________________ 164 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [76-77] कालः परापरव्यतिकर योगपद्यायोगपद्यचिरक्षिप्रप्रत्यय'लिङ्गः / तेषां विषयेषु पूर्वप्रत्ययविलक्षणानामुत्पत्तावन्यनिमित्ता'भावाद्यदत्र निमित्तं स कालः / न्यायकन्दली सुखदुःखानुभवस्तस्य प्रापकाभ्यां धर्माधर्माभ्यामुपनिबद्धः सहकृत इति / अयमर्थःयस्य बाीकैकेन्द्रिय ग्राह्यविशेषगुणग्राहक यदिन्द्रियं तत्तद्गुणकं यथा रूपग्राहक चक्षुरूपाधिकरणम् श्रोत्रञ्च तथाभूतस्य शब्दस्य ग्राहकं तस्मात्तदपि शब्दगुणकम् , शब्दश्चाकाशगुण इति निर्णीतम्, तेनाकाशमेव तावच्छोत्रं तच्च व्यापकमपि न सर्वत्र शब्दमुपलम्भयति प्राणिनामदृष्टवशेन कर्णशष्कुल्यधिष्ठाननियतस्यैव तस्येन्द्रियत्वात्, यथा सर्वगतत्वेऽप्यात्मनो देहप्रदेशे ज्ञातृत्वं नान्यत्र, शरीरस्योपभोगार्थत्वात्, अन्यथा तस्य वैयर्थ्यात् / नन्वेवमपि बधिरस्य शब्दोपलब्धिः स्यात् कर्णशष्कुलीसद्भावादत्राहतस्य चेति / तस्याकाशस्य नित्यत्वेऽप्युपनिबन्धकयोधर्माधर्मयोः सहकारिभूतयोर्वेकल्यादभावाद् बाधिर्यम् / इति शब्दः 'समाप्तौ / [76] कालस्य निरूपणार्थमाह-काल इति / दिविशेषापेक्षया यः परस्तस्मिन्नपर इति प्रत्ययः, यश्चापरस्तस्मिन् पर इति प्रत्ययः परापरयोर्व्यतिकरो व्यत्ययः / तथा च [पं०] समवायस्यापि द्रव्यत्वं स्यात् / - इत्यनाश्रितत्वमाश्रयैकस्वभावत्वं व्याख्येयम् / तेन संबंधाभावात् / सर्वेषामनाश्रयेण समवायेन न व्यभिचार इत्युदयनः / बाॉकेन्द्रियग्राह्यविशेषगुणस्येति - सुखादयो विशेषगुणा मनसा गृह्यन्ते / न च ते तस्य गुणाः / अतस्तद्व्यवच्छेदाय बाह्यग्रहणम् / बायैकेन्द्रियग्राह्यश्चासौ विशेषगुणश्च बाह्यकेन्द्रियग्राह्यविशेषगुणः / तस्येति समासः / क्वचित्त बाझै केंद्रियग्राह्यगुणविशेषस्येति पाठः / अर्थः स एव तत्तद्गुणकमिति-अत्र बहुव्रीहिः। प्रयोगश्चात्र-श्रोत्रेन्द्रियं शब्दगुणकम्, बाह्यकेन्द्रियग्राह्यगुणविशेषग्राहकत्वात् / तथाभूतस्य बाबकेन्द्रियग्राह्यस्य / / इत्याकाशद्रव्यम् / / 5 // - [76-77-78] पूर्वापरादिप्रत्यया इति-युगपदादिप्रत्यय इति च द्वौ पाठौ स्तः / तत्प्रत्ययविलक्षणत्वारिति / ति भूषणकारादयः / असंबद्धस्य निमित्तत्वे चातिप्रसंगारिति-अन्यथा 'काशीस्थितनीलेन पाटलिपुत्रस्थस्य [कु०] [76] अप्रत्यक्षद्रव्येष्वणुकार्यभावेन प्रत्यक्षद्रव्यसाधावयोः प्राथम्यं उपभोग्यगुणाश्रयतया नभसस्तदानन्तर्यम् उपभोग्यगुणनिमित्ततया च दिक्कालयोः निरूपितव्यम् / तयोरवधिनिरपेक्षतपनधर्मोपनादकतया[का]लस्य दिक्१ व्यतिकरयोगपद्यचिर - ता.। 2 यद्यपि सर्वेषु भाष्यादर्शषु 'दे' विहाय 'लिङ्गम्' इति पाठः तथापि सर्वासां टीकानां व्याख्यानुसारेण 'लिङ्ग' इत्येव पाठ: साधीयान्; 'दे' पुस्तके तु उपलभ्यते अतः स्वीकृतः / 3 सम्भवाद् - व्यो.। 4 ग्राह्यगुणविशेषस्य ग्राहक-जे. 1; जे. 2; जे. 3 / 5 भोगायतनत्वम्-जे. 1 जे. 3 / / 6 परिसमाप्तौ-जे. 2 / 7 तथा युगपत्प्रत्यय -जे. 1; जे. 2; जे. 3 / 8 अत्र लेखकेन गणनाय ग्रन्थान 1000 इति लिखितमस्ति / 9 काशीस्थेन नीलेन-म।