________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् प्रशस्तपादभाष्यम् [70] आकाशकालविशामेकैकत्वादपरजात्यभावे पारिभाषिक्यस्तिस्रः सज्ञा भवन्ति, 'आकाशः कालो दिगिति / 'तत्राकाशस्य गुणाः शब्दसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागाः। न्यायकन्दली [70] आकाशादीनां त्रयाणां सङक्षेपार्थमेकेन ग्रन्थेन वैधयं कथयति-आकाशकालदिशामिति / आकाशस्य कालस्य दिशश्चैकैकत्वादपरजाति स्ति, तस्या व्यक्तिभेदाधिष्ठानस्वात् / अपरजात्यभावे चाकाश इति काल इति दिगिति तिस्रः सञ्ज्ञा पारिभाषिक्यो न पृथिव्यादिसञ्जावदपरजातिनैमित्तिक्य इत्यर्थः / स वैषामितरवैधयं यस्याः सम्ज्ञाया विना निमित्तेन शृङ्गाग्राहिकया सङ्केतः सा पारिभाषिकी यथायं देवदत्त इति / यस्याः पुननिमित्तमुपादाय सङ्केतः सा नैमित्तिकोति विवेकः / सम्प्रति 'प्रत्येक निरूपणार्थमाह-तत्राकाशस्य गुणा इति / तेषां त्रयाणां मध्ये आकाशस्य गुणाः शब्दसङ्घयापरिमाणपृथक्त्वसंयोगविभागाः। शब्दादिगुणयोगोऽप्याकाशस्य वैधर्म्यम् / [टि०] ( // अथाकाशनिरूपणम् // ) - [70-71] 'योऽप्ययमधिकरणेतिः- यस्तिहायमालोको घनान्धकारे खद्योतदर्शनाद् 'इहायं खद्योत' इति च प्रत्ययः सोऽपि तदवययापेक्ष एवेति / अकारणगुणपूर्वकत्वस्यासिद्धिमाशङ्क्याह 'रूपादिवद् इति:- विवादाध्यासित: शब्दः" [शङ्खादिसमवायकारणपूर्वो न भवति] शङ्खाद्युत्पत्त्यनन्तरम"नुत्पादात्, व्यतिरेके यथा रूपम् / [पं०] [70] शृङ्गग्राहिकयेति-यदयं गौरिति हस्तादिना दर्शयते सा शृंगग्राहिका / तया शृंगग्राहिकया साक्षात्कारेणेति यावत् / लक्षणशब्दोऽयम् / सा नैमित्तिकीति- यथा, गच्छतीति गोः / शब्दादिगुणयोगोऽपीति न केवलं पारिभाषिकी -संज्ञा पथिव्यादिभ्यो वैधयं शब्दादिगुणयोगोऽपि वैधर्म्यमितिरपेरर्थः / परवाक्यं - नन्वाकाशस्येत्यादि / [कु०] [70] समस्य निरूपणे कारणमाह संक्षेपार्थमिति (कं. 59.4) व्यक्तिभेदाधिष्ठानत्वादिति (कं. 59.6) अनेवंभूतत्वे त्वनुवृत्तिप्रत्ययस्य प्रमाणस्याभावादित्यर्थः / यस्याः सञ्जाया इति (कं. 59.8) नन्वाकाशशब्दस्यापि शब्दाश्रयत्वं नित्यमस्ति तत्कथमियं पारिभाषिकीति चेत न, व्यक्तिस्वरूपस्यैव सङ्केतग्रहणे शक्ये सति शब्दाश्रयत्वस्य निमित्तत्वात् कल्पनायां कल्पनागौरवप्रसङ्गात् शब्दवदाकाशमिति चानयोः पर्यायतया सह प्रयोगानुपपत्तिप्रसङ्गाच्चेति सझैवेत्यवधारणमपरजतीति व्यवदच्छेदमात्रपरमन्यथा शब्दादिगुणयोगवैधर्म्यमित्यादिभिर्वक्ष्यमाणैविरोधप्रसङ्गात् / शब्दादिगुणयोगोऽपीति (कं. 59.12) शब्दस्वरूपेण वैधयं सङ्ख्यावदस्तु तत्साहचर्येणेति भावः / 1 आकाशं-कि; व्यो.। 2 तत्राकाशगुणाः -कि; तस्य गुणा:-व्यो। 3 सझैषा-कं. 1; कं. 2 / 4 प्रत्येकंकं. 1; कं. 2 / 5 निरूपणार्थमिदमाह-जे.३ / 6 तत्राकाशस्येति - जे. 1; जे. 2; जे. 3 / 7 याप्यय -अ; 8 ये-अ, ब; 9 पररूपादिवद-मु; 1. [ ] एतचिह्नान्तर्गतः पाठः ड पुस्तके नास्ति / 11 मुत्पादात्-अ, ब, क;