________________ 162 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् 'सर्वप्राणिनां च शब्दोपलब्धौ निमित्तं श्रोत्रभावेन / श्रोत्रं पुनः 'श्रवणविवरसञ्जको नभोदेशः, शब्दनिमित्तोपभोगप्रापकधर्माधर्मोपनिबद्धः / तस्य च नित्यत्वे सत्युपनिबन्धक'वैकल्याद्वाधिर्यमिति / / न्यायकन्दली तवमुविधामावेकपृथक्त्वमिति / एकत्यानुविधाना देकपृथक्त्वम् / भस्ति चाकाशे भेवप्रतिपादकप्रमाणाभावात् सर्वसिद्धमेकत्वम्, तेन पृथक्त्वमपि सिद्ध मित्यर्थः / केचिद्वस्तुनो निजं स्वरूपमेवैकत्वम्, 'न तु सङ्खयाविशेष इत्याहुः / सेषामेको घट इति सहप्रयोगानुपपत्तिः पर्यायत्वात् / येऽपि पदार्थानां स्वाभाविकमेक पृथक्त्वमित्याहुः, तेषामपि प्रतियोग्यनुसन्धानरहितस्यैकत्वविकल्पवत् पृथक्त्वविकल्पोऽपि प्राप्नोति, न चैवं स्यात्, अयमस्मात् पृथगिति पृथक्त्वस्य विकल्पनात् / तस्मान्न तयोरेकत्वम् / [टि०] गुणसहितमेव चक्षुरादिवदिन्द्रियम्, इन्द्रियकार्यकारिविषयग्राहकमित्यर्थः / यथा चक्षुरादीनि स्वयमेकेन गुणेन गुणवन्ति, अन्यद् गुणान्तरं गृह्णन्ति तथा न."श्रोत्रं श्रोत्रस्य ग्राह्येणैव गुणेन गुणवत्वाद् इति भावः / अन्यथा तस्य इति :- तस्य शरीरस्य / / आकाशम् // [पं०] [75-4] ननु धारावाहिकज्ञाने प्रतिसंवेदनं भिन्ना एव क्षणा अवभासन्ते, तन्नेहेत्याह-प्रतिज्ञानं चेत्यादिना। उपायाभावे इति = फलाभावे। ग्यतिरेकोति "अन्वये दृष्टान्ताभावान्नान्वय इत्यर्थः / तेनरूपेणेति = तारतरादिरूपेण / एकस्मावप्याभयादिति- यथैकात्मसमवेतस्य प्रियप्रियतरादिविषयलक्षणनिमित्तकारणाभेददर्शनात्सुखस्य तारतमादिभेदः / तथाऽऽकाबालक्षणकाश्रयसमवेतस्य शब्दस्य तालोऽष्ट (ताल्वोष्ट) पुटादिनिमित्तकारणभेददर्शनात्तारतरादिभेदः संभवतीत्यर्थः / केचिदिति "भूषणकाराः / एको घट इति सहप्रयोगानुपपत्तिरिति / घट इत्यनेनैव स्वरूपस्य गतत्वात् / नन्वाकाशस्य श्रोत्रत्वे सिद्धे "सत्येवं स्यात्तदेव कुतः सिद्ध "अयमस्यार्थ इति (कं. 6-3.5) अयं प्रयोगः / शब्दो गुणत्वावान्तरजात्या स्वसमानजातीयगुणवतेन्द्रियेण गृह्यते बाह्य केन्द्रियग्राह्यगुणत्वाद्रूपवत् / एवमाकाशस्य श्रोत्रत्वं प्रसाध्य भाष्यस्य योविशेषणयोः प्रयोजनं दर्शयति तच्चेति (कं. 63.8) / "नन्वेवं तीति (कं. 63.10) कर्णशष्कुल्युस्पादभागे अदृष्टव्यापार इत्यभिप्राय: शखितः। तस्येति (कं. 63.12) परिहारभाष्यम् / कार्यपर्यन्तो व्यापारो धर्माधर्मयोरित्यभिप्रायेण व्याचष्टे तस्येति / उपलक्षणं चैतत वातादिना कर्णशम्कूल्युपधानेऽपि चिकित्सानिवर्त्यबाधिर्यदर्शनात् / 1 सर्वप्राणिनां च-कं. 1; क. 2, कि.। 2 श्रवणको-दे। 3 वैकल्ये-दे। 4 पथकत्वम्-जे.१; मे. २;जे 3 / 5 उत्सर्गसिद्धम् -जे. 1; जे. 2; जे. 3 / 6 न-जे. 1, जे. 3, न च-जे. 2 / 7 पृथकत्व-जे.१; जे.२; जे. 3 / 8 गुणंवन्ति -अ, ब; 9 गणन्तरं - अ, ब, 10 न श्रोत्रस्य ग्राह्येणैव - अ, ब; न श्रोत्रं ग्राह्येणैव -क / 11 अन्वयदृष्टान्ताभावान्ना० म। 12 दूषणकाराः-अ; 13 भादर्शपुस्तके तु 'सत्येवं स्यां तदेवक्तुतः सिद्धच् इति पठ्यते किन्तु अर्थदृष्टया यच्छुदं तदेवास्माभिः स्थापितम् / भ्रष्टपाठस्तु लेखकदोषादापातितः / 14 अयमर्थ -कं. 1 / 15 भाष्यस्तु-कं. आदर्शपुस्तके। 16 नन्वेवमपि-कं. 1 /