________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटोकात्रयोपेतम् 159 न्यायकन्दली (74] नन्वेकस्मिन्नर्थेऽनेकसाधनोपन्यासो व्यर्थः, एकेनैव तदर्थपरिच्छेदस्य कृतत्वादिति चेत् ? किमेकप्रमाणावसिते प्रमाणान्तरवैयर्थ्य फलाभावात् ? पुरुषेणानपेक्षितत्वाद्वा ? न तावत् फलं नास्ति पूर्ववदुत्तरत्रापि तदर्थप्रतीतिभावात् / नापि पुरुषस्यानपेक्षा सर्वत्र। यत्रातिशयविषयमाधुर्यात् प्रत्यनुभवं सुखोत्पत्तिः, तत्र दृष्टेऽपि पुनः पुनदर्शनाकाङक्षा भवत्येव यथाऽत्यन्तप्रियपुत्रादौ / यत्र त्वनपेक्षा तत्रापि पूर्ववदुत्तरस्यापि कारणसद्भावे सति प्रवृत्तस्य न वैयर्थ्यम्, तद्विषयपरिच्छेदेनैवार्थेनार्थवत्त्वात / पिष्टपेषणे त्वशक्तभङ्गताप्राप्तौ फलमेव न भवति / अन्यदपि 'प्रमाणं विषयपरिच्छेदमात्रमेवार्थक्रियाया विषयसाध्यत्वात् / एकपरिच्छिन्ने द्वितीयस्य साधकतमत्वाभाव इति चेत् ? न स्वकार्ये टि०] [74] नन्वेकस्मिन् इति “एकैकेनैवानुमानेनेतरद्रव्याष्टकव्यवच्छेदसिद्धावन्येषां वैयर्थ्यम / ननु 'विषयाणामनतिरेको न वाच्यः / न वनवकालक्षणोपाध्यवच्छिन्नस्य प्रतिज्ञानं नवनवस्य विषयस्य प्रतिभासनात् अत आह -प्रतिज्ञानं च इति / नन तो विरामप्रसङ्ग इत्याह न चैवं सति इति / चक्षुरादिव्यापाराभावे स्वयमेव विरामात / [कु०] [74] 'अनधिगतार्थगन्तृ-प्रमाणम्' इति विषयेषु प्रमाणानां व्यवस्थां वदतो मीमांसकानुत्थापयति मन्विति (कं. 61.6) यत्र त्वनपेक्षेति (कं. 61.11) तथा सत्यनपेक्षिते विषये ज्ञानमेव स्यात् किन्तु सामग्री सा च पूर्ववदुत्तरेषामपि अविशिष्टा / अर्थश्च सर्वेषां प्रमितिरेव अतो न वैयर्थ्यमिति भावः / पिष्टपेषणन्यायेनेति नीयते ज्ञायते [1] त्यनेनार्थ इति न्यायो दृष्टान्तः / यथा पिष्टं न पिष्यते तथा प्रमितं न प्रमातव्यमिति भावः / वैषम्यं दर्शयति-पिष्टपेषणे स्विति (कं. 61.13) दृष्टान्ते सामग्रीविरहा त]-तदेकदेशस्य योग्यकर्मणा विरहात् इह तु प्रमाणसामग्रीसमस्ताऽस्त्येवेति भावः / * ननु विषयं ज्ञापयत्पमाणमर्थक्रियां निवर्तयति तस्या प्रथमेन निवतिताया द्वितीयेन किं श्रिया इति पिष्टपेषणन्यायस्तदवस्थ एवेत्यत आह अन्यदपीति (कं. 61.14) / निष्पादितक्रिये कर्मणि साधनस्य माधनन्य यातिपात इत्यभिप्रायेण इष्यते एकपरिच्छिन्न इति (कं. 61.14) / [परि हरति नेति (कं. 61.15) / प्रतिप्रमाणं भिन्ना एव प्रमितयः तत्रस्थस्य स्वस्यां प्रमितो सर्वमपि साधकतममेवेति भावः / नन्वधिगतार्थमात्रगोचरत्वेन स्मृतिवदप्रामाण्यं कुतो न स्यादित्यत आह-अन्यथेति (कं. 61.16) / अधिगतार्थविषयत्वाद्वितीय [म] प्रमाणमिति बदन् प्रष्टव्यो जायते अप्रमाणमिति किमयथार्थमुच्यते? अधिगतार्थमिति वा? आद्ये प्रत्यक्षविरोधः यथार्थमेवेत्यनुग्यवसायात् / द्वितीये सिद्धसाधनं साधनं साध्यसमं च / स्मृतेस्तु सबपि यथार्थत्वं पूर्वानुभवबलायाते सत्साधनं च महर्षिभिः प्रमाणेषु न परिसङ्यानम् / द्वितीयप्रभृतीनां तु स्वतन्त्रेणैव यथार्थत्वमिति विशेष इति भावः / उपायाभावे सतीति (कं. 61.18) विषयान्तरसंचारस्तावदृश्यते / ततश्च धारावाहिकविज्ञानानां विरमेण तत्करणविरामोऽपि कल्पनीय इति भावः / गुणः शब्द इति (कं. 61.20) अस्पर्श [व]त्वे सति सामान्यवतामनाधारत्वादिति वा इति शेषः / 1 °तिशयमाधुर्यात् - कं. 1; कं. 2 / 2 नास्तीति - जे. 1; जे. 2; जे / 4 एकत्व-जे. 2 / 5 एकैकानुमानेन-अ, ब, क; 6 विशेषयाणा-अ, ब ८न च न च सा-अ, नवनवसा-43 3 प्रमाण - कं. 1; कं. 2 / 7 न च न च - अ, ब;