________________ 178 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली अथेदं स्वयमेव जानाति न पराश्रितमिति चेत् ? किमिदं नित्यम् ? प्रतिक्षणविनाशि वा ? यदि नित्यम् ? सज्ञाभेदमात्रम् / अथ क्षणिकम्, चिरानुभूतस्य न स्मरणम्, प्रतिपत्तभेदात् / यत्तु कार्यकारणभावात् पूर्वक्षणानुभूतस्योत्तरेण स्मरणम्, यत्पुनः पित्रानुभूतस्य पुत्रेणास्मरणम्, तत्र पितृपुत्रज्ञानयोः 'कार्यकारणभावाभावात्, शरीरयोश्च तथाभूतयोरचेतनत्वात् / तदयुक्तम्, आत्माभावे कार्यकारणभावस्यानिश्चयात् / कारणविज्ञानकाले कार्यज्ञानमनागतम्, तत्काले च कारणमतीतम् / न च ताभ्यामन्यः कश्चिदेको 'द्रष्टास्तीति कस्तयोः क्रमभाविनोः कार्यकारणभावं प्रतीयात् / अथ मतम्, स्वात्मग्राहिणी पूर्वा बुद्धिः स्वात्माव्यतिरिक्तं स्वस्य कारणत्व'मतिरूपं गोचरयति / उत्तरापि बुद्धिः स्वरूपविषया तदव्यतिरिक्तमात्मीयं कार्यत्वमपि गृह्णाति, [टि०] यदि नित्यम् इतिः-ननु सञ्जाभेदमात्रं कथम् ? केवलकर्तृरूपेण तस्यास्वीकृतत्वात्, किन्तु कर्तृकरण संभेदरूपस्यैव परैरभ्युपगतस्वात् ? सत्यम्, स्थिरमेकं ज्ञातृरूपं तावत्सिद्धमेवेति भावः / यत्पुनः पित्रनुभूतस्य इति ननूपाध्यायज्ञानस्य शिष्यज्ञानं प्रति कारणत्वाद् उपाध्यायानुभूतस्यापि शिष्येण स्मरणप्रसङ्गः? सन्तानभेदादस्मरणमिति [पं०] =कार्यकारणभूतयोः / तत्काले इति कार्यविज्ञानकाले। तस्याः कारणमिति = कार्यबुद्धेः कारणमित्यर्थः / अस्या इति = कारणबुझेः कारणमित्यर्थः / ताभ्यामगृहीतमिति-पूर्वोत्तरधीभ्यामनवधारितं कारणत्वकायंत्वस्वरूपमित्यर्थः / [कु०] अहं ममेति कर्तृत्वं स्वस्मिश्च शरोरेन्द्रियसङ्घातस्येति वदतश्चार्वाकान्निरसितुं तद्विषयमेव कर्तृत्वं स्वामित्वं च जम्मान्तरीयसम्बन्धोपाधिकृतम्। 'चक्षुषा पश्यामि' 'शरीरं प्रेरयामि' 'मम च चक्षु'मम च शरीरमिति च / एवं रूपमिप्ति च द्रष्टव्यम् / __ प्रसिद्धशब्दस्योत्पत्तिवाचकत्वषाङ्की निरस्यन् विचष्टे प्रसिद्धिनिमिति (कं. 71.15) / क्रियात्वादिति (कं. 71.16) कार्यत्वादिति व्याख्येयम्, अन्यथा ज्ञानस्य परिस्यन्दत्वरभरवेन हेल्दसिद्धिप्रसङ्गात्, किपाशब्दस्य भास्वर्थपरत्वेऽपि विनश्यतीत्यादावनैकान्तिक[त्व प्रसङ्गाच्च / विपतिपन्नमिति च ज्ञानं विशेषणीयम् ईश्वरज्ञाने कार्यत्वस्य (म्) भागासिद्धिर्माभूदिति / अथेवमिति (कं. 71.17) आश्रयाश्रयिभावस्य क्वचि[दप्यनङ्गीकारादप्रसिद्धविशेषणः पक्ष इति भावः / सज्ञाभेदमात्र मिति (कं. 71.18) न तावद् घटपटादिविषयावच्छिन्नस्य ज्ञानस्य नित्यत्वम्, उत्पतिविनाशयोरनुभवात् / तदतिरेकिणः कूटस्थस्यान्यविद्यावशात् कल्पितविषयावच्छेदेनानेकवृत्तिज्ञानसम्बन्धेन ज्ञातुर्मानादभेदसाधनं परिशिष्यते / न चैतदनिर्वचनीयस्यातिनिराकरणवेलायां मिराकरिष्यते / तस्मास्वयमेव "जानाती(स्य)न्द्रियाधिकारणजन्यविषयावभासरूपज्ञानसम्बन्ध एव कस्यचिन्नित्यस्य वस्तुन इति वाच्यम् / तथा च सज्ञाभेदमात्रमिति भावः / प्रतिपतभेदाविति (कं. 71.19) एकस्य प्रतिपत्तुरभावादित्यर्थः / 1 कार्यकारणभावात् -जे. 1; जे. 2; जे. 3 / 2 कारणमतीम् - कं. 1; कं. 2 / 3 द्रष्टास्ति-जे. 1; जे. 2; जे. 3 / 4 मतिरूपं-कं. 1, कं. 2 / 5 करणरूपस्यैव-अ, ब, क; 6 पित्रानुभूतस्य-अ; 7 पितृ-अ, ब; 8 स्याविशेषेण -म; 9 म अधिको भाति-सं। 10 जानातीन्द्रियाधिकरण -ह. प्र।