________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [81] आत्मत्वाभिसम्बन्धादात्मा। तस्य सौक्षम्याद'प्रत्यक्षत्वे सति करणैः शब्दाद्युपलब्ध्यनमितैः श्रोत्रादिभिः समधिगमः क्रियते / वास्यादीनामिव करणानां कर्तृप्रयोज्यत्वदर्शनात् शब्दादिषु प्रसिद्धया च प्रसाधकोऽनुमीयते / न्यायकन्दली [81] यस्य तत्त्वज्ञानं निःश्रेयसाय घटते विपर्ययज्ञानं संसारहेतुर्यदर्थानि च भूतानि तत्प्रतिपादनार्थमाह-आत्मत्वाभिसम्बन्धादात्मेति , आत्मत्वं नाम सामान्यं तदभिसम्बन्धादात्मेति 'व्यवहार इत्यर्थः / इदमस्येतरेभ्यो वैधर्म्यम् / ननु दृश्यस्य सत्त्वं तदाकारसंवेदनेन व्याप्तम्, न चात्माकारं कस्यचित्संवेदनमस्ति, अतो व्यापकानुपलब्ध्या तस्य सत्त्वमेव निराक्रियते कुतो धर्मनिरूपणमित्याशङ्कय तत्सद्भावे बाधकं प्रमाणं नास्ति प्रत्यक्षानुपलब्धेरन्यथासिद्धत्वात्, साधकञ्च प्रमाणमनुमानमस्तीति प्रतिपादयन्नाह तस्येति / प्रत्यक्षोपलब्धियोग्यताविरहः सौक्ष्म्यम् / तस्मादप्रत्यक्षस्यात्मनः करणः शब्दाद्यपलब्धयः करणसाध्याः क्रियात्वाच्छिदिक्रियावदित्यनमितैः श्रोत्रादिभिः समधिगमः क्रियते / कुत इत्याह-वास्यादीनां करणानां कर्तृप्रयोज्यत्वदर्शनात् / यत्करणं तत् [fro] ( // अथ आत्मनिरूपणम् // ) __ [81] अतो व्यापकानुपलब्ध्या इतिः यदुपलब्धिलक्षणं प्राप्तं सदनुपलभ्याकारं तदसद् यथा जलाशये वह्निः; अनुपलभ्याकारश्चात्मेति प्रसङ्गः / प्रत्यक्षोपलब्धीति बाह्येन्द्रियप्रत्यक्षमत्र ग्राह्यम्, आत्मनो मानसप्रत्यक्षत्वस्य [पं०] [81] परवाक्यं-ननु दृश्यस्येत्यादि / अन्यथासिद्धत्वादिति सौक्ष्म्यादेव 'सिद्धत्वात् / आकाशस्य श्रोत्रस्य यद्यथाऽऽत्मना सह साक्षात्सम्बन्धो नास्ति / विभुत्वादिति-संयोगो ह्यन्यतरकर्मज उभयकर्मजश्च / माजः संयोग इति [कु०] प्रथमचरमायित्यस पोगराहित्ये न तु मध्यमसंयोगराहित्ये च सति दक्षिणेति व्यवहार: न तु मध्यसंयोगे सति तृतरेति विभागः / सूर्यमपेक्ष्य यतः पृथिवि सा अधरा, पृथिवीमपेक्ष्य यतो नक्षत्राणि सोर्ध्वा / स' इति चन्द्रद्रव्यम् / एतदेवेति (कं. 68.21) दिग्भेदानामौपाधिकत्वं दर्शयतीत्यर्थः / लोकपालरिन्द्रादिभिरिति (कं. 68.23) अत्र सवितुश्चेति 'च'शब्दलोपो द्रष्टव्यः इतरथा सवित्रेति वादिक प्रदेशरिति वा निर्दिष्टव्यत्वात् भाष्ये / दिकप्रदेशानामिति (कं. 68.24) पदमावर्तनीयं संक्षिप्त प्रकाशनाय / 4 कु० [81] [शक्य] ? त्रयभोग्यगुणाश्रयनिमित्तभावेन पृथिव्यादयः सप्त निरूपिताः, अथोपभोक्ता [क्तृ] निरूपणप्रयोजनमाह यस्येति (कं. 70.18) / नन्वात्मत्वं नाम सामान्यं बहुष्वात्मव्यक्तिषु प्रतीतासु प्रत्येतव्यं, तथा च 1 अप्रत्यक्षत्वे करणः-दे। 2 वास्यादीनां - कं.। 3 व्यवहार:-कं. 1; कं. 2 / 4 नुपलब्धेति - अ; 5 लक्षणं प्राप्तं-अ, ब, क; 6 संयोगरहित्ये न तु मध्यमसंयोगरहित्ये इति लेखक दोषात् हस्तलिखितपुस्तके ऽशुद्धः पाठः-सं / 7 प्रतीकमिदं कन्दल्यां न दृश्यते-सं /