________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् न्यायकन्दली व्यवहार इत्युपपद्यते प्रतीतिभेदः / आदित्यसंयोगनिबन्धन एवास्तु प्रत्ययः ? न, तस्य मूर्तबग्यसंयोगाभावात् असम्बद्धस्य च प्रत्ययहेतुत्वासम्भवात् / एतदेव दर्शयतिदिग्लिङ्गाविशेषादिति / दिश एकत्वे 'स्थितेऽपि महर्षिभिः प्राच्यादिभेदेन दशविधाः सज्ञाः कृताः। कीदृश्यस्ताः ? अन्वर्थाः, 'अनुगतोऽर्थों यासामिति सा अन्वर्थाः / केषामर्थस्तास्वनुगतः ? लोकपालैरिन्द्रादिभिः परिगृहीतानां दिकप्रदेशानाम् / सवितुर्ये संयोगविभागास्तेषामित्यध्याहारः। तथा हि-प्रथममस्यामञ्चति सवितेति प्राची। अवागम्चतीति अवाची। प्रत्यगञ्चतीति प्रतीची। उदगञ्चतीति 'उदीची कि विशिष्टस्य सवितुः ? मेरुं प्रदक्षिणमावर्तमानस्य, मेरुं प्रदक्षिणं परिभ्रमतः / किमर्थ सज्ञाः कृताः? श्रुतिश्च स्मृतिश्च लोकश्च तेषां संव्यवहारार्थम / सम्यग् व्यवहारार्थम् / श्रौतो व्यवहारो न प्रतीचीशिराः "शयीतेत्यादिः। स्मार्तो व्यवहार आयुष्यं प्राङमुखो भुङक्ते "इत्यादिः / लोकव्यवहारः पूर्व गच्छ दक्षिणमवलोकये त्यादिः / यतो दश सज्ञाः कृतास्ततो भक्त्या उपचारेण दश दिशः सिद्धा व्यवस्थिताः / माहेन्द्रयादिसंज्ञास्तु नार्थान्तरविषयाः, किन्तु तासामेव निमित्तान्तरवशात् प्रवर्त्तन्त इत्याह-"तासामेवेत्यादि। महेन्द्रस्येयमिति माहेन्द्री / वैश्वानरस्येयं वैश्वानरीत्यादि सर्वत्र निर्वचनीयम् / [पं०] वस्थितद्रव्यापेक्षयेति-मध्याह्नसूर्यसंमुखावस्थितद्रव्यापेक्षयेत्यर्थः / पूर्वदक्षिणादिव्यवहार इति आग्नेयादिकोणव्यवहारः / परः प्राह-आदित्यसंयोगनिबन्धन एवास्तु प्रत्ययत इति-आदित्यसंयोगमिबन्धन एव पूर्वादिप्रत्ययोऽस्तु कि दिक्कल्पमयेति भावः / श्रीधरो नेत्यादि / तस्येति-आदित्यसंयोगस्य-तास्विति-संज्ञाऽस्तु // इति दिकद्रव्यम् ॥छ॥ [0] कालोपनीतधर्मविशिष्टा वर्तमानादिप्रत्ययाः सर्वप्रमातृसाधारणा दृष्टाः / एवं पूर्वापरादिप्रत्ययानामपि तदुपनीतधर्मकार[ण]त्वे तदेव प्रमातृसाधारण्यं स्यात् / न च पूर्वापरादिप्रत्ययाः साधारणाः / यत्र हि कस्यचित्पूर्वप्रत्ययः मातृनियमदर्शनात् / न चोपनायकाभेदे (कभेदे) प्युपानयभेदे [दो] न कार्य इति वाच्यम, नोये प्रमातृनियमे च प्रमाणसिद्धेः श्रुतिस्मृतीतिहासपुराणेषु दिक्कालयोर्भेदप्रसिद्धिमनसत्यव द्रव्यान्तरकल्पनाया अविरोधात् / यदाह भाष्यकार: दिशः "परमर्षिभिः[श्रुतिस्मृतिलोकव्यवहारार्थमिति / ' युगपद्वस्त्वन्तरापेक्षयेति / कं. 68.12) युगपदवधिभेदापेक्षया एकस्मिन्नेव पर्वतादौ पूर्वमपरं घेत्यादि प्रत्ययो [या] उत्पद्यन्ते / न च परमार्थतो दिग्भेदे प्रत्य [य] समावेशः सम्भवति तीति भावः। "सर्वार्थापेक्षयेति (कं. 68.14) यमवधिं कृत्वा यत्र पूर्वप्रत्ययस्तमेवावधिं कृत्वा तत्रैवापरप्रत्ययप्रसङ्ग इति भावः / मध्याह्नसं"योगस्येति (कं. 68.18) 1 व्यवहारा-जे. 2 / 2 सम्बन्धाभावात्- जे. 2 / 3 स्थिते - कं. 1; कं. 2 / 4 अनुमतोऽर्थो - जे. 2 / 5 संयोगविभागातिशेषा-जे. 1; संयोगा-जे. 2 / 6 उदीचीत्यादि-जे. 1; जे. 3 / 7 प्रदक्षिणं परिभ्रमत:जे. 1 / 8 श्रुति:-कं. 1 / 9 तेषां सम्यग्व्यवहारार्थ-कं. 1; कं. 2 / 10,11,12 °त्यादि-जे. 1; जे. 2 / 13 तासामेवेति-जे. 1; जे. 2; जे.३। 14 परममहर्षिभिः पा.६ पु., श्रुतिस्मृति-कं.१,२)। 15 सर्वाकं. 1, कं. 2 / 16 संयोगप्रगुण:-कं. 1, क. 2 /