________________ 166 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली आदित्यपरिवर्तनाल्पीयस्त्वनिबन्धनो युवस्थ विपिण्डाभ्यां परापरव्यवहार इत्येके, तदयुक्तम्, आदित्यपरिवर्तनस्य युवस्थविरयोः सम्बन्धाभावादसम्बद्धस्य निमित्तत्वे चातिप्रसङ्गात् / [77] सहभावो योगपद्यमित्यपरे, तदप्यसङ्गतम्, कालानभ्युपगमसहार्थाभावात् / कस्याञ्चित् क्रियायां भावानामन्योन्यप्रतियोगित्वं सहार्थ इति चेन्न, अनुत्पन्नस्थितनिरुद्धानामन्योन्यप्रतियोगित्वाभावात् सहभवताञ्च प्रतियोगित्वे कालस्याप्रत्याख्यान'मेवेत्युक्तम् / एवमयुगपदादिप्रत्यया अपि समर्थनीयाः। कालस्याभेदात् कथं प्रत्ययभेद [टि०] प्रत्ययौ प्रति कालस्यापि कारणत्वात् / असम्बदस्य इतिः-ननु "यथाऽघटं भूतलमित्यत्र असम्बद्धोऽप्यभावो विशेषणं भवतीत्येवमिहापि भविष्यति ? न तत्रापि संयुक्तवत्प्रतिभासोऽस्ति, अत्र तु सर्वथा 'सम्बन्धाभाव एवेति / [77] कस्याचिद् इति :-प्रतियोगित्वं सम्बन्धित्वम् / नानुत्पन्ने इति :- यद्येवमन्योन्यप्रतियोगिता स्यात् तदा भविष्यवर्तमानविनष्टानां पदार्थानां परस्परापेक्षयाऽपि प्रतियोगिता स्यात् / न च भविष्यदतीतयोः सत्तासम्बन्धोऽपि [पं०] कश्चिदिति-व्योमशिवः / विशिष्टप्रत्ययस्येति-कालविशिष्टाभावप्रत्यययस्य / न तु दण्डादिवद्विशेषणत्वमिति-यथा दण्डीत्यत्र दण्डो विशेषणं दण्डी विशेष्यं तद्वन्नात्रेत्यर्थः / विषयसंबन्धमन्तरेण विशेषान्तराभावादिति-विषयस्य घटादेः [कु०] तपनसमवेतानां परत्वाद्याधारपिण्डप्राप्तिः स्वरूपेण सम्भवति / तस्मात् पटे महारजननी [रागरस्यैव पिण्डे तपनपरिस्पन्दस्योपनायकद्रव्य कल्पनीयम् / न च महारजनमिव स्वरागं तपन एवं स्वपरिस्पन्दमपनयति, अप्राप्तेः / अत एव न पृथिव्यादिकमन्यदपि मूर्त द्रव्यम[द्रव्यस्य ] संयोगिमा केनचिढ्ग्येण तपनपरिस्पन्द उपनेयः / न च विभुनाप्याकाशेनात्मना वा स उपनीयते, तयोः स्वसंयुक्तद्रव्यान्तरगतं धर्म स्वसंयुक्तद्रव्यान्तरे उपनेतुमशक्तौ। ह्येकस्यामभिहतायां [भेर्यां] सर्वासु भेरीषु दण्डसंयोगमुपनीयानेकशब्दमुत्पादयेत् / आत्मा च स्वसंयुतया यत्र क्वचिद्वर्तमानया जपदा सर्वानेव स्फटिकमणीनुपरञ्जयेत् / न च दिशोपनीयते तस्याः केवलं संयोगोपनायकतया कल्पितत्वम् / तस्मात्तदतिरिक्तं किञ्चिद्विभुद्रव्यं कल्पनीयम् / स काम इति महर्षिभिः परिभाषित इति / तदयं प्रमाणार्थः 'स्थविरादिपरत्वं तपनपरिस्पन्दप्रकर्षबुद्धिजन्यं, तदन्वयव्य तिरेकानुविधानात्, यद्यदन्वयव्यतिरेकानुविधायि तत्तज्जन्यं यथा कुविन्दानुविधायि कुविन्दजन्यः पटः / तपनपरिस्पन्दाश्च पिण्डप्रत्यासन्नाः तदवच्छेदकत्वात् पटावच्छेदकमहारजनरागवत् / सा च प्रत्यासत्तिव्यकृता द्रव्यान्तरसमवेतप्रत्यासत्तित्वात पटे महारजनरागप्रत्यासत्तिवदिति / [77] सहभावो योगपद्यमिति (कं. 64.16) यौगपाहि 'युगपद्भवन्ति' 'युगपदवतिष्ठन्ते' इत्येवमादिप्रत्यया जायन्ते ते कथं कालमनङ्गोकृत्य समर्थनीया इति भावः / 'कस्यां चिदिति (कं. 64.17) एकक्रियावच्छेदो हने केषां सहार्थः न चैककालसम्बन्ध इति भावः / नेति (कं. 64.18) या क्रिया व्यक्ता वा असहापि भवन्त्या एकजातीयया वा सहकभवन्त्या वा सम्बन्धः सहार्थः स्यात् ? आद्यस्तावदसम्भावी क्रियाया एकद्रव्यत्वात्, द्वितीये त्वतिप्रसङ्ग इत्याह अनुत्पन्नेति (कं. 64.18) / तृतीये सिद्धं नः समीहितमित्याह सह भवतामिति (कं. 64.18) / 1 स्थविरयोः- कं. 1, कं. 2 / 2 तदसङ्गतम्-कं. 1, कं. 2 / 3 ख्यानमित्युक्तम् - जे. 1; जे. 2; जे. 3 / 4 यथा पट-अ, ब; 5 सम्बद्धाभाव अ, ब; 6 तद्वत्तत्रे -म। . 'तस्यां चदिति' आदर्शपुस्तकपाठः /