________________ 152 न्यायकन्दलीसंवलितप्रशस्तपावभाष्यम् न्यायकन्दली न तन्मूलौ रागद्वेषौ, तयोरभावान्न तत्पूर्विका प्रवृत्तिः, 'प्रवृत्त्यभावे च न तत्साध्यौ धौधौ, तयोरभावात् तज्जयोरपि सुखदुःखयोरभावः, सर्वदैव चानुभवसद्भावात् स्मृतिसंस्कारावपि नासाते इत्यष्टगुणाधिकरणो भगवानीश्वर इति केचित् / अन्ये तु बुद्धिरेव तस्याव्याहता क्रियाशक्तिरित्येवं वदन्त इच्छाप्रयत्नावप्यनङ्गीकुर्वाणाः षड्गुणाधिकरणोऽयमित्याहुः। स किं बद्धो मुक्तो वा ? न तावद् बद्धः, बन्धनसमाज्ञातस्य 'बन्धहेतोः क्लेशादेरसम्भवात् / मुक्तोऽपि न भवति, बन्धविच्छेदपर्यायत्वान्मुक्तेः / नित्यमुक्तस्तु स्यात्, यदाह तत्रभवान् पतञ्जलिः - "क्लेशकर्मविपाकाशयरपरामृष्टः पुरुषविशेष ईश्वरः" इति / [सि०] रजतभ्रमः / बन्धन'समाम्नातस्यतस्य इतिः - बन्धनरूपेण कथितस्य / क्लेशकर्मेति-अविद्या-अस्मितारागद्वेषाभिनिवेशाः क्लेशाः, कर्माणि या गादीनि, विपाका जात्यायुर्भोगाः, आशया धर्माधर्मसंस्काराः, संस्काराणां तु केवलानामशयत्वे कर्मशब्देन धर्माधर्मयोरभिधानम् // 7 // वायुः / / [40] ज्ञानसद्भावात् / अष्टगुणाधिकरण इति-संख्यापरिमाणपथकत्वसंयोगबद्धिविभागेच्छाप्रयत्नाख्याऽष्टौ ईश्वरगुणाः / क्लेशकर्मविपाकाशयरिति-अविद्याऽस्मितारागद्वेषमोहाभिनिवेशाः क्लेशाः। मिथ्याज्ञानमविद्या स्थलाहकारीऽहमित्यस्मिता। विषयेष्वभिसंगो रागः। अप्रीतिलक्षणो द्वेषः / मोहो वैचित्र्यमज्ञानं वा। अभिनिवेश आग्रहः / स च द्विधा-तत्त्वाभिनिवेशः मिथ्याभिनिवेशश्च / कर्मशुभाशुभस्वरूपम् / जात्यायुर्भोगा विपाकाः . संसारवासना = आशयः / क्लेशाश्च कर्म च विपाकान आशयश्चेति द्वन्द्वसमासः // ईश्वरसिद्धिः // छ। [कु०] बहूनामिति (कं. 57.16) / द्वयोरप्युपलक्षणम् / द्वितीयं दूषयति सर्वज्ञत्व इति (कं. 57.16) / अनुपयोगादिति (कं. 57.17) अनेककल्पनागौरवं दर्शयति किं च ते प्रत्येक कार्यकारणा वा समुदिता वा / आद्येऽपि समप्रधानभावभाजो वा न वा? / तत्राद्यं दूषयति न चेति (कं. 57.17) / द्वितीयं दूषयति एकाभिप्रायेति (कं. 57.18) / समुदितानां कार्यकारित्वत्वाद् [त्व दूषयति पेरिषदामिवेति (कं. 57.19) / संसारित्वाप्रयोजकामिथ्याज्ञानादि (दी) नपाकरोति तदेवमिति (कं. 57.20) / अस्मदाद्यसर्वज्ञाशक्यत्वं कार्यस्य विशेषः / सुखदुःखयोरिति (कं. 57.23) शरीरेन्द्रियाणामुपलक्षणम् / एवमसंसारित्वादेवा बद्वत्वे / अत एव बन्धप्रतियोगिमुक्त्याभावे च सिद्धे स्पष्टार्थमुभयाभावं प्रश्नपूर्वकं व्युत्पादयति स किमिति (कं. 57.26) / नित्यमुक्त इति (कं. 58.3) नित्योऽसंसारो भगवानीश्वरः सिद्ध इत्यर्थः / 1 प्रवृत्त्यभावेन -जे. 2 / 2 तयोश्चाभावात् - जे. 2 / . 3 दुःखहेतो:-जे. 1, जे. 2, जे. 3 / 4 समाज्ञातस्यैतस्येति-जे. 1, जे. 3; समाम्नातस्यैतेति-अ, ब, क; 5 योगादीनि - अ, ब; 6 यद्यपि वायुनिरूपणं पूर्वमेव समाप्तं किन्तु प्रसङ्गागतं सृष्टिसंहारनिरूपणमीश्वरसिद्धिश्च अत्रैव समाविष्ट इति वायुनिरूपणप्रकरणसमाप्तिः टिप्पणकारेणात्र सूचिता।