________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 169 प्रशस्तपादभाष्यम् [78] तस्य गुणाः सङख्यापरिमाणपृथकत्वसंयोगवि'भागाः। काललिङ्गाविशेषादेकत्वं सिद्धम् / तदनुविधानात् पृथक्त्वम् / कारणे काल इप्ति वचनात् परममहत्परिमाणम् / कारणपरत्वाविवचनात् संयोगः। तद्विनाशकत्वाद विभाग इति / न्यायकन्दली क्षणः, क्षणद्वयेन लवः, अक्षिपक्ष्मकर्मोपलक्षितकालो निमेष इत्यादिगणितशास्त्रानुसारेण प्रत्येतव्यम् / [78} एवं धम्मिणि सिद्धे तस्य गुणान् कपपत्ति-तस्य गुणा इति / कालस्य द्रव्यत्वात् सङ्घयादियोगे सिद्धे तद्विशेषप्रतिपादनार्थमाह-काललिङ्गाविशेषादिति / कालस्य लिङ्गानां युगपदाविप्रत्ययानामविशेषादेकत्वम्, कालस्य भेदे 'प्रमाणान्तराभावावित्यर्थः / ननु गुगपदाविप्रत्ययभेद एव तदभेवप्रतिपादकः ? नैवम्, कालाभेदेऽपि सहकारिभेदात् प्रत्ययभेदोपपत्तेः / सवनु विधानात् पृथक्त्वमिति / [टि०] [78] ['काल] पिण्डसंयोगोऽभिहत इति कारणे कालसंयोगे कार्ययोः परत्वापरत्वयोरुपचारात् परत्वापरत्वशम्देन संयोगाभिधा नम् / [कु०] ननु दण्डीत्यादिविशिष्टप्रत्यये विशेषणविशेष्ययोरेकप्रमाणव्यक्तिगोचरता वा एकजातीयप्रमाणगोचरता वा विवक्षिता? नाद्य- इत्याह-यथा सुरभीति (कं. 65.9) न द्वितीय इत्याह-यथा मीमांसकानामिति (कं. 65.10) / ते ह्यभावं षष्ठप्रमाणगोचरं विदुः / घटादिष्वपीत्यत्रापि लौकिकानां तपनपरिस्पन्दभेदविशिष्टतयैव यगपदादिप्रणम्पराः परीक्षकाणामेव तु कालानुमानपुरस्कारणेति विवेचनीयम् / इतरथा इतरेतराश्रयत्व स्य] दुष्परिहरत्वात् / - सर्वोत्पत्तिमतां निमित्तकारणत्वमिति यत्प्रागुक्तं तत्प्रदर्शनार्थं भाष्यमवतारयति सर्वकार्याणामिति (कं. 65.13) / उत्पत्तेराधारः काल उत्पत्तिकाल अथोत्पन्न इत्येवमादिव्यपदेशादित्यर्थः / 'निमेषेति (कं. 65.16) उत्पन्ने कर्मणि यावन्न विभागस्तावान् कालः क्षण इत्यर्थः / [78] तस्य गुणानिति (कं. 65-18) संयुक्तसमवेतोपनायकतया संयोगाधारत्वेन द्रव्यत्वे सिद्धे तत एव सह्यादिपञ्चयोगसिद्ध पूनस्तत्कथनं विशेष गुणराहित्यप्रत्यापादनायेति मन्तव्यः, विशेषविधिः शेषनिषेधपर इति न्यायात् / 1 विभागा: पूर्ववदेते सिद्धाः- दे। 2 कारणपरत्वादिति -कि.। 3 प्रमाणाभावाद् - जे. 1; जे. 2; जे, 3 / 4 काल - मु. 5 धाना-ड; 6 यथा वा-कं. 1. कं. 2 / 7 निमेषस्य-कं. 1 कं. 2 / 22