________________ 156 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली दुरे कर्णशष्कुलीदेशे समुपलभ्यते, न चान्यगुणस्यान्यत्र ग्रहणमस्ति, तस्मान्न स्पर्शवद्विशेषगणः। ननु शङ्खादिदेशस्थित एव शब्दो गृह्यते, इन्द्रियाणामासंसारमण्डलव्यापित्वादिति चेन्न, संनिकृष्टविप्रकृष्टयोरविशेषेणोपलब्धिः स्यात् / व्यापकत्वेऽपीन्द्रियाणां पुरुषार्थेन हेतुना क्षोभ्यमाणानां यदधिष्ठानदेशेभ्यो विषयग्रहणानुगुणवृत्तयो निर्गता विषयं विश्नवते तदा विषयग्रहणस्य भावान्नाव्यवस्थेति चेत् ? विषयग्रहणार्थानीन्द्रियाणि, विषयग्रहणम्चतिनिबन्धनम्, वृत्तय एवेन्द्रियाणि तदन्येषामनुपयोगाग्निःप्रमाणकत्वाच्च। म च श्रोत्रवृत्तिविषय वेशं गत्वाऽर्थमुपलभसे, चाक्षुषप्रतीताविव शब्देऽपि दिक्सन्देहानुपपत्तिप्रसङ्गात् / नापि स्वाश्रयं परित्यज्य गुणस्यागमनमस्ति, न च शङ्कत्तिना सेनान्तराले शब्द आरब्धव्यः, स्पर्शवद्विशेषगुणस्य स्वाश्रयारब्धे द्रव्ये विशेषगुणान्तरारम्भवर्शनात्, शङ्खारब्धस्य च द्रव्यस्य शङ्खश्रोत्रयोरन्तरालेऽनुपलम्भात् / न चाप्राप्तस्य [पं०] अत्रापीति-यावद्दव्यभावित्वेऽपि / सांख्यः प्राह-ननु शङ्खादीति / पर: व्यापकत्वे इत्यादि / ['पुरुषार्थेन हेतुनेति षार्थो हि सांख्यानां मते प्रयोजकः / “पुरुषार्थ एव हेतुर्न केनचित्कार्यते करणम् / " [सां. का. 31] - इति वचनात / ] पुरुषार्थशब्देनादष्टमच्यते / क्षोभ्यमाणानामिति -प्रेर्यमाणानाम / व्यश्नवते इति विशेषणव्याप्नवन्ति / निष्प्रमाणकत्वाच्चेति- इन्द्रियाणां हि प्रमाणत्वं विषयग्रहणं तच्च वृत्तिभिरेव कृतम् / अतस्तानि निष्प्रमाणानि / तेनेति - शब्देन / स्पर्शवद्विशेषगुणस्येति - स्पर्शवतो द्रव्यस्य पृथिव्यादेविशेषगुणो गन्धादिस्तस्य स्पर्शवद्विशेषगुणस्य / स्वाश्रयारब्धे द्रव्ये इति-गन्धाद्याश्रय पार्थिवादिपरमाण्वारब्धे घटादौ / विशेषगुणान्तरारम्भदर्शनादिति स्पर्शवद्विशेषगुणेन गुणान्तरमारभ्यते इत्यर्थः / दृश्यते ह्येतत् / स्पर्शवन्तस्तन्तवस्तेषां विशेषगुणो रूपं तस्य स्वकीय आश्रयस्तन्तवस्तै रारब्धे द्रव्ये पटलक्षणे विशेषगुणान्तरस्य पटरूपस्यारंभो भवतीति तात्पर्यम् / अथ शङ्खश्रोत्रयोरन्तराले शङ्खन [कु० शेनेन्द्रियदेशप्राप्तिरवश्यकल्पनीयेति / शब्दस्य तु न सङ्ख्यादिगुणत्वमथापि सिद्धम्, अतस्तदाश्रयस्य लेशेन श्रोत्रदेशागमनं कल्पयितुं न शक्यमिति भावः / स्पर्शवद्विशेषगुणस्य (कं. 60.12) इत्यत्र विशेषग्रहणं स्वाश्रयानारब्धेऽपि द्वित्वादिकमारभमाणस्यैकत्वस्य व्यवच्छेदाय / अस्तु तीप्राप्तस्य शमादिगुणस्य शब्दस्य श्रोत्रेण ग्रहणमिति भाष्यम्याख्यानावसरे प्रतिपादितं प्राप्यकारित्वं स्मरयन् प्रत्याचष्टे न चेति (कं. 60.14) : उपसंहरति सैवेति (कं. 60.15) / ननु माभूच्छादिगुणः, वायुगुणो भविष्यति, मूर्त्तानां परस्पराभिघातप्रेरिते वायौ उत्पन्नः शब्दः द्वाभयगत्या श्रोत्रं प्राप्य ग्रहीष्यते तथा च केचिदाहुः वायुरापद्यते शब्दतामिति अत आह अस्मिन्नन्तरालव्यापिनीति (क. 60.15) इदमत्राकृतम् -श्रोत्रं तावदहिरिन्द्रियतया गुणावान्तरजात्या स्वग्राह्यजातीयगुणवदास्थेय [म्] / बहिरिन्द्रियत्वं च नियतविषयत्वेन सिद्धमेव / ततश्च शब्दस्य वायगणत्वे श्रोत्रस्यापि वायत्वप्रसक्ते स्पर्शग्राहकत्वप्रसक्ती न वायवीयं श्रोत्रम / ततश्च शब्दोऽपि गूणावान्तरजात्या ग्राहकेन्द्रियवतिगणजातीयगणो भवन्न वायूगण इति इदं चान्तरालव्यापिनीद्वितेन सूचितमिति / 1 विषयदेशे - जे. 1; जे. 3 / 2 तत्रापि-कं। 3 [ ] चिह्नान्तर्गतो पाठ: 'अ'पुस्तके नास्ति / 4 यस्मिन् -कं 1, कं. 2 /