________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् 161 प्रशस्तपादभाष्यम् [75-4] शब्दलिङ्गाविषेशादेकत्वं सिद्धम् / तदनुवि'धानादेकपृथक्त्वम् / विभववचनात् परममहत्परिमाणम् / शब्द'कारणत्ववचनात् संयोगविभागाविति / अतो गुणवत्त्वादनाश्रितत्वाच्च द्रव्यम्। समानासमानजातीयकारणाभावाच्च नित्यम् / न्यायकन्दली परिशेषादाकाशस्याधिगमे प्रतिपत्तौ लिङ्गमित्यर्थनिर्देशः। प्रयोगः पुनरेवं द्रव्यान्तरगुणः शब्दो गुणत्वे सति पृथिव्याद्यष्टद्रव्यानाश्रितत्वाद् यस्तु द्रग्याम्तरगुणो न भवति नासो गुणत्वे सति पृथिव्याद्यष्टद्रव्यानाश्रितो यथा रूपाविरिति व्यतिरेको / [75-अ] सद्भावप्रतिपादकादेव प्रमाणादाकाशस्य शब्दगुणत्वं तावत् प्रतीतम् / सम्प्रति सङ्घयादि'गुणस्वप्रतिपावनार्थमाह-शब्दलिङ्गाविशेषाविति / 'शब्दो हि लिङ्गमाकाशस्य शब्दश्च सर्वत्राविशिष्ट एक इत्येकरूपमेवाकाशं सिवयति, भेदप्रतिपादकप्रमाणाभावादित्यर्थः / नन शब्दोऽपि तारतरादिरूपेण विविध एव ? सत्यम्, न तु सेन रूपेणास्य लिङ्गता, किन्तु गणत्वेन, तच्चाविशिष्टं नाश्रयभेवावगमाय प्रभवति, एकस्मावप्याश्रयात् कारणभेदेन 'तारतरादिभेवस्य शब्दस्योत्पत्त्यविरोधात् / / [टि०] साध्यवेकल्यापत्तेः। न हि ग्राह्यस्य घटादेरेव रूपं चक्षुष्यस्ति, किन्तु "रूपत्वसामान्यालिङ्गितत्वेम "तज्जातीयं रूपं गुणव्यक्त्यन्तरं तस्य तेजसत्वात् / सत्यम्, अत्र विशेषाविवक्षया ग्राह्यगुणजात्यालिङ्गितगुणवत्त्वं तद्गुणकत्वमिष्टं, "तच्च स्वसमवेतशब्दग्राहिणोऽपि श्रोत्रस्यास्त्येव, श्रोत्रसमवे"तस्यापि शब्दजात्यालिङ्गितस्य ग्राह्यत्वादिति / नन यदि श्रोत्रं सगुणं तर्हि घ्राणेन्द्रियव्याख्यावसरे कथमुक्तं श्रोत्रं तु न सगुणमिन्द्रियमिति? सत्यम् ; तत्र न" सगुणं [कु०] समानजातीयमिति (कं. 62.25) यद्यपि कारणाभावान्नित्यसाधू [क्तम्] नह्यकार्यत्वनित्यकारणत्वयोर्व्याप्ती कश्चित्प्रतिमल्लः, तथाप्यकारणमेव कथमिति जिज्ञासायां कारणभेदोपवर्णनम् / तत्र भेदाभावात् समवायिकारणाभावः / तदभावादितरकारणाभाव इति सूव्यक्तमित्यर्थः / "सर्वशब्दोपलब्धिः स्यादिति (कं. 62.27) कर्णशष्कुलीमप्रत्यासीदतामपि शब्दानामुपलब्धिः स्यादित्यर्थः / श्रूयतेऽने[ने]ति (कं. 63.1) शब्दोपलब्धिलक्षण कार्ये कों नेयः कर्णशष्कुल्य. वच्छिन्नो नभोदेशः श्रोत्रमित्यर्थः / ननु स बधिरस्याप्यस्तीत्यत आह-विशेषणमिति (कं. 63.3) / 1 विधानात्पृथक्त्वम् - कि. ता.। 2 कारणवचनात् -दे. ता.। 3 गुणप्रतिपादनार्थ-जे. 1; जे. 2 / 4 शब्दोलिङ्ग-कं. 1, कं. 2 / 5 एकमेवाकाशं -जे. 1; जे. 2; जे. 3 / 6 तरतरादिरूपेण-जे. 1; तरतमादिरूपेण-जे. 3 / 7 तत्त्वविशिष्टं-जे. 1 / 8 तरतमादिभेदस्य--जे. 1; जे. 2; जे. 3 / 9 चक्षुम्वस्ति - अ, ब, 10 रूपत्वे - अ, ब, 11 तज्जातीयं रूपं गुणं-ड; 12 तत्वसमधिगत - अ, ब, क; 13 तस्या-अ, ब, क; 14 न, न,-अ, ब, क; 15 सर्वशब्दोपलब्धिराकाशस्य-कं. 1, / 21