________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् 167 न्यायकन्दली इति चेत् ? सामग्रीभेदात्, वस्तुद्वयस्योत्पादसद्भावयोर्यदेकेन ज्ञानेन ग्रहणं तत्सहकारिणा कालेन परापरप्रत्ययौ जन्येते, भूयसामुत्पादव्यापारयोरेकग्रहणसहकारिणा युगपत्प्रत्ययः कार्यस्योत्पादविनाशयोरन्तर्वतिनां क्रियाक्षणानां भूयस्त्याल्पीयस्त्व'ग्रहणसहकारिणा चिरक्षिप्रप्रत्ययाविति यथासम्भवं वाच्यम् / ननु सत्तन्निबन्धन एवास्तु प्रत्ययभेदः कृतं कालेन ? न, असति तस्मिन् वस्तूत्पादाभावात् / न ताववत्यन्तसतो गगनस्योत्पादः, नाप्यत्यन्तासतो नरविषाणस्य, किन्तु प्रागसप्तः / कालासत्त्वे चाभावविशेषणस्य प्राकशब्दार्थस्याभावान्नायं विशेषः सिद्धयतीति न कस्यचिदुत्पत्तिः स्यात् / अप्रत्यक्षेण कालेन कथं विशिष्टा प्रतीतिरिति चेत् ? तत्राह कश्चित्-विशिष्टप्रत्ययस्योत्पत्ताविन्द्रियवत् . कारणत्वं कालस्य, न तु दण्डवद् विशेषणत्वमिति, तदप्यसारम्, 'बोधैकस्वभावस्य ज्ञानस्य विषयसम्बन्धमन्तरेण विशेषणान्तराभावात् / तस्मावश्य [टि०] नास्ति क्य प्रतियोगितेति वाच्यम, न तावत्तयोः सर्वथा सम्बन्धाभाषः किन्तु वर्तमानकाले एव सत्तासम्बन्धो नास्तीति कालस्तत्राप्यभ्युपगन्तव्य एव / नन्वत्र 'स्थित' इत्यत्र भूते 'क्तः' ततश्च स्थानं भूतमस्येति तस्य वर्तमानत्वसम्बन्धाभावादतीतत्वमेव प्रसज्यसे। न चोत्पन्नो घट इत्यादिव द वाच्यम्, तत्रापि विवादोदयात् / सत्यम्, स्थित इत्यत्र हि स्थीयमानताया एनातीतत्वं गम्यते यथा उत्पन्नो घट 'इत्यत्रोत्पद्यमानताया इति / वस्तुद्वयस्य इति :- यदकस्य वस्तुनः सदभावोऽन्येन ज्ञानेन गहीतो भवति, "दिनान्तरे चान्यस्योत्पादग्रहणं तदा 'एकेन' इति ज्ञातविशेषणम् / ज्ञानग्रहणयोस्तुल्यार्थत्वाद्, ‘ग्रहणं विषयोकरणं तत्र वस्तुनि ज्ञानव्यापारणमित्यर्थः / कालासत्त्वे च इति अभावस्य विशेषणं [पं०] कालसम्बन्धं विना विशेषान्तराणां नवपुराणादीनामभावात् / इदमुक्तं भवति न हि तावदिन्द्रियादीनां कारणानां कूत्रापि विषयत्वमिष्टम् / घटादीनामेव विषयत्वमिष्टम | विषयस्यैव विशेषणत्वं घटते, न कारणस्य / यदि कालस्य कारणस्वमिष्यते तदा न. प्रागसत इत्यत्र प्राक शब्दस्य कालरूपस्य विशेषणत्वं घटते / यदा विषयसंबन्धो भवति सदैव विशिष्टत्वमित्यतो वैशिष्टयं प्रत्ययस्य न घटते / ततः कारणादिदं व्योमशिवोक्तमुत्तरमसारमेव / तत्कारणतयेति-शरीरावस्थाः कार्याः, कालसंयोगः कारणम्, अन्यस्याभावात् / तयोरिति-युवस्थविरशरीरयोः / यथासुरभिचन्दनमिति-सूरभित्वं घ्राणग्राह्यम्, चन्दनं चक्षुर्गाह्यम / अघट भतलमिति-अघटत्वमभावप्रमाणग्रामं भूतलं [कु०] वस्तुद्वयस्येति (कं. 64.20) यद्यप्युत्पादमात्रापेक्षया तपनपरिस्पन्दप्रकर्षनिकर्षविषयिणी बद्धिमपेक्षमाणेन कालेन परत्वापरत्वम उत्पाद्य युवस्थविरयोः परापरप्रत्ययौ जन्येते तथा सिद्धावग्रहणपिण्ड विनाशे परत्वापरत्वयोरनुत्पत्तेः / भूयसामिति (कं. 64.22) एकसूर्यगत्यवच्छिन्नानेकोत्पादज्ञानसहकारिणा कालेन युगपत्प्रत्ययः पूर्वपूर्वोत्पादावच्छे दि]न / ननु तत्तनिबन्धन इति (कं. 64.24) असम्बद्धोऽपि तपनपरिस्पन्दः कुरव इव क्षेत्रं विषयमुपलक्षयतीति भावः / नायं विशेष इति (कं. 65.3) कुरवोऽपि प्राक्सम्बद्धा एव क्षेत्रमुपलक्षयन्तीति / अभावोऽपि सम्बद्धौरव ? (सम्बद्धयोरेव) तपनपरिस्पन्दैरवच्छिद्यते इति कालानाङ्गीकारे उपलक्षणीया उत्पादादयो न सिद्धयेयरिति भावः / अप्रत्यक्षेणेति (कं. 65.4) विशेषणज्ञाने सति विशिष्टप्रत्ययः तेन विशेषणानुमानमितीत रेत राश्रयत्वादिति भावः / १ल्पीयस्त्वसहकारिणा-जे. 1; जे. 3; .. सहकारिणां-जे.२। 2 तदसारम् -कं. 1, कं. 2 3 बोधस्वभावज्ञानस्य-जे. 1; जे. 2; बोधस्वभावस्य ज्ञानस्य-जे.३। 4 तद-ड; 5 इत्यत्र स्थीयमानताया-अ, ब, क; 6 इवोत्पद्यमानताया-अ, ब, क; 7 दिनान्तरं-अ, ब, क; 8 ग्रहण-अ, ब, क; 9 तत्तन्निमित्तनिबन्धन-कं.१, कं. 2 /