________________ टिप्पणपञ्जिकाकुसुमोदगमाबिटीकात्रयोपेतम् 151 __ न्यायकन्दली सथा चैके 'वदन्ति-"पराञ्चि खानि व्यतणत् स्वयम्भस्तस्मात् 'परान् पश्यति नान्तरात्मन्" इति / अनवबोधे च 'सेषां नाधिष्ठातार इति तेभ्यः परः सर्वार्थशिसहजज्ञानमयः कर्तृस्वभावः कोऽप्यधिष्ठाता कल्पनीयः, चेतन मधिष्ठातारमन्तरेणाचेतमानां प्रवृत्यभावात् / स किमेकोऽनेको वा ? एक इति वदामः / बहूनामसर्वशत्वेऽस्मवाविषवसामर्थ्यात्, सर्वज्ञत्वे त्वेकस्यैव सामर्थ्यादपरेषामनुपयोगात् / न च समप्रधानानां भूयसां सर्वदकमत्ये हेतुरस्तीति कदाचिदनुत्पत्तिरपि कार्य्यस्य स्यात्, एकाभिप्रायानुरोधेन सर्वेषां प्रवृत्ता'वेकस्यैवेश्वरत्वं नापरेषाम्, 'मठपरिषदामिव कार्योत्पत्त्यनुरोधेन सर्वेषामविरोधे प्रत्येकमनीश्वरत्वम् / तदेवं कार्यविशेषेण सिखस्य कर्तृविशेषस्य सर्वज्ञत्वान्न कुत्रचिद्वस्तुनि विशेषान पलम्भोऽस्ति / अतो न तन्निबन्धनं मिथ्याज्ञानम्, मिथ्याज्ञानाभावे च ग्राहकाणीन्द्रियाणि सृष्टवान् त स्मात् कारणादस्मदादिशरीरान्तर्वर्तमान आत्मा पराम् शरीराद्युपादानयोग्यान् परमाणून पश्यति / परोह्यर्थ इन्द्रियरेव ग्राह्यो नात्मना। इन्द्रियाणि च न परमाणुग्रहणे समर्षानीति भावः / 'भतृणम्' इति तृटे "रौधादिकस्य प्रस्तन्या रूपम् / अतो न तन्निबन्धनम् इति / शुक्तिकाविशेषानुपलम्भे हि तत्र [.] तस्मादिन्द्रियप्रत्यासत्तिविशेषात् / साधूक्तमिति अस्माभिरिति शेषः / अशरीरिणामिति - अजातशरीराणाम् / पराञ्चीति परार्थगामीनि / व्यतृगविति - अससर्ज / परानिति-परान्भावान् / तेषां नाधिष्ठातार इति - तेषां विषयाणामधिष्ठातारोऽस्मदादीनामात्मनो न भवन्तीत्यर्थः। अविरोधे इति- ईश्वरस्वाविरोधे / अनुभवसद्भावादिति - [0] (कं. 57.9) इन्द्रियादिव्यापारानन्तरभाविविषयावभाविव्यतिरिक्तमिति मच्चैतन्येन प्रमाणमस्ति, अपितेचाभिहितमेव दूषणमिति भावः / नान्तरिति (कं. 57.13) सहज चैतन्यं विषयावभासव्यतिरिक्तमात्मनो नास्तीत्यर्थः उपसंहरति तेभ्य (कं. 57.13) इति / एवमुपलब्धिमत्तया सिद्धस्यात्मभेदत्वात् समस्तात्मधर्मप्रसन्नो (क्तौ) संसारित्वेनानीश्वरापातपातानिरासाय गुणान वधारयनितरानपेक्षया द्वित्वसङ्ख्याप्रश्नपूर्वकं निरस्यति स किमिति (कं. 57.15) / उप[ल]न्धिमपूर्वकमित्यत्र समासे विभक्तिलोपेन सङ्ख्याविशेषानवगमात् प्रश्नः बह [व]स्ने किमसर्वज्ञाः सर्वज्ञा वा ? भाचं दूषयति 1 पठन्ति -जे. 1, जे. 2, जे.३। 2 पराङ-कं. 1, कं. 2 / परान-पदार्थान-टिप्पण-जे. 1 / 3 तेषांपरमाणनामधिष्ठातार:-जे.१-टिप्पण। 4 चेतन व्यापार-जे.१, जे. 2, जे. 3 / 5 समस्तप्रधानानां-जे.३। 6 °फस्येश्वरत्वं-कं. 1; कं. 2 / 7 'मठ' इति जे. 1, जे. 2, जे. 3 पुस्तकेषु नास्ति / 8 सिद्धकर्तृविशेषस्य - 'जे.२। 9 नुपलम्भ:-कं. 1; कं. 2 / 10 तत्कारणाद्-अ, ब, 11 रोधादिकस्य-म, ब;