________________ टिप्पणपञ्जिकाकूसमोदगमादिटीकात्रयोपेतम् न्यायकन्दली निमित्तम्, यथाकथञ्चिदवस्थिते द्रव्ये तेषामुत्पत्तिप्रसङ्गात् / परस्परापेक्षया द्रव्ययोरुत्पत्तिनिमित्वेऽपि स एव दोषः, उभयाभावप्रसङ्गश्चाधिकः / क्रियागुणादिनिमित्तत्वे च समानगुणक्रियादिषु प्रत्ययविशेषो न स्यात् / तेन यदेषां निमित्तं सा दिगिति / यत्रतस्मादिदमिति पञ्चमी प्रयुज्यते, अन्यथा सापि निविषया स्यात् / अवधावियं पञ्चमीति चेत् ? सत्यम्, किन्त्ववधित्वं दिगपेक्षया न तु द्रव्यमात्रस्य, सर्वत्राविशेषप्रसङ्गात् / तस्या अप्रत्यक्षत्वेऽपि कालवद् विशिष्टप्रत्ययहेतुत्वं वाच्यम् / गुणवत्त्वं द्रव्यलक्षणं तदस्यामस्तीति प्रतिपादयन्नाह-'तस्यास्तु गुणा इत्यादि / कालवदेते सिद्धाः, यथा काललिङ्गाविशेषात् कालस्यैकत्वं सिद्धं तथा दिगलिङ्गावशेषाद् दिश एकत्वम्, यथा तदनुविधानात् काले पृथक्त्वं 'तथा 'दिशि, यथा' कारणे काल (बै. सू. 7-1-25) इति वचनात् परममहत्परिमाणं तथा कारणे दिगिति वचनाद् दिशः परममहत्परिमाणम् / सर्वत्र तत्कार्यस्य पूर्वापरादिप्रत्ययस्य भावात् / यथा कारणपरत्वात् कारणापरत्वाच्च कालस्य, संयोगगुणवत्वं प्रतिपादितं तथा दिशोऽपि, यथा संयोगविनाशकत्वात् काले 'विभागः सिद्धस्तथा दिशीत्यतिदेशार्थः / [टि०] न्तत्वे द्वितीया (यया) षष्ठ्या वैनेनानञ्चेरिति विशेषबाधितत्वात् तद्योगे पञ्चमी न स्यात् / उभयाभावप्रसङ्गश्च इति:-अन्योन्यापेक्षया एकस्यापि प्रत्ययस्यानुदयात्, अत एव 'एतस्माद्' इति दिग्योगविहितत्वात् पञ्चम्याः / 'अवागञ्चति इति नन्वेष यदि अवादिशब्दानामेव अर्वायादयोऽर्थास्तहि "अञ्चधातुप्रयोगो व्यर्थः पुनरुक्तत्वात् / सत्यम्, "अञ्चुधा"तुना सामान्येन तावद् गमनमुच्यते, "तच्च अर्वाक् प्रत्यक् च भवति, ततो विशेषापेक्षयोक्तं अवागित्यादि / [पं०] प्रत्ययस्यानुदयादिति भावः / अत एवैतस्मादिदमिति पञ्चमी प्रयुज्यते इति पाठः। यत्रतस्मादिमिति पञ्चमी प्रयुज्यते इति पाठान्तरम् / “तत्र चायं यत्र यस्यां [तदस्यां = दिशि / शेषं सुगमम् / अन्यथा साऽपि निविषया स्यादिति सा हि पञ्चमी दिक् शब्देभ्यो विहिता / न तु द्रव्यमात्रस्येति-नतु द्रव्यमात्रस्यावधित्वम् / परवाक्यं-ननु दिग्लिङ्गेत्यादि / श्रीधरवाक्यं नैकस्मिन्नर्थे इत्यादि / [कु०] यथाकथञ्चिदिति (कं. 67.20) सर्वत्रावस्थितेषु घटादिप्रत्ययवत्साधारणत्वप्रसङ्गादित्यर्थः / स एव दोष इति (कं. 67.21) पूर्वापरादिप्रत्ययोपि कदाचित्सा[स्या]दिति भावः / उभयाभावप्रसङ्गश्चेति (कं. 67.21) ह्रस्वदीर्घादिषु तु परिमाणतारतम्ये प्रसिद्ध परस्परापेक्षो व्यवहार उपपद्यते पूर्वापरादिषु तु दिगमङ्गाकारे वायष्ट्रविषयानुपपत्तौ नोपपद्यत इति भावः / अत एवेति द्रव्यादीनां पूर्वापरादिशब्दप्रवृतिनिमित्तत्वानुपपत्तो यद्यन्न निमित्तं तस्यां तस्य स्वस्वाभिधेयस्यापेक्षया नियतादवधेः पञ्चमीति भावः / तदिदमुक्तं किन्त्ववधित्वं दिगपेक्षयेति (कं. 68.1) / 1 निमित्तत्त्वे स एव-जे.२। 2 पञ्चमी चेत-जे. 3 / 3 न द्रव्यमात्रस्य-जे. 1 मे. 3 / 4 तस्या गुणाजे. 1; जे. 2; ने.३। 5 दिशीति-जे. 2 / 6 परत्वाच्चेति कालस्य-कं. 1; कं. 2 / 7 गुणत्वं-कं. 1; कं. 2 / 8 विभागसिद्धि:-जे. 1; जे. 2; जे. 3 / 9 अवां-ड; 10 भवु-अ, ब; अ वड; 11 अञ्च-ड; 12 धातुनामामात्येन-अ, ब, 13 तच्चार्वाक्-क; तत्त्वावाक्-अ; तत्त्ववाक्-ब; 14 तत्र च यत्र यत्स्यादिति -अ। 15 प्रतीकमिदं कन्दल्यां नोपलभ्यते /