________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपैतम् __ न्यायकन्दली इच्छाप्रयत्नोत्पत्तावपि शरीरमपेक्षणीयमिति चेत् ? अपेक्षतां 'यत्रानयोरागन्तुकत्वम्, यत्र पुनरिमौ स्वाभाविकावासाते तत्रास्यापेक्षणं व्यर्थम् / न च बुद्धीच्छाप्रयत्नानां नित्यत्वे कश्चिद् विरोधः / दृष्टा हि रूपादीनां गुणानामाश्रयभेदेन द्वयी गतिः'नित्यतानित्यता च। तथा बुद्धयादीनामपि भविष्यतीति / सेयमीश्वरवादे वावि'प्रतिवादिनोरपि पराकाष्ठा / अतः परं प्रपञ्चः / [टि०] स्येच्छाप्रयत्नसद्भावेऽपि पादचलनासामर्थ्यात् ? सत्यम् / तथापि शरीरानपेक्षस्यैव तावत्तत्रापि कर्तृत्वमस्त्येवेति / दृष्टा हि इति-जलपरमाणुरूपादयो हि नित्याः, अवयविगता स्त्वनित्याः / [पं०] अशरीरिव्याख्याहेतोः - / कदाचिदिति स्वशरीरप्रेरणायाम् / बुद्धिमदव्यभिचारि तु कार्यत्वमिति - कोऽर्थः ? कार्यत्वहेतुशरीरत्वं व्यभिचरति / बुद्धिमत्त्वं तु न व्यभिचरतीत्यर्थः / अस्यापेक्षणामिति = शरीरस्यापेक्षाणाम् / दृष्टा हि रूपादीनां गुणानामाश्रयभेदेन द्वयी गतिरिति-ये नित्यद्रव्याश्रिता रूपादयस्ते नित्याः / ये त्वनित्यद्रव्याश्रितास्तेऽमित्याः / [कु०] उष्णत्वशीतत्वे अपि विरुध्येते इति / चतुर्थः परिशिष्यते तत्राह - 'दृष्टो हीति (कं. 56.25) / नित्यता पयःपरमाण्वादौ घटादावनित्यता तथा बुद्धयादीनामिति / ईश्वरे धर्मिग्राहकप्रमाणादेव नित्यता बुद्धेः / नास्ति सम्भवः सर्गादौ महाभूतोपादानादिबुद्धिरनित्या भवतीति / अस्मदादिबुद्धौ चानित्यताप्रमाणत्व एवेति / एवं कर्तृत्वाशरीरित्वयोरपि कुलालादौ शुकादौ च परस्परपरिहारेणोपलभ्यमानयोर्धमिग्राहकादेः प्रमाणादीश्वरे विरोधः परिहरणीय इति भावः / एवमसिद्धत्वानैकान्तिकत्वकालात्ययापदिष्टत्वविरुद्धत्वाद्याशङ्कय परिहृतानि / घटादौ सपक्षे वर्तमानतयाऽनध्यवसितत्वमनाशङ्कनीयमेव / ईश्वरो न कर्ता मुक्तात्मवदित्यादेः प्रतिपक्षस्य चाश्रयासिद्धिधमिग्राहकप्रमाणबाधाभ्यामनाशङ्कनीयत्वमेव / प्रकरणममत्वम्, अस्मदादिशक्यज्ञानोपादानत्वं क्रियादिदर्शन () कृतबुद्धिविषयत्वमित्येवमादीनामुपाधितया शक्यमानानामस्मदादिकर्तृत्वप्रयोजकतया कर्तृत्वसामान्यं साध्यं प्रति अव्यापकत्वात्स्पष्टमनुपाधित्वमिति सर्वहेत्वाभासशङ्का निराकरणादनवद्यमनुमानमित्याशयेनोपसंहरति सेयमिति (कं. 56.26) / ननु जीवानामेवादृष्टद्वारा महाभूतोपादानपरमाण्वधिष्ठानसम्भवात्सिद्धसाधनमस्तु दूषणं स चासिद्धभेद एव संदिग्धसाध्यतारूपलक्षणविरहात् तत्प्रवृत्तेहेंतोरपक्षधर्मत्वादित्यत आह अतः परमिति (कं. 57.1) / 1 यत्र तयोः-कं. 1, कं.२। 2 नित्यत्वमनित्यत्वं च-जे. 1; नित्यता चानित्यता च-जे. 2 / 3 °वादिनोः परा' - कं. 1, कं. 2 / 4 चलन-अ, ब; 5 ह्यनित्याः -अ, ब, क; 6 दृष्टा-कं. 1, कं. 2 /