________________ 170 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् तस्याकाशवद्रव्यत्वनित्यत्वे सिद्धे / काललिङ्गाविशेषावज'सकत्वेऽपि सर्वकार्याणां प्रारम्भक्रियाभिनिर्वत्तिस्थितिनिरोधोपाधिभेवान्मणिवत्पाचकवद्वा नानात्वोपचार इति / न्यायकन्दली एकत्वस्य 'पृथक्त्वानुविधानं साहचर्यमियमः, तेनैकत्वात् पृथक्त्वसिद्धिः / “कारणे काल" (वै.सू. 7-1-25) इति वचनात् / परममहत्परिमाणमित्यनेन "कारणे कालाख्या" इति सूत्रं लक्षयति / युगपवादिप्रत्ययानां कारणे कालाख्या कालसझेति सूत्रार्थः / तेन व्यापकः कालो लभ्यते, युगपदाविप्रत्ययानां सर्वत्र भावादित्यभिप्रायः / कारणपरत्वादिति वचनात् संयोग इति / "कारणपरत्वात् कारणापरत्वाच्च परत्वापरत्वें" (वै. सू. 7-2-22) इति सूत्रे कारणपरत्वशब्देन कालपिण्डसंयोगोऽभिहितः / तेनास्य संयोगगुणत्वं सिद्धम् / तद्विनाशकत्वाद्विभाग इति / तस्य संयोगस्य कृप्तकत्वादवश्यं विनाशे / विभागो विनाशकः, सर्वत्राश्रयविनाशाभावात् / अतः काले विभागसिद्धिय॑धिकरणस्य विभागस्याविनाशकत्वात् / [हिं०] मत्र व परत्वाद' इति परत्वोत्पादककालसंयोगादित्यर्थः / परत्वोत्पादक कालो बहुतरतरणिसञ्चरणावच्छिन्नः एवम् 'भपरत्वाद्' इत्यस्याप्यर्थः / यथा गुणवत्वाद इति:-भत्रापि "भनाश्रयत्वाद् इति आश्रयैकस्वभावत्वाद् इत्यर्थः, अन्यथा समवायेन म्यभिचारः स्यात् / कालस्य तु क्रियाभिसम्बन्ध इति:-निवयंनिवर्तकभावरूपो हि वास्तवः सम्बन्धः कालदेवदत्तयोरस्ति, देवदत्तस्यापि तन्दुलसमवायिन्यां पचिक्रियायां निवर्तकत्वेनैव कर्तृत्वात्, मणौ तु रक्त रूपसमवायो भ्रान्तः। // कालः।। [कु०] लिङ्गानि षडभिधाय लिङ्गाविशेषादिति वचनमयुक्तमित्याशयेन शङ्कते "नन्विति (कं. 65.21) / परिहरति नैवमिति (कं. 65.21) / सहकारिभेदा (श्व) (कं. 65.22) सामग्रोभेदादिति / प्राणत्वोपपाणनः? सर्वत्र भावादिति (कं. 66.1) सर्वेषु मूर्तेषु स्वसंयुक्ततपनसम्भवे त[त्] परिस्पन्दोना[ना]यकत्वव्यापकत्वे सतीति घटते / व्यापकत्वं च [न] परममहत्वेन विना घट[त] इत्यभिप्रायः / कारणपरत्वशब्देनेति (कं. 66.3) परत्वस्य कारणं यः कालपिण्डसंयोगः स कारणे कार्योपचारात् परत्वमित्युक्त इत्यर्थः / व्यधिकरणस्याविनाशकत्वादिति (कं. 66.6) तथात्वे खदिरे प्रवृत्तया छिदया पनसः छिद्यतेति भावः / / संकल्वे सति-ता। 2 कार्याणामारम्भ-कं. कि। 3 पृथक्त्वेनानुविधानं-कं. 1 / 4 पाठान्तरमिदम् सूत्र तु 'कारणे काल:' इति / 5 पिण्डस्य-जे.१; जे. 3 इत्यत्र कालपिण्डस्य स्थाने केवलं 'पिण्डस्य' इति पाठः / 6 विनाशिनो-कं. 1; कं. 2 / 7 भन्सश्रितत्वाद्-म. जे. 1, जे. 3, 8 क्रियासम्बन्ध - मु. 9 कर्तेत्वात् - अ; कर्तकत्वात् -ब; 10 रूपरक्तरूप-ड; 11 राष्टस्पिति आदर्श पूस्तके लेखकदोषादशुद्धः पाठः। 12 व्यधिकरणस्य विभागस्याविनाशकत्वात-कं.१।