________________ टिप्पणपञ्जिकाकूसमोद्गमादिटीकात्रयोपेतम् न्यायकन्दली विभववचनात् परममहत्परिमाणमिति / द्रव्यत्वादावाकाशस्य परिमाणयोगित्वे सिद्धे “विभववान्महानाकाशः" इति सूत्रकारवचनात् परममहत्त्वमाकाशे सिद्धम् / यद्विभु तत्परममहद्यथात्मा विभु चाकाशं तस्मादेतदपि परममहत् / विभुत्वं सर्वगतत्वं तदाकाशस्य कुतः सिद्ध मिति चेत् ? सर्वत्र शब्दोत्पादात्, यद्याकाशं व्यापकं न भवति, तदा सर्वत्र शब्दोत्पत्तिन स्यात्, समवायिकारणाभावे कार्योत्पत्त्यभावात् / दिवि भुव्यन्तरिक्षे चोपजाताः शब्दा एकार्थसमवेताः शब्दत्वात् श्रूयमाणाद्यशब्दवत्, श्रूयमाणाद्यशब्दयोश्चैकार्थसमवायः कार्यकारणभावेन प्रत्येतव्यो व्यधिकरणस्यासमवायिकारणत्वाभावात् / 'शब्दकारणत्ववचनात् संयोगविभागाविति / “संयोगाद्विभागाच्छब्दाच्च शब्दस्य निष्पत्तिः" इति सूत्रेणाकाशगुणं शब्दं प्रति संयोगविभागौ कारणमित्युक्तम् / तेनाकाशे संयोगविभागौ सिद्धौ व्यधिकरणस्यासमवायिकारणत्वाभावात् / / अतो गुणवत्त्वादनाश्रितत्वाच्च द्रव्यम् / यत आकाशं गुणवद् अतो गुणवत्वाद् द्रव्यं घटादिवत्, न केवलं गुणवत्त्वादाकाशं द्रव्यमनाश्रितत्वाच्च द्रव्यं परमाणुवत् / समानासमानजातीयकारणा भावाच्च नित्यमिति / समानजातीयं समवायिकारणमसमानजातीयमसमवायिकारण निमित्तकारणञ्च तेषामभावान्नित्यम् / सर्वप्राणिनां शब्दोपलब्धौ निमित्तमिति / नन्वेवं सर्वेषां सर्वशब्दोपलब्धिराकाशस्य सर्वत्राविशेषादत आह-श्रोत्रभावेनेति / - किं पुनः श्री नत्राह - 'श्रोत्रं पुनरिति / श्रूयतेऽनेनेति श्रवणं श्रवणञ्च तद्विवरञ्चेति श्रवणविवरं तदेव संज्ञा यस्य नभोदेशस्य स नभोदेशः श्रोत्रम्, तत्पिधाने शब्दस्यानुपलम्भात् / तस्य विशेषणमाह-शब्दनिमित्तेत्यादिना / शब्दनिमित्त उपभोगः [पं०] पर्यायत्वादिति घट: कुम्भः इतिवत् / प्रतियोग्यनुसन्धानरहितस्येति / प्रतियोगीद्वितीयः / संबंधिपदार्थस्तदनुसंधानरहितस्य प्रमातुः / तयोरिति पृथकत्वैकत्वयोः। श्रयमाणाधशब्दवदिति श्रूयमाणोंत्यशब्दः, श्रूयमाणश्चाद्यश्च श्रूयमाणाधी च ती शब्दौ च श्रूयमाणाद्यशब्दाविव श्रूयमाणाद्यशब्दवदिति विग्रहः। व्यधिकरणस्यासमवायिकरणत्वाभावादिति पृथगाश्रयाश्रितस्यासमवायिकारणत्वं न भवति / यदाहुः - समवायिका रणप्रत्यासन्नमवधूतसामर्थ्यमसमवायिकारणम् / अनाश्रितत्वाच्चेति-अनाश्रितत्वमित्यसमवेतत्वव्याख्याने न परमाणोराकाशाश्रितत्वेऽपि द्रव्यत्वे सिद्धे 1 'विभवान्महानाकाशस्तथा चात्मा' इति वै. सूत्रम् (वै. सू. 7-1-22) / 2 शब्दकारणवचनात्-जे. 1; जे. 2; जे. 3 / 3 सूत्रकारेण - जे. 1, जे. 3 / 4 °त्वाच्च परमाणुवत् - कं. 1; कं. 2 / 5 भावात् नित्यमिति-जे. 1; जे. 2; ... जे. 3 / 6 इत्याह - जे. 1; जे. 3 /