________________ 168 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली थोच्यते / युवस्थविरयोः शरीरावस्थाभेदेन तत्कारणतया कालसंयोगेऽनुमिते सति पश्चात्तयोः कालविशिष्टतावगतिः प्रत्येतुरेकत्वात्, प्रमाणान्तरोपनी तस्यापि विशेषणत्याविरोधात्, यथा सुरभि चन्दनमिति / यथा वा मीमांसकानामघटं भूतलमिति, घटाविषु तु मूर्तद्रव्यत्वेनावस्थाभेदेन वा शरीरवत् कालसम्बन्धेऽनुमिते तद्विशिष्टो युगपदादिप्रत्ययो जातः / पश्चात् कार्यत्वादिविप्रतिपन्नं प्रति 'काललिङ्गत्वमित्यनवद्यम् / सर्वकार्याणाञ्चोत्पत्तिविनाशहेतुः / अत्र युक्तिमाह -तव्यपदेशादिति / तेन कालेमोत्पस्यादीनां व्यपदेशात् उत्पत्तिकालो विनाशकाल इत्यादिव्यपदेशात् कालस्य तत्र हेतुत्वमित्यर्थः / कार्यान्तरमपि तस्य कथयति-क्षणलवेत्यादि / निमेषस्य चतुर्थो भागः [टि०] यः प्राग् इत्यस्य शब्दस्यार्थः / स एव न सम्भवति प्राचिकाले प्रागिति व्युत्पत्तेः / ती पद्रव्यस्य च प्रत्यक्षत्वाभावादाह तस्मादन्यथो च्यते इति पारिशेष्याद् युवस्थविरशरीरावस्थायां काल एव कारणमिति भावः / सुरभिचन्दनमित्यत्र घ्राणोपस्थापितो गन्धो विशेषणम् / यथा वा इति भूतलं प्रत्यक्षम'भावरूपप्रभाणान्तरगृहीतम् / ननु 'युवस्थविरदेहयोस्तावदवस्थाभेदेन कालसंयोगानुमानम्, घटादौ तत्कथमित्याह घटादिषु तु इति। .. [पं०] प्रत्यक्षग्राह्यम् / तयोश्च विशेषणविशेष्यभावो दृश्यते / घटादिषु तु मूर्तद्रव्यत्वेनावस्थाभेदेन वा शरीरत्वकालसम्बन्धेऽनुमिते इति / अमेन प्रयोगं दर्शयति यन्मूर्तद्रव्यं तत्कालसंयोगि यथा शरीरम् / तथा च घटादि / अत्र चावस्थाभेदाः प्रत्यक्षाः / कालस्त विशेषणमनमानं गम्यत इति गमनिका / तद्विशिष्ट इति = कालसंबन्धविशिष्टः / मिणीति = काले। व्यधिकरणस्य विभागस्याविनाशकत्वादिति-वध्यघातकलक्षणविरोधेनेति शेषः / प्रारंभ इति / कोऽर्थः? प्राकभावोपलक्षितः काल: प्रारंभः / स्थितिरिति कोऽर्थः / सत्तयोपलक्षितः काल. स्थितिः / विनाश इति कोऽर्थः / प्रध्वंसाभावोपलक्षितः कालो विनाशः / विलक्षणबुद्धिवेद्यत्वादिति / अत्र सहप्रयोगानुपपत्तश्चेति द्वितीयोऽपि हेतुः स्वधिया वाच्यः / -इति कालद्रव्यम् // 6 // [कु०] बाधकस्वभावस्येति (कं. 65.6) घटोज (घटज) ज्ञानं चक्षुःकारणमपि चक्षुविशिष्टतया नोत्पद्यते / चाक्षुषं घटज्ञानमित्यत्र त्वनुव्यवसाये चक्षविशेषणतया व्यवसायमन रञ्जयद्विषय एव न तु कारणमिति भावः / युवस्थविरयोरिति (कं. 65.7) तपनपरिस्पन्दप्रकर्षनिकर्षाभ्यामवस्थाभेदानुमानाभ्यां विशिष्टप्रत्ययः प्रत्यय: प्रथममेव लौकिकानां परीक्षयाऽस्तु व्यधिकरणाना[.] परि-पन्दाना[.][म] नवच्छे(ना)कतदा तदुपनायकमनुपा(मा)य परादिप्रत्ययाः कालविशिष्ट प्रत्यया इति व्यवहरन्ति / तपनपरिस्पन्दाश्च प्रथममेव प्रमाणसिद्धा: / तत्सम्बन्धस्तु लौकिकविशिष्टप्रत्ययेन सत्तया कारणम् अज्ञानतया यथा शुक्ल: पट इत्यत्र रूपविशिष्टप्रत्यये समवायो वैशिषिकाणां, नैयायिकानां च, अहं शरीरीति प्रत्यये अदृष्टरूपसम्बन्ध इति भावः / 1 रेकत्वे-जे. 1; जे. 2; जे. 3 / 2 नीतस्य-जे. 1; जे. 2: जे.३। 3 कालस्य लिङ्गम् जे. 1; जे.२; जे. 3 / 4 न्यथोन्यते - अ, ब; 5 परिशेषाद् -ड; 6 मभावस्वभावरूप - ड; 7 युवस्थविरयोः - भ, ब, क; 8 आरंभ-कं।