________________ 150 न्यायकन्दलीसंवलितप्रशस्तपावभाष्यम् न्यायकन्दली [69] आत्माधिष्ठिताः परमाणवः प्रवत्तिष्यन्त इति चेन्न, तेषां स्वकर्मोपाजितेन्द्रियगणाधीनसंविदां 'शरोरोत्पत्तेः पूर्व सर्वविषयावबोधविरहात् / अस्त्यात्मनामपि सर्वविषयव्यापि 'सहजचैतन्यमिति चेन्न, सहजं शरीरसम्बन्धमाजां तत् केन 'विप्लुतं येनेदं सर्वत्रापूर्वववव भासयति / शरीरावरणतिरोधानात् तवात्मन्येव समाधीयते, न बहिर्मुखं भवतीति चेत् ? व्यापकत्वेन तस्य विषयसम्बन्धानुच्छेदेन नित्यत्वेन च विषयप्रकाशस्वभावस्यानिवृत्तौ का तिरोधानवाचोयुक्तिः ? वृत्तिप्रतिबन्धश्चैतन्यस्य तिरोधानमिति चेत् ? कथं तहि शरीरिणां विषयग्रहणम् ? क्वचिदस्य 'वृत्तयो न निरुध्यन्त इति चेत् ? कुतोऽयं विशेषः ? इन्द्रियप्रत्यासत्तिविशेषाद् यद्येवम्, इन्द्रियाधीनश्चतन्यस्य विषयेषु वृत्तिलाभो न सन्निधिमात्रनिबन्धनः, सत्यपि व्यापकत्वे सर्वार्थेष प्रवृस्यभावाविन्द्रियवैयर्थ्यप्रसङ्गाच्चेति साधूक्तमशरीरिणामात्मनां न विषयावबोध इति / Ifo] [69] परमाणवः चेतनाधिष्ठिताः कार्याय प्रवर्तन्ते अचेतनत्वाद् घटवदित्याशङ्कयाह-आत्माधिष्ठिता इति / समाधीयते विलीनं भवतीत्यर्थः / साधूक्तमिति :- अस्माभिरिति शेषः / पराञ्चि खानि इति:-ब्रह्मा हि पराञ्चि [40] [69] तेषामिति = आत्मनाम् / शरीरोत्पत्तेः पूर्व विषयावबोधविरहादिति-विषयावबोधाभावे वक्तु (स्तु). तोऽधिष्ठातृत्वमिति भावः / येनेति = येन हेतुमा / इदमिति = चैतन्यम् / अवभासयतीति अत्र विषयानिति शेषः / तरिति-तन्यम् / समाधीयते इति = लीयते / तस्येति-ज्ञानस्य / वृत्तिप्रतिबन्ध इति-शक्तिप्रतिबन्धः / शरीरिणामिति - सशरीराणाम् / इन्द्रियप्रत्यासत्तिविशेषादिति इन्द्रियप्रत्यासत्तिलक्षणो यो विशेषः उत्कृष्टतेति यावत् / [50] [69] इह कारणाधिष्ठानं नाम ज्ञात्वा प्रवर्तनं न तु कार्यादिभोगित्वमात्रम् इतरथा कुलालादिप्रसङ्गा (स्) / तच सर्गादो भोक्तृणां सत्यपि कर्मसम्बन्धेन न शक्यमित्याह न तेषामिति (कं. 57.2) / अस्त्यात्मनामिति (कं. 57.3) इन्द्रियाद्यनेकजन्मनामेकजन्मस्यापि ज्ञानस्य तत्र नियमेन समवायस्यान्यथानुपपत्त्या कल्पितमिति भावः / सर्वत्रापूर्वविति (कं. 57.4) अज्ञानमेव विषयमालम्ब्य ज्ञानोत्पत्तिदर्शनान्मत्पिण्डादावसतोऽपि घटादेः समवायवत कारणस्वभावेनाम्ययोपपत्तेरापत्तिः परिक्षीणेति भावः / अपूर्ववद्विषयावलम्बनस्यान्यथोपपत्तिमाशते शरीरेति (कं. 57.5) / इह तिरोधानां [मात् सम्बन्धः प्रतिबन्धो वा चक्षपटयोरिव पटादीनां सम्बन्धिन एव मिवर्तनं पा(त्) प्रदीपस्येव वाय्वादिनेति / उभयमपि न सम्भवतीत्याह "त (द)-व्यापकत्वेनेति (कं. 57.6) / पोवमिति 1 शरीरोरत्तेः सर्वविषया-कं. 1, कं. 2 / 2 सहजं चैतन्यमिति चेत् शरीरसम्बन्धभाजां-जे. 1, जे. 2, जे. 3 / 3 विप्सतम्-जे. 1, जे. 2, जे. 3 / 4 माभासयति-जे. 1, जे. 2, जे. 3 / 5 नच्छेदे-जे. 1, जे. 2, जे. 3 / 6 चैतन्यतिरोधान-कं. 1, कं. 2 / 7 वृत्तपो निरुध्यन्ते-जे.१। 8 वृत्त्यभावादिन्द्रियवयर्थ्यप्रसङ्गाच्च-कं.१ / 9 भस्माभिरित्यावृत्तम् - अ पुस्तके; 10 पत्तेः विषयाव-क। 11 चेण्यापकत्वेन - कं. 1. /