________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् 157 न्यायकन्दली ग्रहणमस्ति, अतिप्रसङ्गात् / तस्माच्छङ्घादिगुणत्वे शब्दस्यानुपलब्धिरेव / अस्ति च तदुपलब्धिः, सैव तस्य द्रव्यान्तरगुणत्वं साधयति, यस्मिन्नन्तरालव्यापिनि शब्दस्य शब्दान्तरारम्भक्रमेण श्रोत्रप्रत्यासन्नस्य ग्रहणं स्यात् / [72] आत्मगुणनिषेधार्थमाह-बाह्येन्द्रियप्रत्यक्षत्वादिति / श्रोत्रं तावद् बाह्येन्द्रियं नियमेन बाह्यार्थप्रकाशकत्वाच्चक्षुर्वत्, तद्ग्राह्यश्च शब्दस्तत्प्रतीतेस्तद्भावभावित्वात् / यस्तु बाह्येन्द्रियाग्राह्यो नासावात्मगुणो यथा रूपादिः, तस्मादयमपि न तद्गुण इत्यर्थः / इतोऽपि शब्दो नात्मगुण आत्मान्तरग्राह्यत्वादनेकप्रतिपतृसाधारणत्वादित्यर्थः / या खलु वीणावेण्वादिजा शब्दव्यक्तिः सन्ततिद्वारेणकेन पुरुषेण प्रतीयते सैवापरेणापि तद्देशत्तिना प्रतीयते, न त्वेवं सुखादिरित्यात्मगुणवैधान्नात्मगुणः / आत्मन्यसमवायादपि शब्दो नात्मगुणः रूपादिवत् / आत्मन्यसमवायस्तस्यासिद्ध इति चेत् ? न, रूपादिवद् बहिर्मुखतया प्रतीतेरात्मगुणानाञ्चान्तरत्वेनावगमात् / 'इतश्च नायमात्मगुणः-अहङ्कारेण [टि[ [72-73] श्रोत्रं तावद् इति:-नियमेनेति मनोव्यवच्छेदार्थम् / आत्मान्तरग्राह्यत्वाद् इति: प्रत्यक्षत्वादित्यर्थ., भन्यथा सुखादिप्रतिपत्तिरपि मुखविकासाद्यनुमानादनेकस्यापि प्रति पत्तुरस्तीत्यनकान्तिकता स्यात् / [पं०] किमपि द्रव्यमारभ्यते तदसत् / कुत इत्याह-शङ्कारब्धस्य च द्रव्यस्येत्यादि शङ्खारब्धस्येति कोऽर्थः ? शब्दस्य स्वाश्रयः शङ्खादिस्तदारब्धस्य / अयमत्र वाक्यभावार्थः / तथा तच्चारब्धे पटे तन्तुरूपेण पटे रूपमारभ्यते / तथा यदि शोनान्तराले प्रारब्धं स्यात् / तदा शङ्खशब्देन तत्र द्रव्ये शब्दे आरभ्यते / न चान्तराले द्रव्यारंभकोऽप्यस्ति / सैवेति- शब्दोपलब्धिरेव / तस्येति शब्दस्य / . . [72] यस्मिन्निति = द्रव्यान्तरे / ग्राह्य इति = श्रोत्रग्राह्यः / तत्प्रतीतिरेति = शब्दप्रतीते: / तद्भावभाविस्वादिति = श्रोत्रभावभावित्वात् / संततिद्वारेणेति = जलतरंगन्यायेन / तदभिधानशीलतयेति-प्रियवागभिधानशीलतया / तथाप्रणीत्यभावादिति-प्रियवागभिधानशीलताप्रतीत्यभावात् / तद्ग्राह्य इति = श्रोत्रग्राह्यः / [कु०] [72] ननु बाह्यगुणत्वमनात्मगुणग्राहकेन्द्रियग्राह्यत्वात् तथा च शब्दस्यानात्मगुणत्वे श्रोत्रस्य तद्ग्राहकस्य बाह्येन्द्रियत्वं तत्सिद्धौ शब्दस्य बाह्यन्द्रियग्राह्यत्वं तेनानात्मगुणत्वमिति चक्रकमित्यत आह श्रोत्रं तावदिति (कं. 60.17) / नियमेन बाह्यार्थप्रकाशकत्वादिति (कं. 60.18) नियतविषयत्वादित्यर्थः / न चानेकप्रतिपत्तसाधारणत्वं सन्दिग्धासिद्धम्, सर्वोऽपि स्वकर्णशष्कुली विवरवतिनो भिन्नामेव शब्दाद् गृहणाति उतैकामेवेति सन्देहात् / अथ भेर्यादिवृत्तित्वे प्रतिषिद्धे वीचीतरङ्गादिना न्यायेनानेकेषामप्येकत्वानुमानेनानेकप्रतिपतृसाधारणत्वमिति चेत्, एवं तीनेकानुमातृसाधारणत्वं ह्यर्थः स्यात्, तथा च सुखादिना (व्यदिना) व्यभिचार इत्यर्थः / अत आह या खल्विति (कं. 60.21) / तथा चानेकप्रतिपतृप्रत्यक्षत्वे सति सन्तानद्वारणकमूलत्वं हेत्वर्थ इति न व्यभिचारः / नाप्यसाधारणत्वं 1 इतश्चायं नात्मगुणः-जे. 1; जे. 2; जे. 3 / 2 मुखादि-अ, ब; 3 पत्तरपि मुस्तिरस्ती ( ) अ, -दनेकस्य प्रतिपत्तिरस्ति - ब, क;