________________ 158 न्यायकन्दलीसंवलितप्रशस्तपावभाष्यम् भ्यायकन्दली अहमितिप्रत्ययेन, विभक्तस्य व्यधिकरणस्य ग्रहणात्, यः खल्वात्मगुणः सोऽहङ्कारसमानाधिकरणो गृह्यते, यथा सुख्यहं दुःख्यहमिति, न त्वेवं 'शब्दस्य ग्रहणमतो नात्मगुणः / प्रियवागहमिति व्यपदेशोऽस्तीति चेत् ? सत्यम्, किन्तु तदधिष्ठानशीलतया न तु 'तद्गुणाधिक गत्वेन, मृदङ्गादिशब्देषु तथा प्रतीत्यभावात् / [73] अस्तु तहि दिशः कालस्य मनसो गुणस्तत्राह-श्रोत्रग्राह्यत्वादिति / किमुक्तं स्यात् ? ये दिक्कालमनसामुभयवादिसिद्धाः 'संयोगादयो गुणास्ते श्रोत्रग्राह्या न भवन्ति, अयन्तु तद्ग्राह्यस्तस्मान्न तद्गृणः। दिक्कालमनसां विशेषगुणो नास्ति, अयन्तु विशेषगुण इतोऽपि तेषां न भवतीत्याह-वैशेषिकगुणभावाच्चेति / शब्दो दिक्कालमनसां गुणो न भवति विशेषगुणत्वात् सुखादिवदिति प्रयोगः / [पं०] [73-75] तेषां न भवतीति = तेषां संबंधी न भवतीत्यर्थः / उत्तरत्रापीति = उत्तरसाधनेऽपि / तस्यैवेति = द्वितीयज्ञानस्यैव / [फु०] पटगतरूपाणामनेकप्रतिपतृप्रत्यक्षाणां 'तन्त्वादिकारणपरंपरया एतपरमाणुरूपादिमूलत्वेन वायूपनीतानां कुसुमादिसौरभाणामप्येवं रूपत्वेन हेतोः सपक्षेऽपि सत्त्वात् / एवंभूतस्यात्मगुणत्वे रूपादयोऽप्यात्मगुणा भवेयुरिति भावः / आत्मगुणवैधादिति (कं. 60.23) अनात्मगुणसाधाच्चेति शेषः / बहिर्मुखतयाप्रतीतेरिति (कं. 60.24) प्राच्योऽयं प्रतीच्योऽयमिति शरीरा वच्छिन्नदेशसम्बन्धितया प्रतीले गासिद्धिमाशङ्कय परिहति प्रियवागहमिति (कं. 60.28) सामानाधिकरणप्रतीतिसाम्येऽपि सुखे समवायित्वं वाचितुमिति [चे] न त्वमिति विशेषः, कुत इत्याह मृदङ्गादिशब्देष्विति (कं. 61.1) / वाग्नात्मसमवेता शब्दत्वान्मृदङ्गध्वनिवदित्यनुमानादि[ति] भावः / [73] ननु शब्दस्य दिक्कालमनोगुणत्वाभावे साध्ये श्रोत्रग्राह्यत्वादित्यसाधारणो हेतुरतद्गुणतया सपक्षाद्रूपादेरपि ब्यावृत्तत्वादित्याशयवान् पृच्छति किमुक्तं स्यादिति (कं. 61.3) / उत्तरमाह ये दिक्कालमनसामिति (कं. 61.3) अयमभिसन्धिः श्रोत्रग्राह्यत्वादित्येकेन्द्रियजातीयमुपलक्षयति तस्मादेवंप्रयोगः शब्दो दिक्कालमनोगुणो न भवति एकेन्द्रियग्राह्मजातीयत्वाद् गन्धादिवदिति / यथाश्रुतं भाष्यं ब्यधिक [२]णमित्यन्यथा प्रयोगमा [र] चयति शब्द इति (कं. 61.6) / १शब्दग्रहणम्-जे. 1; जे. 3 / 2 तदधिकरणत्वेन-जे.१; जे.२; जे. 3 / 3 संयोगादयस्ते-कं.१; कं. 2 / 4 तंतांवोदि इति प्रामादिकः पाठः लेखकदोषात् / 5 वच्छीन्नदेशः सम्बन्धिः तयोः इत्यशुद्धः पाठः लेखकदोषात् /