________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 155 न्यायकन्दली स्वाश्रयस्य यत्समवायिकारणं तद्गुण पूर्वकः / शब्दो न भवति, 'पटरूपादिवदाश्रयोत्पत्त्यनन्तरमनुत्पादात् / अतः सुखादिवत् स्पर्शवतो विशेषगुणो न भवति / विशेषगुणत्वप्रतिषेधे सामान्यगुणत्वं भविष्यतीति नाशङ्कनीयम्, सामान्यविशेषवतस्तस्य बाह्येकेन्द्रियग्राह्यत्वेन रूपादिवद्विशेषगुणत्वसिद्धः / पार्थिवपरमाणुरूपादयः स्पर्शवद्विशेषगुणा अथ चाकारणगुणपूर्वकाः परमाणोरकार्यत्वात् तद्वयवच्छेदार्थं प्रत्यक्षत्वे सतीति कृतम् / यावद्द्व्यं शब्दो न भवति सत्येवाश्रये शङ्खादौ तस्य विनाशात्, अतोऽपि सुखादिवत् स्पर्शवद्विशेषगणो न भवति / तत्रापि पार्थिवपरमाणुरूपादिभिरेव व्यभिचारः, तेषां सत्येवाश्रये 'परमाणावग्निसंयोगेन विनाशात् तदर्थं प्रत्यक्षत्वे सतीत्यनुवर्तनीयम् / हेत्वन्तरञ्चाह-आश्रयादन्यत्रोपलब्धेश्च / स्पर्शवद्विशेष गुणत्वे च शब्दस्य शङ्खादिराश्रयो वाच्यः / स च तस्मादन्यत्र [टि०] कार्यम् / स्नेहद्रवत्वयो द्वीन्द्रियग्राह्यत्वेऽपि सपक्षकदेशवृत्तित्वमेव हेतोः न तु दूषणम् / आश्रयादन्यत्र इतिअत्राप्याश्रयग्रहणमर्थकथनार्थम्, शब्द प्रति शङ्खादेराश्रयत्वासिद्धेः / वाक्यं तु विवादास्पदः शब्द : शलादिविशेष गुणो न भवति, तदन्यत्रोपलभ्यमानत्वात्, अन्वयेन यथा स्नेहः, व्यतिरेकेण तद्गतरूपवद् इति कर्तव्यम् / [पं०] रूपत्वादीनां बाझैकेन्द्रियग्राह्यत्वे सत्यपि विशेषगुणत्वाभावात् / सामान्यविशेषवत्त्वे सतीति विशेषितम् / ग्राह्यत्ववदित्युक्ते व्योमादिपरोक्षार्थ (1) घटादिप्रत्यक्षार्थसख्या (2) आत्मगतैकत्वसंख्या (3) रूपत्वय॑भिचारस्तदपोहाय क्रमेण - इन्द्रिय-१- एक -2- बाह्य -3- सामान्यविशेषवत्त्वादिति -४-विशेषणानीति सूक्ष्मेक्षिकया परिभाष्यम् / तव्यवच्छेदार्थ प्रत्यक्षत्वे सतीति कृतमिति / कोऽर्थः ? पार्थिवपरमाणूनां ये रूपादयस्ते स्पर्शवद्विशेषगुणाः, न च कारणगुणपूर्वकाः / परमाणूनां कारणाभावात् / एवंशब्दोऽपि कारणगुणपूर्वकत्वाभावेऽपि स्पर्शवद्विशेषगुणो भविष्यतीति "प्रश्ने इदमुत्तरम् / प्रत्यक्षः शन्दस्ते चाप्रत्यक्षा इति कुतः साधर्म्यमित्यर्थः / / [कु०] महारविकारस्थोप (त्वे च) सर्ववेद्यविषयव्याप्तानीन्द्रियाणीत्याशयेनाशङ्कते इन्द्रियाणामिति (कं. 60.5) तबन्येषामनुपयोगादिति (कं. 60.9) प्राप्त्याविषयग्राहकव्यतिरिक्तेन्द्रियसद्भावे प्रमाणाभावादित्यर्थः / ननु भवन्मतेऽपि चक्षुषो रश्मिरूपा रश्मयो विद्यन्त एव तत्कथं व्यतिरिक्तेन्द्रियसद्भावे प्रमाणाभाव इत्यत आह न" च श्रोत्र इति (कं. 60.9) / सेजसतया चक्षुषो रश्मिरूपा वृत्तयो भवन्तु, अतंजस्य तु ता न घटन्त इत्यर्थः / नन्वतैजसेनापि प्राणेन प्रदेशान्तरवतिकेतकीकुसुमादिगन्धग्रहणवदत्रापि भविष्यतीत्यत आह नापीति (कं. 60.11) युक्तं गन्धस्य कारणगुणपूर्वकयावद्दव्यभावित्वाभ्यां पृथिवीवृत्तित्वनिश्चया[द] देशान्तरोऽयं च भेदे च प्रमाणसिद्धे सदाश्रयस्य 1 यः-जे. 2 / 2 पूर्वः- कं. 1; कं. 2 / 3 रूपादिवत्-जे. 1; जे. 2; जे. 3 / 4 भवतीति - जे. 2 / 5 रूपत्वादीनां बाह्य केन्द्रियविशेषगुणत्वाभावात् सामान्यविशेष व त्त्वे सतीति विशेषितम्-टिप्पण-जे. 1 / 6 परमाण्वग्नि - जे. 1; जे. 3 / 7 गुणत्वे-कं. 1; कं. 2 / 8 तद्रूषणमिति रम्यं स्यात् / 1 सयादि-ड; 1. प्रश्न: -भ। 15 श्रोत्रवृत्तिः इति पाठे श्रोत्रेति भाव्यम् /