________________ 160 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली तस्यैव साधकतमत्वात् / अन्यथा धारावाहिक 'जानमप्रमाणं स्यात्, 'विषयस्यानतिरेकात् / प्रतिज्ञानञ्च कालक्षणानामतिसूक्ष्माणामप्रतिभासनात् / न चैवं सत्यनवस्था, 'उपयोगाभावे सति विरामादित्यलम् / [75] ननु यदि नाम पृथिव्यादिद्रव्याष्टकगुणः शब्दो न भवति तथाप्याकाशस्य सद्भावे किमायातम् ? तत्राह-परिशेषादिति / गुणः शब्दः, गुणश्च गुणिना विना न भवति, म चैष पृथिव्यादीनां गुणः, द्रव्यान्तरञ्च नास्ति, तस्माद्यस्यायं गुणस्तवाकाशमिति [टि.] [25] गुणः शब्द इति :- शब्दो गुणः, सामान्यविशेष[व]त्वे सति अस्मदादिबाबकेन्द्रियग्राह्य जातीयत्वाद् रूपवद् इति गुण त्वसिद्धिः। अत्र सामान्यविशेषत्वे सतीति रूपत्वेन व्यभिचारवारणार्थम / 'अस्मदादि' इति योगिष्वसिद्धिवारणार्थम 'बाह्येति मनोव्यवच्छेदेनासिद्धिवारणार्थम, एकेति प्रत्यक्षद्रव्यव्यवच्छेदार्थम, तेषांहीन्द्रियग्रामत्वात् / न च द्वीन्द्रिय ग्राह्य एकेन्द्रियग्राह्य त्वमप्यस्तीति व्यभिचार:, एकशब्दस्यावधारणार्थपरत्वात् अन्यथा व्यवच्छेद्याभावाद एकग्रहणवैययं स्यादिति / जातीयग्रहणं दीपप्रभादिव्यवच्छेदार्थम, तेषां स्वयमेकेन्द्रियग्राह्यत्वेऽपि तज्जातीयस्य तेजोऽन्तरस्य द्वीन्द्रियग्राह्यत्वात / व्यधिकरणस्य इति:-"समवायिकारणकार्यसम"वायसमवायिकारणसमवायलक्षणप्र"त्यासत्तिद्वयाभावेन समवायिकारणप्रत्यासत्यभावात् / अनाश्रितत्वाद् इति-समवायोऽप्यनाश्रितो भवतीत्यनैकान्तिकस्वं स्यादिति / अनाश्रितत्वाद् इति आश्रयकस्वभावत्वादित्यर्थो "व्याख्येयः। यस्य बाहीकेन्द्रियग्रा ह्येति:ननु "ग्राह्यजातीयगुणव्यक्त्यन्त रवत्त्वं "तद्गुणकत्वं वा? ग्राह्यगुणवत्त्वं वा? नाद्यः, पक्ष एवासिद्धेः, न हि श्रोत्रं ग्राह्य “जातीयगुणव्यक्त्त्यन्तर"वत्, किन्तु "ग्राह्यणव गुणेन गुणवतस्तस्य स्वसमवेतग्राहकत्वात्, न द्वितीयः; दृष्टान्तस्य [कु०] [75] सर्वत्राविशिष्ट इति (कं. 62.1) आश्रयभेदप्रतिपादनौपयिकवैशिष्ट्यरक्षित इत्यर्थः / ननु शब्दोपीति (कं. 62.2) तास्तारतरादयः शब्दा भिन्नाः तारतम्यत्वात् शुक्मशुक्लतरादि[वदि] त्याश्रयभेदसिद्धाबाकाशनानात्वं सिद्धमिति भावः / एकस्मादिति (कं. 62.4) तीव्रमन्दाद्यभिघातादिनिमित्तत्वात्कारणतारतम्यान्वयव्यतिरेकानुविधायितया तारतम्यवन्तोऽपि शब्दा नाश्रयभेद प्रसाधयितुमीशत इति भावः / तस्मान्न तयोरेकत्वमिति (कं. 62.11) प्रतीतिमेदादेकत्वैकपृथक्त्वे परस्परभिन्ने इत्यर्थः / ननु सूत्रप्रमाणव्युत्पादनं न त्वागमः इत्यतः प्रमाणं दर्शयति यद्विम्विति (कं. 62.13) / श्रूयमाणाद्यशब्दवदिति (कं. 62.17) श्रयमाणशब्दस्यासमवायिकारणशन्दवदित्यनुसन्धेयम / यथाश्रते तु कार्यकारणभावेन प्रत्येतव्यमिति (कं. 62.18) वक्ष्यमाणमसम्बद्धं स्यात् / नत्वेकसन्तानवतित्वमुपाधिर्भविष्यति तत्कथं व्यापकत्वम् / न च नसोभेदे प्रमाणाभावादनुपाधित्वम, इतरेतराश्रयत्वापत्तः, एकत्वेऽनुपाधित्वमनपाधित्वे चकत्वमिति / तदेतदयुतं यद्याकाशं प्रतिशब्दसन्तानं भिन्नमविभु च स्या तदा [sका शापरिमाणं भवेन्मध्यमपरिमाणं वा; आये शब्दस्याप्रत्ययत्वप्रसङ्गः, द्वितीये च मध्यमपरिमाणद्रव्यस्य नियमेन कार्यत्वादस्पर्शद्रव्यस्य अन्यथा समवायेन व्यभिचार: स्यात् / 1 विज्ञानं-जे. 1; जे. 2; जे.३। 2 विषयानतिरेकात -जे. 1; जे. 2; जे. 3 / / 3 उपायाभावे - कं. 1; कं. 2 / 4 जातीयतीयत्वाद् -अ; 5 गुणसिद्धिः-अ; 6 सामान्यत्वे - अ, ब, क; 7 ग्राह्ये-ड; 8 ग्राह्यमप्यस्तीति - अ, ब, 9 धारणपरत्वात् - अ, ब, क; 10 समवाय-अ, ब, क; 11 समवायकारणअ, ब, क; 12 प्रत्यासत्यभावात्-अ, ब; प्रत्यासत्तिद्वयाभावेन समवायिप्रत्यासत्त्यभावात-क,ड; 13 समवाये - अ, ब, 14 व्याख्याय -अ, ब; 15 ग्राह्यणेति- अ, ब, क; 16 जात्य - ड; 17 तद्गुणकत्वं अबपुस्तकयोर्नास्ति / 18 जातीयक-ड; 19 वता-अ; 20 ग्राह्ये गुणव -अ, ब; ग्राह्येनैव -3;