________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् न्यायकन्दली तस्याकाशवद् द्रव्यत्वनित्यत्वे सिद्धे / यथा गुणवत्त्वादनाश्रितत्वाच्चाकाशं द्रव्यं तथा कालोऽपि। यथा समानासमानजातीयकारणाभा'वाच्च मित्यमाकाशं तथा कालोऽपि। यद्येकः कालः कथं तत्रानेकव्यपदेश इत्याह-काललिङ्गाविशेषाविति / काललिङ्गानां परापराविप्रत्ययानामविशेषाद् भेदाप्रतिपादकत्वारजसा मुख्यया वृत्त्या कालस्यैकत्वे सिद्ध नानात्वोपचारानानात्वव्यपदेशः / कुतः ? सर्वेषां कार्याणामारम्भ उपक्रमः, क्रिया या अभिनिर्वृत्तिः क्रियायाः परिसमाप्तिः, स्थितिः स्वरूपावस्थानम्, निरोधो विनाशः, एषामुपाधीनां भेवान्नानात्वव्यपदेशः / यथैको मणिः स्फटिकादिर्नीलाद्युपाधिभेदान्त्रील इति पीत इति व्यपदिश्यते तथा कालोऽप्यक एवोपाधिभेदादारम्भकाल इति क्रिया भिव्यक्तिकाल इति क्रियास्थितिकाल इति निरोधकाल इति व्यपदिश्यत इत्यर्थः / मणेरुपाधिसम्बन्धो न वास्तवः, कालस्य तु क्रियासम्बन्धो वास्तव इति प्रतिपादयितुं दृष्टान्तान्तरमाह-पाचकवद्वेति / यथैकस्य पुरुषस्य पचनादिक्रियायोगात् पाचकं इति पाठक इति व्यपवेशस्तथा कालस्यापि, न तु प्रारम्भादिक्रियेव कालो विलक्षणबुद्धिवेद्यत्वादिति / (कु०] अनेकव्यपदेश इति (कं. 66.9) अतीतोऽनागतो वर्तमान इति वा / प्रारम्भकाला इति यथाश्रुतभाष्यानुरोधेन चानेक (1) व्यवहारः कथमित्यर्थः / भेदाप्रतिपादकत्वादिति (कं. 66.10) कालस्यैकत्वे सामग्रीभेदात्प्रत्ययभेदोप पतरिति भेदाप्रतिपादकत्वं प्रागुक्तमेव द्रष्टव्यम। सर्वेषां कार्याणामिति (कं. 66.11) धर्माणां धर्मिणां चेति व्याख्येयम् / तत्र धर्मापेक्षया धर्मिणामेकरूपत्वेऽपि त्रैकाल्यं यथा भावयिष्यति, कुविन्दः पटं भावयति अभयवदिति; तत्र ह्येकरूपोपि कुविन्दः पटोत्पादनव्यापारासन प्रागभावापेक्षया भावयिष्यतीति तदुपलक्षितः कालोऽपि यथाव्यापारा श्रिततया तु वर्तमानः तद्रूपलक्षितः / कालोऽपि तथा (यथा) व्यापारोपरमापेक्षया अतीतस्तथा तदुपलक्षितः / कालोऽपि यथा धर्मापेक्षया वर्तमानं न विद्यते ब्योमेति / अत्र हि धर्मिणः सत्तव विवक्षिता पूर्वापरीभावो वर्तमानतया व्यपदिश्यते। अनागतं तु धर्मापेक्षया भविष्यति पट 'इत्य (नि) व्याप्रियमाणपटकारणानि दृष्ट्वा असन्नेव पटे भविष्यतीति निदिश्यते। धर्म्यपेक्षया अतीतं तु प्रध्वस्ते पट इति / अत्र हि प्रध्वंसस्य धर्मस्य वर्तमानत्वेऽपि तत्प्रतियोगिनीनी["न्यती] तत्वे प्रध्वस्त इति भूतप्रत्ययः अत्रापि तदुपलक्षितः कालोऽपि यथा[तथा व्यपदिश्यत इति त्रिष्वतुरंवजनीयम् / क्वचित्तु धर्ममात्रवर्तमानत्वेपि बुद्धिसिद्धो धर्मी वर्तमानतया निदिश्यते भविष्यति पट इति / धर्मस्यातीततया धर्मा [ती] तत्वं / क्वचित्तु भूत इति / अत्र हि वर्तमान एव पटे परत्वोत्पत्तिरूपधर्मातीतत्वेन भू[त]प्रत्ययो निर्दिश्यते इत्यादि स्वयमूहनीयम् / यथाश्रुतभाष्यानुरोधे त्वतिरोहितार्थंव कन्दलीति // 4 1 कारणाभावान्नित्य-कं.१; कं. 2 / 2 स्यैकत्वेऽपि-कं.१; कं.२ 3 °पचारो-जे. 1; ने. 2; जे. 3 / 4 प्रारम्भ-जे. 1; जे. 2; जे. 3 / 5 क्रियाभिनिर्वत्तिः-मे. 1; जे. 2; जे. 3 / 6 क्रियाभिव्यत्तिकाल - जे. 1; जे. 2; जे. 3 / 7 'क्रियास्थितिकाल'-इति - कं.१, कं.२ पूस्तकयो स्ति। 8 पाचकेति-कं.१ कं.२। 9 नि अधिको भाति / 10 न्यतीतत्वम् इति शुद्धः पाठः /