________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 165 प्रशस्तपादभाष्यम् सर्वकार्याणाञ्चोत्पत्तिस्थितिविनाशहेतुस्तद्व्यपदेशात् / क्षणलवनिमेषकाष्ठाकलामुहूर्तयामाहोरात्रार्द्धमा समासर्वयनसंवत्सरयुगकल्पमन्वन्तरप्रलयमहाप्रलयव्यवहारहे'तुश्च / न्यायकन्दली युगपत्प्रत्ययोऽयुगपत्प्रत्ययश्च क्षिप्रप्रत्ययश्चिरप्रत्ययश्च काललिङ्गम् / ननु कालस्याप्रत्यक्षत्वात्तेन सह 'युगपदादिप्रत्ययानां व्याप्तिग्रहणाभावात् कुतो लिङ्गत्वमत आहतेषामिति / तेषां युगपदादिप्रत्ययानां विषयेषु द्रव्यादिषु पूर्वप्रत्ययविलक्षणानां द्रव्यादिप्रत्ययविलक्षणानामुत्पत्तावन्यस्य निमित्तस्याभावात् / एतदुक्तं भवति-द्रव्यादिषु विषयेषु पूर्वापरादिप्रत्यया जायन्ते, न चैषां द्रव्यादयो निमित्तं तत्प्रत्ययविलक्षणत्वात, न च निमितमन्तरेण कार्यस्योत्पत्तिरस्ति, तस्माद्यदत्र मिमित्तं स काल इति / [हिं०] ( / / अथ कालनिरूपणम् / / ) - [76] ['परापरे इति] ननु युगपदादिप्रत्ययामां कालं प्रति लिङ्गत्वं भवतु तेषां कालनिबन्धनत्वात् / [परापरप्रत्ययोस्तु कथं लिङ्गत्वम् ! तयोः परत्वापरत्वगुणनिबन्धनत्वात् / ] सत्यम्, परत्वापरस्वजन नद्वारेण [परापर] [पं०] मणेरुपरंजनप्रसंगः / अन्योन्यप्रतियोगित्वमिति परस्परं सहाख्यम् / अनुत्पन्नस्थितनिरुद्धानामिति-भविष्यद्वर्तमानातोतानाम् / वस्तुत्यस्येति युवस्थविररूपस्य / तत्सहकारिणेति = ग्रहणसहकारिणा / भूयसामुत्पादव्यापारयोरिति-युगपत्पद्यते-युगपत्कुर्वन्तीतिमत् / एकग्रहणसहकारिणेति / कालेन कथं विशिष्टा प्रतीतिरिति-कालः कथं विशेषणमित्यर्थः / [कु०] पदार्थादुत्कर्ष इत्यनेनाभिप्रायेण सङ्गतिमाह कालस्य निरूपणार्थमिति (कं. 64.6) / दिग्विशेषेति (कं. 64.6) अनियममात्रमभिप्रेत्यैतदुक्तं न नियमेन व्यत्ययमभिप्रेत्य कदाचिद्दिगपेक्षया परप्रत्ययविषये च कालापेक्षयापि परप्रत्ययसम्भवात् / द्रव्यादिप्रत्ययविलक्षणानामिति (कं. 64.11) अत्र यद्यपि परापरप्रत्यययोः परत्वापरत्वरूपगुणनिमित्ततया युगपदादिप्रत्ययानां च तपनपरिपस्पन्दविशेषावच्छिन्नकालपिण्डसंयोगरूपगुणनिमित्ततया च तद्व्यादिप्रत्ययविलक्षणत्वं तथापि तेषां गुणानां कालापेक्षितयेदमुक्तम् / ननु परापरप्रत्ययौ तपनपरिस्पन्दप्रकर्षनिकर्षान्वयादतिरेकानुविधायितया तावन्मात्रमपेक्षमाणौ न कालमनुमापयितुं शक्नुत इत्यभिप्रायेण शङ्कते आदित्येति (कं. 64.14) / समाधत्ते "तदयुक्तमिति (कं. 64.15) / अयमभिसन्धिः-यौ हि परापरप्रत्ययौ परत्वापरत्वगुणनि मत्तकौ तौ च गुणौ तपनपरिस्पन्दप्रकर्षनिकर्षावच्छेदविषयिणी बुद्धि निमित्तीकृत्योत्पद्यते इति गुणकाण्डे वक्ष्यते / तपनपरिस्पन्दाश्च नाप्राप्ताः पिण्डमवच्छिन्दन्ति, ततस्तत्प्राप्ति रपेक्षणीया। न च 1 कार्याणामुत्पत्ति-दे / 2 मासायन-दे। 3 हेतु:-कं; कि। 4 परापरादि-कं. 1, कं. 2 / 5 परापरेति प्रतीकमिदं सर्वेष्वपि पुस्तकेषु नास्ति / 6 प्रत्ययान्तानां-अ, ब, क; 7 [ ] एतच्चिह्नान्तर्गतः पाठः अ ब क पुस्तकेषु आवृत्तः। 8 जनद्वारेण-अ, ब; 9 अत्रापि 'परापर' इति पदेन भाव्यमर्थदृष्ट्या / 10 तदनयुक्तं आदर्शपुस्तकं /