न तच्चेतनं यथा घटः, भूतकार्यञ्च शरीरम्, तस्मादेतदप्यचेतनम् / युक्त्यन्तरमाह-मते चासम्भवादिति / मृते शरीरे चैतन्यस्यासम्भवादित्यनेनायावद्रव्यभावित्वं विवक्षितम् / चैतन्यं शरीरस्य विशेषगुणो न भवति, 'अयावद्रव्यभावित्वात् संयोगवत् / अत एव तत्कारणान्यप्यचेतनानि, तेषां चैतन्ये कार्येऽपि चैतन्यं स्यात् / एकस्मिन् शरीरे ज्ञातृबहुत्वञ्च प्राप्नोति / ततश्चैकाभिप्रायेण प्रवृत्तिनियमाभावादिदोषः / नेद्रियाणां करणत्वादिति / इन्द्रियाण्यचेतनानि करणत्वाद्दण्डवत् / हेत्वन्तरञ्च समुच्चिनोति-उपहतेष्विति। [वि.] मिलितस्याहेतुत्वे व्यभिचाराभावात् / ज्ञानं विशेषगुणः अव्याप्यवृत्तित्वे सति प्रतिनियतेन्द्रियग्राह्यत्वात् 'शब्दवदिति प्रमाणे (णेन) ज्ञानस्य विशेषगुणत्वं सिद्धम् / अत्रापि अव्याप्यवृत्तित्वे इत्यनेन सामान्यव्यवच्छेद: प्रतिनियतेत्यादिना संयोगादिष्यवच्छेदः / तत्र शरीरविशेषगणत्वं 'चैतन्यस्य 'निषेधति-चैतन्यं न शरीरस्य इति / नन शरीरावयवानां हुस्तादीनां गुणो भविष्यतीत्याह-अत एव तत्कारणानीति अत एव यावद् द्रव्यभावित्वादित्यर्थः / विपक्षे "बाधक प्राह तेषां चैतन्य इत्यादि कार्यविशेषगुणानां कारणगुणपूर्वकत्वदर्शनात् / ननु चैत्रो मैत्रेण यदा करोति तदा चेतनमपि करणमस्तीति व्यभिचारः / मैत्रस्य चैत्रापेक्षया करणत्वेऽप्यवान्तरव्यापारापेक्षया कर्तृत्वमप्यस्तीति न वाच्यम, दण्डाबावपि तुल्यत्वात् / सत्यम्, परं मैत्र"स्य स्वप्रयोजनं प्रति स्वतन्त्रस्यापि कर्तृत्वमस्ति न तु दण्डादेरिति / नन्विन्द्रियाणां करणत्वमसिद्धमिति हेत्वन्तरमाह-उपहतेषु इति :-विवादास्पदं स्मृतिरूपं ज्ञानमिन्द्रिय कर्तक न भवति तदव्यतिरेके [पं०] इति यावत् / तत्कारणानीति=शरीरकारणानि अवयवा इत्यर्थः / कार्येऽपीति=शरीरेऽपि / इन्द्रियाण्यप्यचेतनानि करणत्वाहण्डादिवदिति अत्राह कश्चित-यदा चैत्रो मैत्रेण कार्य करोति तदा मैत्रः करणरूप: सचेनश्च, तत्कथमचेतनत्वं करणस्य / अत्रैवं समाधेयम्-इह यत्सर्वथा परतन्त्रं तदेव करणम्, मैत्रस्तु स्वतंत्रोऽपि भवति तत्कथं लंध्यते चन्द्रहासः / [कु०] नन्वेतदपीति (कं. 72.8) चैतन्यं चेतनाया आश्रयत्वं समवायिकारणत्वं तु कार्यभूतायाश्चेतनाया आश्रयत्वम्, इत्यनयोर्भे देऽपि हेतोरसिद्धत्वात् साध्याविशिष्टं च द्रष्टव्यम् / भूतकार्यत्वादिति (कं. 72.9) हेतुद्वयं समस्य निर्दिष्टं द्रष्टव्यम्; अन्यथा विशेषणविशेष्ययोरन्यतरस्य वैयर्थ्यप्रसङ्गात् / एवमनङ्गीकारे घटादयोपि चेतयेरनिति तर्को द्रष्टव्यः / मृते चासम्भवादिति (कं. 72.11) हेतुरू[प] जीवनेनोपाधिना प्रयोजक इत्यन्यथा व्याचष्टे अनेनेति (कं. 72.11) कधिष्ठितस्यैव कारणत्वादिन्द्रियाणां चैतन्ये तदतिरिक्तस्याधिष्ठातुरभावेन तच्चानुपपत्तिः / कारणत्वादित्यसानुकूलस्तकः / 1 तदचेतनम्-जे. 1; जे. 2; जे. 3 / 2 अयावद्रव्यभावित्वं-जे. 2 / 3 भावादुपाध्यायज्ञानस्य शिष्य ज्ञानक्षणं प्रत्युपादानकारणत्वाभा[व? ] ज्ञानं विशेषगुण..."अ%; 4 शब्दवत्-ड; 5 विशेषणत्व-ड; 6 विच्छेद:-ड; 7 चैतन्यं इति नास्ति र पुस्तके। 8 निषेपति-अ; 9 चैतन्यं शरीरस्य विशेषगुणो न मु. -जे. 1, 3; 1. बाधके-४; 11 चैत्रस्य-अ, ब, क; 12 द्यनेम-ह. प्र.।