________________ 154 न्यायकन्दलीसंबलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [71-72-73-74] 'शब्दः प्रत्यक्षत्वे सत्यकारणगुणपूर्वकत्वादयावद्रव्यभावित्वादाश्रयादन्यत्रोपलब्धेश्च न 'स्पर्शवद्विशेषगुणः। बाह्येन्द्रियप्रत्यक्षत्वादात्मान्तरग्राह्यत्वादात्मन्यसमवायादहङ्कारेण विभक्तग्रहणाच्च नात्मगणः। श्रोत्रग्राह्यत्वाद् 'वशेषिकगुणभावाच्च न दिक्कालमनसाम् / 'परिशेषाद् गुणो भूत्वा आकाशस्या धिगमे लिङ्गम्। न्यायकन्दली [71] नन्वाकाशस्य सद्भावे किं प्रमाणम् ? प्रत्यक्षमेव, वियति पतति पतत्त्रिणि चक्षुर्व्यापारेणेहायं पक्षी प्राप्तो नेहेति नियतदेशाधिकरणा प्रतीतिरिति केचित्, तदयुक्तम्, अरूपस्य द्रव्यस्य चाक्षुषत्वाभावात् / योऽप्ययमधिकरणप्रत्ययस्तत्र विततालोकमण्डलव्यतिरेकेण 'न द्रव्यान्तरं प्रतिभाति, अत आकाशस्य सद्भावे परिशेषानुमानमपन्यस्यञ्छब्दस्य द्रव्यान्तरगुणत्वं निषेधति-शब्द इति / [टि०] आश्रयोत्पत्यनन्तरमित्यर्थकथनम्, तस्य शङ्खादेः शब्दं प्रत्याश्रयत्वस्या सिद्धेः / सामान्यविशेषेति "शब्दोविशेषगुणः, "सामान्यविशेषवत्वे सति बाह्यकेन्द्रियग्राह्यत्वात् रूपादिवत्, अत्र सामान्य विशेषवत्त्वे सतीति रूपत्वेन बाह्येत्यात्मगतकत्वेन, एकेति घटादिसङ्ख्यया, इन्द्रियेत्याकाशेन व्यभिचारवारणार्थम् / "योगीन्द्रियव्यवच्छेदार्थमस्मदादीति [पं०] [71] श्रीधर एवैकीयमतमाह-प्रत्यक्षमेवेत्यादिना / केचिदिति -मीमांसकाः / स्वाश्रयस्य यत्समवायिकारणमित्यादि-स्वाश्रयस्य शंखादेर्यत्समवायिकारणं पार्थिवपरमाणवस्तद्गुणपूर्वक: शब्दो न भवतीत्यर्थः / अतः सुखादिवस्पर्शवतां विशेषगुणो न भवतीति - सुखादयो हि तस्याश्रयसमवायिकारणगुणपूर्वकास्तेषां हि स्वाश्रय आत्मा, तत्समवायिकारणं च नैवास्ति नित्यत्वादिति भावना / सामान्यविशेषवतस्तस्य बाह्येन्द्रियग्राह्यत्वेन रूपादिवद्विशेषगुणत्वसिद्धेरिति-अत्रैवं प्रयोगो विधेयः शब्दो विशेषगुणः, सामान्यविशेषवत्त्वे सति बाह्य केन्द्रियग्राह्यत्वात्, रूपादिवत् / [कु०] [71] नानुपलब्धे न निर्णीतेऽर्थे न्यायः प्रवर्तते इति धर्मिण्युपलब्धे लक्षणं वक्तव्यमित्यभिप्रायेण पृच्छति नन्विति (कं. 59.13) / नियतदेशाधिकरणा प्रतीतिरित्यते (कं. . 59.14) देश (देश) ग्रहणं कालव्यावर्तनाय / "अरूपद्रव्यस्येति (कं. 59.15) अत्र द्रव्यग्रहणं गुणकर्मसामान्यव्यावृत्तये / स्वाश्रयस्येति (कं 59.17) पराभिप्राये वः / सामान्य विशेषत्व (59.20) इति पदं रूपत्वादिभिव्यभिचारपरिहाराय / आत्मना व्यभिचारपरिहाराय बाह्यग्रहणम / सङख्यादिभि[य॑भि]चारपरिहारायकग्रहणम् / प्रत्यक्षत्वे सतीत्यनुवर्तनीयमिति (कं. 60.1) पिठरपाकस्य निराकरिष्यमाण[त्वा] न तद्रूपादिभिव्यभिचार इत्यर्थः / 1 तत्र शब्द:-कि। 2 स्पर्शवतां-दे। 3 विशेषगुणभावाच्च - कि। 4 पारिशेष्यात् -कि / 5 °धिगमने -ता। 6 चेत् - कं. 1; कं. 2 / 7 'न' जे. 2 पुस्तके नास्ति। 8 उपन्यस्य-जे.२। 9 सिद्धः- अ, ब; 10 विशेषवत-मु. जे. 1, जे. 3; 11 शब्दोऽपि इति भ्रष्टं अ पुस्तके; 12 सामान्यत्वे-अ, ब, क; 13 योगीन्द्र-अ, ब, क 14 अयं पाठो कन्दल्यां नास्ति / 15 अरूपस्य द्रव्यस्य-कं. 1. / 16 विशेषवत /